6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 403:
 
<big>घसॢ + क्तिन्‌ → घस्‌ + ति → '''घसिभसोर्हलिच''' (६.४.१००) इत्यनेन उपधा-लोपः → घ्‌ + स् + ति → '''झलो झलि''' (८.२.२६) इत्यनेन स्‌-लोपः → घ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) इत्यनेन त्‌-स्थाने ध्‌-आदेशः → घ्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वम्‌ → ग्‌ + धि → ग्धि → 'समाना ग्धिः' इत्यस्मिन्‌ अर्थे समासे सति '''समानस्यच्छन्दस्यसूर्धप्रभृत्युदर्केषु''' (६.३.८४) इत्यनेन समानार्थे 'स' इति आगमः → सग्धिः | 'सग्धिः स्त्री सहभोजनम्‌' अमरकोषम्‌ (२.९.५५) अनुसृत्य सहभोजनार्थे प्रयोगो भवति |</big>
 
<big><u>धन → धन्‌ धातुः</u> (परस्मैपदी, धान्ये, छान्दसः)</big>
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>धन्‌ → '''श्लौ''' → धन्‌-धन्‌ → '''हलादिः शेषः''' → धधन्‌ → '''अभ्यासे चर्च''' → दधन्‌ इति अङ्गम्‌</big>
 
<big>b. अङ्गकार्यम्‌— उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति | परन्तु विशिष्टम्‌ अङ्गकार्यं वर्तते, '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधादीर्घादेशः झलादि कित्‌ङित्‌-प्रत्यये परे—</big>
 
<big>दधन्‌ + तः → '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यनेन उपधायाः दीर्घादेशः → दधान्‌ + तः → '''नश्चापदान्तस्य झलि''', '''अनुस्वारस्य ययि परसवर्णः''' → दधान्तः</big>
 
<big>'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |</big>
653

edits