6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 425:
 
<big>'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |</big>
 
 
<big>धेयं यत्‌ सिद्धान्तकौमुद्यां रूपं दत्तमस्ति 'दधन्तः' | माताजी वदति यत्‌ इदं रूपं दोषाय; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्य कार्यम्‌ अत्र भवेदेव |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकान्तधातुरिति उच्यते |</big>
 
 
<big>दधन्‌ + ति → '''नश्चापदान्तस्य झलि''' → दधं + ति → '''अनुस्वारस्य ययि परसवर्णः''' → दधन्ति</big>
 
<big>दधन्‌ + सि → '''नश्चापदान्तस्य झलि''' → दधं + सि → दधंसि</big>
 
 
<big>धेयं यत्‌ दधन्‌ नकारान्तम्‌ अङ्गम्‌; नकारः झलि नास्ति अतः लोटि हि-स्थाने धि-आदेशो न भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits