6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 456:
 
<big>विधिलिङि—</big>
 
 
<big><u>जन → जन्‌ धातुः</u> (परस्मैपदी, जनने, छान्दसः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>जन्‌ → '''श्लौ''' → जन्‌-जन्‌ → '''हलादिः शेषः''' → जजन्‌ इति अङ्गम्‌</big>
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | जजन्‌ + ति → जजन्ति</big>
 
<big>२) अजादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | जजन्‌ + आनि → जजनानि</big>
 
<big>३) हलाद्यपित्सु = '''जनसनखनां सञ्झलोः''' इत्यनेन झलि नकारस्य आकारादेशः | जजन्‌ + तः → जजा + तः → जजातः</big>
 
<big>४) अजाद्यपित्सु = '''गमहनजनखनघसां लोपः क्ङित्यनङि''' इत्यनेन उपधायाः लोपः | जजन्‌ + अति → जज्‌न्‌ + अति → सन्धिकार्यम्‌ → जज्ञति</big>
 
 
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषमितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
653

edits