6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 478:
 
<big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषमितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
 
<big>'''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति अजादि-कित्ङित्‌-प्रत्यये परे, परन्तु अङ्‌-प्रत्ययः चेत् लोपः न भवति | गमश्च हनश्च जनश्च खनश्च घस्‌ च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम्‌ | क्‌ च ङ्‌ च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्‌, तस्मिन्‌ क्ङिति | न अङ्‌ अनङ्‌, तस्मिन्‌ अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्‌, अनङि सप्तम्यतम्‌ अनेकपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गमहनजनखनघसाम्‌ अङ्गानाम्‌ उपधायाः लोपः अनङि अचि क्ङिति''' |</big>
 
<big>विधिलिङि—</big>
 
<big>अस्मिन्‌ लकारे सर्वे प्रत्ययाः यकारादयः | यकारः झलि नास्ति अतः '''जनसनखनां सञ्झलोः''' इत्यनेन नकारस्य स्थाने आकारादेशो न भवति | परन्तु '''ये विभाषा''' इत्यनेन विकल्पेन आकारादेशो विहितः |</big>
 
<big>'''ये विभाषा''' (६.४.४३) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यस्मात्‌ '''जनसनखनाम्‌''' इत्यस्य अनुवृत्तिः | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा''' |</big>
 
<big>जजन्‌ + यात्‌ → '''ये विभाषा''' → जजन्‌ / जजा + यात्‌ → जजन्यात्‌ / जजायात्‌</big>
653

edits