6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 575:
 
<big>विधिलिङि—</big>
 
 
<u><big>निजाद्यन्तर्गणः</big></u>
 
 
<big>णिजिर् → निज्‌, विजिर्‌ → विज्‌, विष्‌ऌ → विष्‌ एते त्रयः धातवः निजादयः |</big>
 
 
<big><u>णिजिर् → निज्‌ धातुः</u> (उभयपदी, शौचपोषणयोः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
 
<big>निज्‌ → '''श्लौ''' → निज्‌-निज्‌→ '''हलादिः शेषः''' → निनिज्‌‌ इति अङ्गम्‌‌</big>
 
 
<big>अत्र किञ्चन विशिष्टं सूत्रम्‌ आयाति '''निजां त्रयाणां गुणः श्लौ''', येन अभ्यासे गुणो भवति | श्लु-निमित्तीकृत्य इदं कार्यं भवति, अतः सर्वेषु रूपेषु प्रसक्तिरस्ति; पित्त्वम्‌ अपित्त्वम्‌ इत्यनयोर्न कोऽपि सम्बन्धः |</big>
 
 
<big>निनिज्‌‌ → '''निजां त्रयाणां गुणः श्लौ''' इत्यनेन अभ्यासे गुणः → नेनिज्‌ इति नूतनाङ्गम्‌</big>
 
 
<big>'''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) = निजादीनां त्रयाणाम्‌ अभ्यासस्य गुणो भवति, श्लौ | निज्‌, विज्‌, विष्‌ इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ''' |</big>
653

edits