6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 599:
 
<big>'''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) = निजादीनां त्रयाणाम्‌ अभ्यासस्य गुणो भवति, श्लौ | निज्‌, विज्‌, विष्‌ इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ''' |</big>
 
<big>b. अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → सन्धिकार्यम्‌ → नेनेक्ति</big>
 
<big>२) अजादि पित्सु = '''नाभ्यस्तस्याचि पिति सार्वधातुके''' इत्यनेन उपधायां लघु-इकः गुणनिषेधः | नेनिज्‌ + आनि → नेनिजानि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + तः → सन्धिकार्यम्‌ → नेनिक्तः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | नेनिज्‌ + अति → नेनिजति‌</big>
 
<big>c. सन्धिकार्यम्‌—</big>
 
<big>नेनिज्‌ + ति → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + ति → '''चोः कुः''' → नेनेग्‌ + ति → '''खरि च''' → नेनेक्ति</big>
 
<big>नेनिज्‌ + सि → '''पुगन्तलघूपधस्य च''' → नेनेज्‌ + सि → '''चोः कुः''' → नेनेग्‌ + सि → '''खरि च''' → नेनेक्‌ + सि → '''आदेशप्रत्यययोः''' → नेनेक्षि</big>
 
<big>नेनिज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → नेनिज्‌ + धि → '''चोः कुः''' → नेनिग्‌ + धि → नेनिग्धि</big>
 
<big>अनेनिज्‌ + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अनेनेज्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अनेनेज्‌ → '''चोः कुः'''(८.४.५५) → अनेनेग्‌ → '''वाऽवसाने''' (८.४.५६) → विकल्पेन अनेनेक्‌</big>
653

edits