7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

resolved comments
(changed bold and underlined words)
(resolved comments)
Line 68:
 
 
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌-विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |
 
 
Line 80:
प्रेषणादौ इत्यादिशब्देन अध्येषणा-अनुमति-उपदेशादीनां ग्रहणम् | अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना, प्रेरणा, भवति इत्युक्तम्‌ |
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
 
 
अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
ज्वरितस्य कषायपाने हितौ अबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |
 
 
 
Line 480 ⟶ 478:
---------------------------------
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].
 
To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.
teachers
247

edits