7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

changed bold and underlined words
(added the pdf at the bottom of the page)
(changed bold and underlined words)
Line 1:
'''01 - प्रेरणार्थे णिच्‌'''
 
 
2020 वर्गः-
Line 23 ⟶ 24:
 
 
<u>प्रेरणार्थकणिचः व्यवस्था</u>
 
 
 
'''स्वतन्त्रः कर्ता''' (१.४.५४) = क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्‌ | कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति, तस्य कर्तृसंज्ञा भवति | कर्तृसंज्ञा-विधायकं सूत्रम्‌ इदम्‌‍ | स्वतन्त्रः प्रथमान्तं, कर्ता प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''कारके''' (१.४.२३) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''कारके स्वतन्त्रः कर्ता''' |
 
 
Line 35 ⟶ 36:
 
 
''''क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्‌'''<nowiki/>' | 'क्रियायाम्‌' इत्यनेन 'क्रियायाः जनकत्वे'; कारकत्वे इति फलितार्थः | 'स्वातन्त्र्येण' इत्यनेन मुख्यतः, प्रधानतः | कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा 'विवक्षितोऽर्थः' | वक्तुः इच्छा चेदेव कारकं भवति; तथा नास्ति चेत्‌, कारकं नास्ति | आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते, सः कर्तृसंज्ञको भवति |
 
 
 
'देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति' इति वाक्ये पञ्च कारकाणि सन्ति; सर्वाणि अपि पचनक्रियां प्रति जनकानि | किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः, ''विवक्षितः'' | तदर्थं स्वान्त्र्येण इत्युक्तम्‌ | स्वं तन्त्रं यस्य इति स्वतन्त्रः; नाम कुविन्दः | आशयः एवं— यः मुख्यः, प्रधानः | तर्हि यद्यपि उक्ते वाक्ये पञ्च कारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव मुख्यः | किमर्थमिति चेत्‌, पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य, स्वतन्त्रतया तानि उपयुज्य, पचनक्रियां जनयति |
 
 
Line 47 ⟶ 48:
 
 
अस्य सर्वस्य दर्शनेन एवं भाति यत्‌ कर्ता सचेतनः भवेत्‌ | किन्तु यथोक्तं, कारकं वक्तुः इच्छायाः अधीने भवति | तदर्थं प्रसिद्धवाक्यम्‌ अस्ति ''''विवक्षातः कारकाणि भवन्ति'''<nowiki/>' | अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता-प्रधानता विवक्षिता तदा 'देवदत्तः पचति' इत्यस्मिन्‌ देवदत्तस्य, यदा स्थाल्याः स्वतन्त्रता-प्रधानता विवक्षिता तदा 'स्थाली पचति' इत्यस्मिन्‌ स्थाल्याः, कर्तृसंज्ञा भवति | अनेन स्पष्टं भवति यत्‌ कर्तुः स्वतन्त्रता वक्तुः इच्छाम्‌ अवलम्ब्य भवति | तत्र कर्तुः चेतना अस्ति एव इति नास्ति; कर्ता प्रमुखो भवति क्रियायाः साधने इति पर्यवसितम्‌ |
 
 
Line 55 ⟶ 56:
 
 
'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात्‌ | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात्‌ '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तत्‌ प्रयोजकः हेतुः च कर्ता''' |
 
 
Line 67 ⟶ 68:
 
 
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌-विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ णिच्‌ इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |
 
 
Line 78 ⟶ 79:
 
प्रेषणादौ इत्यादिशब्देन अध्येषणा-अनुमति-उपदेशादीनां ग्रहणम् | अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना, प्रेरणा, भवति इत्युक्तम्‌ |
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति |
 
अनुमतिः— राजादेः सम्मतिः | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
 
ज्वरितस्य कषायपाने हितौ अबोधनेन प्रवर्तना— उपदेशः | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— अनुग्रहः | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |
ज्वरितस्य कषायपाने हितौ अबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |
 
 
Line 90 ⟶ 93:
 
 
'''सनाद्यन्ता धातवः''' (३.१.३२) = '''गुप्तिज्किद्भ्यः सन्‌''' (३.१.५) इत्यस्य '''सन्‌''' इत्यारभ्य '''कमेर्णिङ्‌''' (३.१.३०) इत्यस्य णिङ्‌ इत्यन्तं द्वादश प्रत्ययाः येषाम्‌ अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात्‌ | सन्‌ आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''सनाद्यन्ताः धातवः''' |
 
 
 
द्वादश प्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | एषु द्वादशसु प्रत्ययेषु अन्यतमः णिच्‌ एव | अतः णिच्‌-प्रत्ययस्य योजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः, ते सर्वे '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञकाः | एते आतिदेशिकधातवः | औपदेशिकधातवः उपद्विसहस्रं, ते '''भूवादयो धातवः''' (१.३.१) इति सूत्रेण धातुसंज्ञकाः भवन्ति |
 
 
 
<u>णिच्‌-प्रत्ययः त्रिप्रकारकः</u>
 
 
 
१. यः णिच्‌ प्रातिपदिकेभ्यः विधीयते = '''मुण्डमिश्रश्लदणलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच्''' (३.१.२१) इत्यनेन, '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच्‌ भिन्नार्थेषु भवति अतः अस्मिन्‌ पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |
 
२. यः णिच्‌ चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन |
 
३. यः णिच्‌ प्रेरणार्थे विधीयते = '''हेतुमति च''' (३.१.२६) इत्यनेन |
 
 
 
<u>प्रेरणार्थे णिचि तिङन्तनिष्पादनप्रक्रिया</u>
 
 
Line 130 ⟶ 133:
 
 
१. '''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |
 
 
Line 138 ⟶ 141:
 
 
२. '''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |
 
 
Line 146 ⟶ 149:
 
 
३. '''पुगन्तलघूपधस्य च''' (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात्‌ परिभाषा-सूत्रात्‌ '''इकः''' आयाति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
 
 
Line 154 ⟶ 157:
 
 
<u>चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्‌</u>
 
 
Line 162 ⟶ 165:
 
 
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |
 
 
 
णिच्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्‌, प्रेरणार्थे यदा द्वितीयः णिच्‌-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन्‌ धातौ णिच्‌ केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम्‌ |
 
 
 
चुर्‌ → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‌ + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‌ + इ → चोरि प्रेरणार्थे
 
 
 
<u>सामान्यधातूनां समग्रप्रक्रियाचिन्तनम्‌</u>
 
 
Line 186 ⟶ 189:
 
 
A. <u>अजन्तधातवः</u>
 
 
 
१. <u>आकारान्तधातवः</u>
 
 
Line 198 ⟶ 201:
 
 
'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्‌-आगमः भवति, णिच्‌-प्रत्यये परे | एषां धातूनां पुक्‌-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्‌), णि इत्युक्ते णिच्‌ इत्यतः णिच्‌-प्रत्यये परे इत्यर्थः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन धातोः परम्‌ आयाति अयं पुगागमः | पुक्‌ इत्यस्मिन क्‌, उ इत्यनयोः इत्‌-संज्ञा लोपश्च; प्‌ अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक्‌ प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ अङ्गानां पुक्‌ णौ''' |
 
 
Line 206 ⟶ 209:
 
 
दा + णिच्‌ → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि + शप्‌ + ति → दापयति
 
धा + णिच्‌ → धा + पुक्‌ + इ → धा + प्‌ + इ → धापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → धापि + शप्‌ + ति → धापयति
 
 
Line 216 ⟶ 219:
 
 
धेयं यत्‌ दापि, धापि इव पाठि, लेखि अपि यः कोऽपि णिजन्तः, '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञां प्राप्नोति | यत्र धातुः जातः, तत्र विवक्षायां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ लकाराः विधीयन्ते, तेषां स्थाने तिङ्‌-प्रत्ययाः, तदा '''कर्तरि शप्‌''' इत्यनेन शप्‌ विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नम्‌ | दापि, धापि इत्यादयः णिजन्तधातवः नूतनतया धातुसंज्ञां यदि न प्राप्स्यन्‌, तर्हि तिबादयः तिङ्‌-प्रत्ययाः विहिताः नाभविष्यन्‌ |
 
 
 
दापि इकारान्तधातुः अस्ति | शपः परत्वात्‌ दापि + अ | '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः दापे, '''एचोऽयवायावः''' इत्यनेन अय्‌ आदेशः दापय्‌ + अ → दापय इति अङ्गम्‌ |
 
 
 
एवमेव णिजन्तधातवः सर्वे इकारान्ताः— पाठि, लेखि, गमि, निन्दि, क्षालि— अतः सर्वत्र अयमेव चिन्तनक्रमः | अग्रे गत्वा अस्मिन्‌ करपत्रे, बोध्यं यत्‌ सर्वत्र धातोः व्युत्पत्त्यनन्तरं '''सार्वधातुकार्धधातुकयोः''', '''एचोऽयवायावः''' इत्याभ्याम्‌ अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम्‌ |
 
 
 
आ) एजन्तधातवः—सर्वे<u>एजन्तधातवः</u>—सर्वे आकारान्तधातवः भवन्ति
 
 
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि''' '''धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |
 
 
Line 254 ⟶ 257:
 
 
अतः णिच्‌-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम्‌ | आकारान्ताः इति कारणतः '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' इत्यनेन पुगागमः भवति इति सामान्यनियमः |
 
 
Line 262 ⟶ 265:
 
 
ग्लै + णिच्‌ → ग्ला + इ → ग्ला + पुक्‌ + इ → ग्ला + प्‌ + इ → ग्लापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → ग्लापि + शप्‌ + ति → ग्लापयति
 
 
Line 278 ⟶ 281:
 
 
'''शाच्छासाह्वाव्यावेपां''' '''युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम्‌ | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शाच्छासाह्वाव्यावेपां अङ्गानां युक् णौ''' |
 
 
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन एषाम्‌ एजन्तधातूनाम्‌ आत्त्वम्‌ | शो, छो, सो, ह्वे, व्ये, वे, पै |
 
 
Line 304 ⟶ 307:
 
 
२. <u>इकारान्तधातवः, ईकारान्तधातवः च</u>
 
 
 
'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य इकारस्य ईकारस्य च वृद्धिः | तदा '''एचोऽयवायावः''' इत्यनेन अय्‌, आय्‌ च आदेशः |
 
 
Line 316 ⟶ 319:
 
 
नी + णिच्‌ → नै + इ → नाय्‌ + इ → नायि → '''सनाद्यन्ता धातवः''' → नायि + शप्‌ + ति → नाययति
 
 
Line 324 ⟶ 327:
 
 
३. <u>उकारान्तधातवः, ऊकारान्तधातवः च</u>
 
 
 
'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य उकारस्य ऊकारस्य च वृद्धिः | तदा '''एचोऽयवायावः''' इत्यनेन अव्‌, आव्‌‌ च आदेशः |
 
 
Line 336 ⟶ 339:
 
 
भू + णिच्‌ → भौ + इ → भाव्‌ + इ → भावि → '''सनाद्यन्ता धातवः''' → भावि + शप्‌ + ति → भावयति
 
लू + णिच्‌ → लौ + इ → लाव्‌ + इ → लावि → '''सनाद्यन्ता धातवः''' → लावि + शप्‌ + ति → लावयति
 
पू + णिच्‌ → पौ + इ → पाव्‌ + इ → पावि → '''सनाद्यन्ता धातवः''' → पावि + शप्‌ + ति → पावयति
 
द्रु + णिच्‌ → द्रौ + इ → द्राव्‌ + इ → द्रावि → '''सनाद्यन्ता धातवः''' → द्रावि + शप्‌ + ति → द्रावयति
 
 
Line 350 ⟶ 353:
 
 
४. <u>ऋकारान्तधातवः, ॠकारान्तधातवः च</u>
 
 
 
'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः |
 
 
Line 362 ⟶ 365:
 
 
कृ + णिच्‌ → कार्‍ + इ → कारि → '''सनाद्यन्ता धातवः''' → कारि + शप्‌ + ति → कारयति
 
हृ + णिच्‌ → हार्‍ + इ → हारि → '''सनाद्यन्ता धातवः''' → हारि + शप्‌ + ति → हारयति
 
तॄ + णिच्‌ → तार्‍ + इ → तारि → '''सनाद्यन्ता धातवः''' → तारि + शप्‌ + ति → तारयति
 
 
Line 374 ⟶ 377:
 
 
B. <u>हलन्तधातवः</u>
 
 
 
१. <u>अदुपधधातवः</u>
 
 
 
'''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः |
 
 
Line 400 ⟶ 403:
 
 
२. <u>इदुपधधातवः</u>
 
 
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
 
 
Line 418 ⟶ 421:
 
 
३. <u>उदुपधधातवः</u>
 
 
 
'''पुगन्तलघूपधस्य''' '''''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
 
 
Line 436 ⟶ 439:
 
 
४. <u>ऋदुपधधातवः</u>
 
 
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
 
 
Line 454 ⟶ 457:
 
 
५. <u>शेषधातवः</u>
 
 
teachers
247

edits