7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 57:
<big><br /></big>
 
<big>'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात्‌ | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात्‌ '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तत्‌ प्रयोजकःतत्प्रयोजकः हेतुः च कर्ता''' |</big>
 
<big><br /></big>
Line 69:
<big><br /></big>
 
<big>'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌-विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोःधातुभ्यः णिच् प्रत्ययः परश्च''' |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits