page_and_link_managers, Administrators
5,251
edits
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |

(20 intermediate revisions by 5 users not shown) | |||
Line 1:
{{DISPLAYTITLE:02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि

|'''2020 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/204_preraNArthe-Nic---visheShAdhAtavaH---AkArAntAnAM-puk-yuk-juk-luk-mit_%2B_ikArAntAnAM-Attvam-nuk_2020-05-13.mp3 preraNArthe-Nic---visheShAdhAtavaH---AkArAntAnAM-puk-yuk-juk-luk-mit_+_ikArAntAnAM-Attvam-nuk_2020-05-06]

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/205_ArdhadhAtuka-samagra-cintanam_%2B_preraNArthe-Nic---visheShAdhAtavaH---ikArAntAH---%E0%A4%B2%E0%A5%80%2C%E0%A4%9A%E0%A4%BF%2C%E0%A4%B5%E0%A5%80_2020-05-13.mp3 ArdhadhAtuka-samagra-cintanam_+_preraNArthe-Nic---visheShAdhAtavaH---ikArAntAH---ली,चि,वी_2020-05-13]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/206_preraNArthe-Nic---visheShAdhAtavaH---ikArAnteShu-adhikacintanArtham--%E0%A4%85%E0%A4%A7%E0%A4%BF-%E0%A4%87%2C%20%E0%A4%B2%E0%A5%80%2C%20%E0%A4%9A%E0%A4%BF_2020-05-20.mp3 preraNArthe-Nic---visheShAdhAtavaH---ikArAnteShu-adhikacintanArtham--अधि-इ, ली, चि_2020-05-20]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/207_preraNArthe-Nic---visheShadhAtavaH---%E0%A4%B2%E0%A5%80-dhAtoH-vibhinna-artha-prasange_%2B_%E0%A4%9A%E0%A4%BF%2C%20%E0%A4%B5%E0%A4%BF_2020-05-27.mp3 preraNArthe-Nic---visheShadhAtavaH---ली-dhAtoH-vibhinna-artha-prasange_+_चि, वि_2020-05-27]

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/208_preraNArthe-Nic---visheShadhAtavaH---%E0%A4%AD%E0%A5%80%2C%20%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%2C%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%80%2C%20%E0%A4%B9%E0%A5%8D%E0%A4%B0%E0%A5%80%2C%20%E0%A4%B5%E0%A5%8D%E0%A4%B2%E0%A5%80%2C%20%E0%A4%B0%E0%A5%80%2C%E0%A4%87%E0%A4%A3%E0%A5%8D%E2%80%8C-%E0%A4%87%E0%A4%95%E0%A5%8D%E2%80%8C_2020-06-03.mp3 preraNArthe-Nic---visheShadhAtavaH---भी, स्मि, प्री, ह्री, व्ली, री,इण्-इक्_2020-06-03]

|६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/209_preraNArthe-Nic---visheSha-ajanta-ca-halanta-ca-dhAtavaH---%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%80%2C%20%E0%A4%87%E0%A4%A3%E0%A5%8D%E2%80%8C-%E0%A4%87%E0%A4%95%E0%A5%8D%E2%80%8C%2C%20%E0%A4%A7%E0%A5%82%E0%A4%9E%E0%A5%8D%E2%80%8C%2C%20%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%83%2C%20%E0%A4%A6%E0%A5%84%2C%20%E0%A4%A8%E0%A5%84%2C%20%E0%A4%9C%E0%A5%84%2C%20%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%2C%20%E0%A4%8B%2C%20%E0%A4%B8%E0%A5%8D%E0%A4%AB%E0%A4%BE%E0%A4%AF%E0%A5%8D%E2%80%8C%2C%20%E0%A4%B6%E0%A4%A6%E0%A5%8D%E2%80%8C_2020-06-10.mp3 preraNArthe-Nic---visheSha-ajanta-ca-halanta-ca-dhAtavaH---प्री, इण्-इक्, धूञ्, जागृ, दॄ, नॄ, जॄ, स्मृ, ऋ, स्फाय्, शद्_2020-06-10]

|'''2017 वर्गः'''

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/111_preraNArthe-Nic---visheShAH-ajantadhAtavaH_2017-04-09.mp3 preraNArthe-Nic---visheShAH-ajantadhAtavaH_2017-04-09]

|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/113_preraNArthe-Nic---AkArAntAnAM-puk-yuk-juk-luk-mit__ikArAntAnAM-Attvam-nuk_2017-04-30.mp3 preraNArthe-Nic---AkArAntAnAM-puk-yuk-juk-luk-mit_+_ikArAntAnAM-Attvam-nuk_2017-04-30]

|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/114_preraNArthe-Nic---ikArAntAnAM-Attvam-puk-nuk_2017-05-07.mp3 preraNArthe-Nic---ikArAntAnAM-Attvam-puk-nuk_2017-05-07]

|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/115_preraNArthe-Nic---iN-ik__ukArAntAnAM__RukArAntAnAm_2017-05-14.mp3 preraNArthe-Nic---iN-ik_+_ukArAntAnAM_+_RukArAntAnAm_2017-05-14]

गते करपत्रे सामान्यण्यन्तधातवः अवलोकिताः | अधुना विशेषधातवः परिशीलनीयाः | अस्मिन् करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते; अग्रिमे करपत्रे विशेषाः हलन्तधातवः दृश्यन्ताम् |

तर्हि अधुना क्रमेण अजन्तधातवः दृश्येरन्— आकारान्ताः, एजन्ताः, इ/ईकारान्ताः, उ/ऊकारान्ताः, ऋ/ॠकारान्ताः | एजन्तधातवः आकारान्तैः साकं क्रियन्तां यतोहि, यथा बुद्धं गते करपत्रे, तेषाम् आत्वं तु भवति एव | अकारान्तधातवः (इत्युक्ते अदन्ताः) हलन्तधातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः |

'''A. आकारान्तधातवः'''

१) एजन्तधातवः
एतावता ज्ञातं यत् सर्वे एजन्तधातवः णिच्-प्रकरणे आकारान्ताः भवन्ति '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण | एचः स्थाने आत्वम् उपदेशे अशिति इति | आकारान्ताः भूत्वा पुगागमः प्राप्यते '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन | एजन्तेषु केचन परिगणिताः सन्ति ये '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इति सूत्रेण पुगागमस्थाने युगागमं प्राप्नुवन्ति | सामान्यस्थितिः तथा; अत्र द्वौ धातू स्तः यौ अर्थम् अनुसृत्य भिन्नरूपमपि प्राप्नुतः—
अ) गतपाठे अवलोकितेषु एजन्तेषु एकः पै-धातुः आसीत् | तस्य गतिः प्रदर्शिता एवम्—
पै शोषणे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् → पै + णिच् → '''आदेच उपदेशेऽशिति''' (६.१.४५) → पा + इ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) → पा + युक् + इ → पायि इति णिजन्तधातुः → पाययति
पा पाने → पा + युक् + णिच् → पायि → पाययति
अधुना ततः अग्रे अदादिगणे एकः पा-धातुः रक्षणार्थे अपि भवति (लटि 'पाति') | रक्षणार्थे एकं वार्तिकं कार्यं करोति '''लुगागमस्तु तस्य वक्तव्यः''' इति | अनेन वार्तिकेन युकः स्थाने लुक् आयाति |
पा रक्षणे → '''लुगागमस्तु तस्य वक्तव्यः''' इति वार्तिकेन रक्षनार्थे लुक्-आगमः → पा + लुक् + णिच् → पालि → पालयति
'''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इति सूत्रेण पा रक्षणे वर्जयित्वा सर्वेषां पा-धातूनां ग्रहणं— नाम पै शोषणे, पा पाने च |

आ) एषु एजन्तेषु एकः वै शोषणे इति धातुः भ्वादिगणीयः, लटि वायति | शुष्कं करोति इत्यर्थः |

अयं वै-धातुः णिचि परे आत्त्वम् इति कृत्वा वा भवति, तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |
वै शोषणे → प्रेरणार्थे णिचि → वै + णिच् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन अशिति आत्त्वम् → वा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → वा + पुक् + इ → वापि इति णिजन्तधातुः → वापयति |
वै-धातुः 'कम्पयति' इत्यस्मिन् अर्थे पुक्-स्थाने जुक् आगमं प्राप्नोति, '''वो विधूनने जुक्''' (७.३.३८) इति सूत्रेण |
वै कम्पनार्थे → प्रेरणार्थे णिचि → वै + णिच् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन अशिति आत्त्वम् → वा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → कम्पनर्थे '''वो विधूनने जुक्''' (७.३.३८) इत्यनेन पुगागमं प्रबाध्य जुक्-आगमः → वा + जुक् + इ → वाजि इति णिजन्तधातुः → वाजयति
'''वो विधूनने जुक्''' (७.३.३८) = णिचि परे विधूनने, नाम कम्पनार्थे, वै-धातोः जुक्-आगमः | अशिति वै-धातोः आत्त्वं; वा इत्यस्य षष्ठ्यन्तं रूपं 'वः' | वः षठ्यन्तं, विधूनने सप्तम्यन्तं, जुक् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''वः अङ्गस्य जुक् णौ विधूनने''' |

२) ला-धातुः
अदादिगणे ला-धातुः, लट्-लकारे लाति इति रूपम् | अर्थः = लभते, स्वीकरोति इति |
'''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) = णिचि परे स्नेहविपातने, विकल्पेन ली-धातोः नुक्, ला-धातोः लुक् च | तदभावे पुक् | स्नेहः नाम तैलं, घृतं; विपातनं नाम to melt, dissolve | स्नेहविपातनार्थे णिचि, ली-धातोः नुगागमः, ला-धातोः लुगागमः च विकल्पेन भवति | लीश्च लाश्च लीलौ, द्वन्द्वः; तयोर्लीलोः | नुक् च लुक् च नुग्लुकौ, द्वन्द्वः | स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन् स्नेहविपातने, षष्ठीतत्पुरुषः | लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं, स्नेहविपातने सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्''' |

धेयं यत् 'विकल्पेन' इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते— विभाषा, वा, बहुलम्, अन्यतरस्याम् इति | 'अन्यतर' इत्युक्ते 'any, either' |
ला + णिच् → ला + लुक् + णिच् → ला + ल् + इ → लालि इति णिजन्तधातुः → लालयति
लुगभावे '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः—

ला + णिच् → ला + पुक् + णिच् → लापि इति णिजन्तधातुः → लापयति

अत्र प्रश्नः उदेति यत् अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम् ?
उत्तरत्वेन धातूनाम् अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन् दत्तमस्ति यत् '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत् ला-अङ्गम् |

ली-धातोः नुक् अग्रे ईकारान्तेषु वक्ष्यमाणम् |
३) अर्थविशेषे मित् आकारान्तधातवः—ज्ञा, ग्ला, स्ना, श्रा
'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातूनां पुगागमः |

'''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम् उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |

'''मितां ह्रस्वः''' (६.४.९२) = मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे | मित् कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम् | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात् '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ''' |
भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; '''घटादयो मितः''' इति गणसूत्रेण एते धातवः मित् सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति— ज्ञप, यम, चह, रह, बल, चिञ् | किन्तु ज्ञपादीनां मित्त्वं भवति केवलं स्वार्थे; प्रेरणार्थे न |

ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति
यम परिवेषणे = नियमयति, नियन्त्रणं करोति
चह परिकल्कने = वञ्चयति
रह त्यागे = त्यजति, जहाति
बल प्राणने = जीवति; पोषणं करोति
चिञ् चयने = सङ्ग्रहणं करोति

इमानि रूपाणि केवलं स्वार्थे; प्रेरणार्थे ह्रस्वत्त्वं न जायते |
ज्ञप → ज्ञप् + इ → '''अत उपधायाः''' (७.२.११६) → ज्ञापि → '''मितां ह्रस्वः''' (६.४.९२) → ज्ञपि इति णिजन्तधातुः → ज्ञपय → ज्ञपयति/ते
यम → यम् + इ → यामि → यमि इति णिजन्तधातुः → यमय → यमयति/ते
चह → चह् + इ → चाहि → चहि → चहय → चहयति/ते
रह → रह् + इ → राहि → रहि → रहय → रहयति/ते
बल → बल् + इ → बालि → बलि → बलय → बलयति/ते
चिञ् → चि + इ → '''अचो ञ्णिति''' → चै + इ → चायि → चयि → चयय → चययति/ते

तदा केचन धातवः अर्थविशेषे मित्-धातवः भवन्ति | यथा—
स्मृ-धातुः यदा आध्यानार्थे तदा मित्, 'स्मरयति' | अन्यत्र 'स्मारयति' |
दॄ-धातुः भयार्थे दरयति | अन्यत्र यथा विदारणार्थे दारयति |
एवं रीत्या चत्वारः आकारन्ताः अर्थविशेषे मित्-धातवः सन्ति— श्रा, ज्ञा, ग्ला, स्ना |

श्रा पाके, पाकार्थे अपि भवति, स्वेदनार्थे अपि भवति | पाकार्थे मित्, स्वेदनार्थे मित् न | अतः श्रपयति इत्युक्ते विक्लेदयति, मृदुं कारयति | श्रापयति इत्युक्ते स्वेदयति, स्वेदनं कारयति |

श्रा + णिच् → श्रा + पुक् + इ → श्रापि → '''मितां ह्रस्वः''' → श्रपि इति णिजन्तधातुः → श्रपयति
त्रयः ज्ञा-धातवः सन्ति--
१. भ्वादिगणे मारणतोषणनिशामनेषु
२. क्र्यादिगणे अवबोधने
३. चुरादिगणे नियोगे
'''ज्ञा मारणतोषणनिशामनेषु''' | प्रेरणार्थे क्र्यादिगणीय-ज्ञा-धातुः च चुरादिगणीय-ज्ञा-धातुः विकल्पेन मारणतोषणनिशामनम् इति एषु त्रिषु अर्थेषु भवतः, एषु च अर्थेषु '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ह्रस्वत्वम् | मारणम् इत्यनेन हिंसा, तोषणम् इत्यनेन सन्तुष्टिः, निशामनम् इत्यनेन चाक्षुषज्ञानम् | एषु अर्थेषु '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ह्रस्वत्वम्; अन्यत्र दीर्घत्वम् | दुर्जनं संज्ञपयति इत्यनेन दुर्जनं मारयति | हरिं ज्ञपयति इत्यनेन हरिं संतोषयति | रूपं ज्ञपयति इत्यनेन दर्शयति, बोधयति | किन्तु सूचनां ददाति इति चेत् ज्ञापयति |

ज्ञा + णिच् → ज्ञा + पुक् + इ → ज्ञापि → '''मितां ह्रस्वः''' → ज्ञपि → ज्ञपयति

तथैव—

ग्ला + णिच् → ग्ला + पुक् + इ → ग्लापि → '''मितां ह्रस्वः''' → ग्लपि इति णिजन्तधातुः → ग्लपयति
स्ना + णिच् → स्ना + पुक् + इ → स्नापि → '''मितां ह्रस्वः''' → स्नपि → स्नपयति

'''ग्ला-स्ना-वनु-वमां च''' इति गणसूत्रेण उपसर्गराहित्ये विकल्पेन मितः भवन्ति | अतः एकवारं '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ह्रस्वत्वम्; एकवारं ह्रस्वत्वं न भवति इति कृत्वा उपसर्गराहित्ये एकैकस्य धातोः रूपद्वयम्-- ग्लपयति / ग्लापयति, स्नपयति / स्नापयति, वनयति / वानयति, वमयति / वामयति | सोपसर्गः इति चेत्, नित्यं मित्त्वम् इति कृत्वा '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन नित्यं ह्रस्वत्वम् |

'''B. इकारान्तधातवः'''

सामान्यव्यवस्था '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय् आदेशः | नी → नाययति | यावन्तः इकारान्तधातवः ईकारान्तधातवः च अपवादभूताः सन्ति, तेषां वर्णनम् अधः भवन्ति | कोऽपि धातुः अधः सूचितः नास्ति चेत्, तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम् |

१) क्री, जि, अधि + इ इति धातवः

क्री = क्र्यादिगणे | लटि क्रीणाति |
जि = भ्वादिगणे | लटि जयति |
अधि + इ = इङ् अध्ययने नित्यम् अधिपूर्वः | अदादिगणे | लटि अधीते |

'''क्रीङ्जीनां णौ''' (६.१.४८) = णिचि परे एषां धातूनाम् एचः स्थाने आ-आदेशो भवति | क्रीश्च इङ् च जिश्च तेषामितरेतरद्वन्द्वः क्रीङ्जिस्तेषां क्रीङ्जीनाम् | क्रीङ्जीनां षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् आत्, एचः इत्यनयोः अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्— '''क्रीङ्जीनां एचः आत् णौ''' |

क्री + णिच् → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → क्रै + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → क्रा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' इत्यनेन पुक्-आगमः → क्रा + पुक् + इ → क्रापि इति णिजन्तधातुः → क्रापयति
जि + णिच् → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → जै + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → जा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्-आगमः → जा + पुक् + इ → जापि इति णिजन्तधातुः → जापयति
इ + णिच् → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → ऐ + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → आ + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्-आगमः → आ + पुक् + इ → आपि इति णिजन्तधातुः → आपि + तिप् → आपि + शप् + तिप् → आपयति → अधि* + आपयति → अध्यापयति
'''*उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यनेन उपर्गसंज्ञा; '''ते प्राग्धातोः''' (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते |

अत्र एकः प्रश्नः उदेति— ण्यन्तप्रकरणे इकारान्तानाम् ईकारान्तानाम् णिचि परे '''अचो ञ्णिति''' इत्यनेन वृद्ध्यनन्तरम् '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण प्रभावः किमर्थं न स्यात् | यदा इकारान्त/ईकारान्तधातुः एजन्तधातुः जातः, तदा किमर्थम् आदेच उपदेशेऽशिति इत्यनेन एव ऐकारस्य आकारादेशः न स्यात् ? किमर्थम् अत्र नूतनसूत्रस्य ('''क्रीङ्जीनां णौ''' इत्यस्य) आवश्यकता अस्ति ? यथा क्रै + इ इत्यस्यां दशायाम् '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन एव क्रा + इ भवतु | अत्र एचः आत् जातम्, अपि च अशित् णिच्-प्रत्ययः परोऽस्ति | परन्तु, एका समस्या अस्ति— क्रै उपदेशः नास्ति, इत्युक्ते मूलधातुरूपं नास्ति | सूत्रे 'उपदेशे' इति दत्तम् अस्ति, अतः यत्र मूले एजन्तधातुः अस्ति, तत्रैव सूत्रस्य प्रसक्तिः, नान्यत्र | अतः '''क्रीङ्जीनां णौ''' (६.१.४८) इत्यस्य आवश्यकता, अपि च अधः यावन्ति तुल्यसूत्राणि, तेषामपि |

अत्र '''क्रीङ्जीनां णौ''' (६.१.४८) इत्यादिनां सूत्राणां सङ्ख्याम् अवलोकताम् | '''आदेच''' '''उपदेशेऽशिति''' (६.१.४५) इत्यस्य अनन्तरम् अनेकानि सूत्राणि सन्ति यैः, येषाम् उपदेशावस्थायाम् एजन्तत्वं नास्ति, तेषाम् अपि आत्वं विधीयते |

२) ली-धातुः

ली = भ्वादिगणे लयति (to melt), दिवादिगणे लीयते (to be dissolved), क्र्यादिगणे लिनाति (to melt), चुरादिगणे लाययति (द्रवीकरणे) | पाणिनेः धातुपाठे त्रयः ली-धातवः सन्ति - दिवादिगणे, क्र्यादिगणे, चुरादिगणे च | यः धातुः चुरादिगणे अस्ति तस्य विकल्पेन णिच् विधीयते '''आधृषाद् वा''' इत्यनेन गणसूत्रेण | यस्मिन् पक्षे णिच् न विधीयते तस्मिन् पक्षे रूपं भ्वादिगणवत् भवति अतः मातृभिः उच्यते यत् अयं धातुः भ्वादिगणे भवेत् | (पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः; एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः |)

'''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) = णिचि परे स्नेहविपातने, विकल्पेन ली-धातोः नुक्, ला-धातोः लुक् च | तदभावे पुक् | स्नेहः नाम तैलं, घृतं; विपातनं नाम to melt, dissolve | स्नेहविपातनार्थे णिचि, ली-धातोः नुगागमः, ला-धातोः लुगागमः च विकल्पेन भवति | लीश्च लाश्च लीलौ, द्वन्द्वः; तयोर्लीलोः | नुक् च लुक् च नुग्लुकौ, द्वन्द्वः | स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन् स्नेहविपातने, षष्ठीतत्पुरुषः | लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं, स्नेहविपातने सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्''' |

नुक्-आगमे—
ली + णिच् → ली + नुक् + इ → लीनि → लीनयति

(अत्र किमर्थं न '''अचो ञ्णिति''' (७.२.११५) इति प्रथमं स्यात् ?)

नुगभावे—

'''विभाषा लीयतेः''' (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | अत्र एचः स्थानी नास्ति 'एचः विषये' इति उक्तत्वात् | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने (ईकारस्य स्थाने) आकारादेशो भवति | 'लीयतेः'* इति यक्-प्रत्यययुक्तं रूपं (न तु श्यन्-प्रत्यययुक्तम्) इत्यस्मात् क्र्यादिगणीयः अपि च दिवादिगणीयः, द्वयोरपि धात्वोः ग्रहणम् | पूर्वतने सूत्रे—'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इति सूत्रे—'एचः' इत्यस्य 'एचः विषये' इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रेऽपि तथा | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् आत्, एचः, उपदेशे इत्येतेषाम् अनुवृत्तिः | '''मिनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभाषा लीयतेः आत् एचः ल्यपि''' |

<nowiki>*</nowiki>'लीयतेः' '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्''' (३.३.१०८, वार्तिकम्) इति वार्तिकेन श्तिप् धातुनिर्देशे → ली + श्तिप् ( कृत्-प्रत्ययः) → ली + ति → श्तिप् सार्वधातुकप्रत्ययः अतः '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन कर्मणि यक् → ली + यक् + ति → लीयति इति प्रातिपदिकम् → षष्ठ्यन्तं सुबन्तरूपं भवति लीयतेः | धेयं यत् श्तिप् कृत्-प्रत्ययः | अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि तु कृदन्तं प्रातिपदिकम् | अत्र च प्रश्नः उदेति यत् किमर्थं न इक्-प्रत्ययः द्वारा 'लेः' इति न स्यात् ? 'लीयतेः' इत्यस्य अपेक्षया 'लेः' इति रूपं लघु अभविष्यत् | उत्तरमसित यत् यङ्लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति |

ईकारस्य वृद्धिः न जायते अपि तु आ-आदेशो भवति | तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |

ली + णिच् → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ई-स्थाने आ-आदेशः → ला + इ → ला + पुक् + इ → ला + प् + इ → लापि इति णिजन्तधातुः → लापयति

नुगभावे, अपि च आ-आदेशाभावे, '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, तदा '''एचोऽयवायावः''' इत्यनेन आय्-आदेशः—

ली + णिच् → लै + इ → लाय् + इ → लायि इति णिजन्तधातुः → लाययति

अत्र च प्रश्नः—
स्नेहविपातने, विकल्पेन ली-धातोः नुक् | '''तदभावे पुक्''' इति उक्तम् | किन्तु अत्र प्रश्नः उदेति यत् पुक्-विधानं केन सूत्रेण | ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु | लीनयति, लाययति इति | '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन आत्वं भवति श्लेषणार्थे एव; एवं चेत् स्नेहविपातने लापयति न भवति |
अपि च दत्तमस्ति यत् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इत्यनेन नुक्; ''नुगभावे'' '''विभाषा''' लीयतेः (६.१.५१) इत्यनेन लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | किन्तु '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन अनयोः धात्वोः एव कार्यं भवेत् खलु | तर्हि स्नेहविपातने इत्यर्थे "नुगभावे—'''विभाषा लीयतेः''' (६.१.५१) " इति तु न भवति |

कौमुद्यां दीयते –
श्लेषणे इत्यस्मिन् अर्थे यः ली-धातुः, तस्य स्नेहविपातनार्थः कथं भवति ?
उत्तरम् अस्ति – धातूनामनेकार्थाः इति सिद्धान्तः | अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति | अतः विचित्रार्थाः उत्पद्यन्ते | उपसर्गस्य गतिः त्रिविधा भवति, अत्र एकः प्रसिद्धः श्लोकः वर्तते –
'''धात्वर्थं बाधते कश्चित्, कश्चित् तम् अनुवर्तते, तमेव विशिनष्टि अन्यः उपसर्गगतिः त्रिधा |'''

"वि" उपसर्गपूर्वकः ली श्लेषणे इति धातुतः स्नेहविपातनार्थे विलीनयति, विलाययति, विलालयति, विलापयति इति रूपाणि भवन्ति |
स्नेहविपातनार्थे ली-अङ्गात् विकल्पेन नुगागमः भवति, ला-अङ्गात् विकल्पेन लुगागमः भवति '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रेण |
वि + ली श्लेषणे इति धातुतः '''हेतुमति च''' (३.१.२६) इत्यनेन णिच्-प्रत्ययः विधीयते → वि + ली + इ | अधुना '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वम् |

'''आत्वाभावपक्षे'''
वि + ली + इ → '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इत्यनेन विकल्पेन नुगागमः → वि + ली + न् + इ → विलीनि इति नूतनधातुः → विलीनयति इति रूपम् |

आत्वाभावे अपि च नुगभावे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, तदा '''एचोऽयवायावः''' इत्यनेन आय्-आदेशः—
वि + ली + णिच् → वि + लै + इ → वि + लाय् + इ → विलायि इति णिजन्तधातुः → विलाययति इति |

'''आत्वपक्षे'''
वि + ली + इ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन ई-स्थाने आ-आदेशः |
वि + ला + इ → '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इत्यनेन लुगागमः भवति | अत्र लुगागमः कथं भवति ?
आत्वपक्षे यद्यपि ली-धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इत्येव आसीत् इति कृत्वा '''एकदेशविकृतस्यानन्यत्वात्''' इति परिभाषया नुगागमः एव स्यात् इति चिन्तयामः यतोहि प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् इति सामान्यनियमः | यत्र प्रकृतौ कार्यं विधीयते, '''एकदेशविकृतस्यानन्यत्वात्''' इत्यनया परिभाषया विकृतौ अपि तत्कार्यं विधीयते | '''एकदेशविकृतस्यानन्यत्वात्''' इति परिभाषायाः अर्थः एवम् अस्ति यत् एकस्मिन् देशे विकारः भवति चेदपि मूलं तदानीमपि तस्य बीजे भवति | छिन्नपुच्छश्वा श्वा एव | कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव |
परन्तु व्याख्यानेषु उच्यते यत् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे ‘ई-युक्त-ली’ इत्यस्य ईकारप्रश्लेषात् आत्वपक्षे नुक् न स्यात् | अर्थात् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे लीलोः इत्यस्ति; तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति | नाम ईकारयुक्तस्य ली-धातोः एव नुगागमः भवति; ली-धातुः यदा ला इति भवति '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन सूत्रेण तदा '''एकदेशविकृतस्यानन्यत्वात्''' इत्यस्य कार्यं न भवति, अतः आत्वभूतस्य ला-अङ्गस्य नुगागमः न भवति अपि तु लुगागमः भवति विकल्पेन '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रद्वारा |
वि + ला + लुक् +इ = विलालि इति नूतनधातुः | विलालयति इति रूपम् |
आत्वपक्षे अपि च लुगभावे '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः —
वि + ली + णिच् → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ई-स्थाने आ-आदेशः → वि + ला + इ → वि + ला + पुक् + इ → वि + ला + प् + इ → विलापि इति णिजन्तधातुः → विलापयति |
आहत्य एतानि रूपाणि सम्भवन्ति स्नेहविपातनार्थे— आत्वाभावे, विकल्पेन नुगागमः – विलीनयति, विलाययति |
आत्वपक्षे, विकल्पेन लुगागमः – विलालयति, विलापयति |

३) चि-धातुः

चि चयने स्वादिगणे | लटि चिनोति/चिनुते |

'''चिस्फुरोर्णौ''' (६.१.५४) = विकल्पेन चि, स्फुर् इति धात्वोः एचः स्थाने आ-आदेशो भवति णौ | णौ इति अनुबन्धरहितत्वेन णिचि णिङि च भवति | चिश्च स्फुर् च तयोरितरेतरद्वन्द्वः चिस्फुरौ, तयोः चिस्फुरोः | चिस्फुरोः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्, एचः''' इत्यनयोः अनुवृत्तिः | '''विभाषा लीयतेः''' (६.१.५१) इत्यस्मात् '''विभाषा''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''विभाषा चिस्फुरोः एचः आत् णौ''' |

आ-आदेशे—
चि + णिच् → '''अचो ञ्णिति''' (७.२.११५) → चै + इ → '''चिस्फुरोर्णौ''' (६.१.५४) इत्यनेन ऐ-स्थाने आ → चा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः → चाप् + इ → चापि इति णिजन्तधातुः → चापयति
आ-आदेशाभावे—
चि + णिच् → '''अचो ञ्णिति''' (७.२.११५) → चै + इ → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय्-आदेशः → चाय् + इ → चायि इति णिजन्तधातुः → चाययति

चि चुरादिगणे '''नान्ये मितोऽहेतौ''' इति गणसूत्रेण मित् अहेतौ, अतः '''मितां ह्रस्वः''' इत्यनेन उपधायां स्वरः ह्रस्वः भवति स्वार्थे एव | गणसूत्रम् - '''नान्ये मितोऽहेतौ''' इत्यनेन अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः | अत्र कथनस्य शैली अवगन्तव्या, नो चेत् अर्थस्स्पष्टो न स्यात् | पाणिनेः धातुपाठे, चुरादिगणस्य स्थले ज्ञपादयः इति अन्तर्गणः दीयते | तत्र षट् धातवः— ज्ञप, यम, चह, रह, बल, चिञ् | अस्मिन्नेव प्रसङ्गे '''नान्ये मितोऽहेतौ''' इति गणसूत्रं वर्तते | सूत्रस्य अर्थः एवं यत् "एतान् षट् धातून् अतिरिच्य अन्ये चुरादिगणीयधातवः अहेतौ मितः न सन्ति" | अनेन ज्ञायते यत् एते षट् धातवः अहेतौ मितः सन्ति, अपि च हेतौ मितः न सन्ति | तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात् नोक्तम् ? किमर्थं ये तथा न सन्ति तदेव दीयते, यस्य द्वारा बोध्यं यत् एते षट् तथा सन्ति ? अनेन सूत्रस्य लघुत्वम् | '<nowiki/>'''नान्ये'''<nowiki/>' इत्यस्य स्थाने ''''ज्ञपादयः'''<nowiki/>' इति स्थाप्यते चेत् सूत्रम् इतोऽपि दीर्घम् | अपि च यतोहि सूत्रं दत्तमस्ति ज्ञपादयः इति अन्तर्गणस्थले, तदर्थं 'ज्ञपादयः' इति शब्दस्य आवश्यकता नास्ति |

आ-आदेशे—
चि → '''सत्यापाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चि + णिच् → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → चि +इ → '''हेतुमति च''' (३.१.२६) → चि +इ +णिच् → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा* → '''णेरनिटि''' (६.४.५१) इत्यनेन '''णेः लोपः अनिटि''' '''आर्धधातुके''' → चि +इ → चि +इ → '''अचो ञ्णिति''' (७.२.११५) → चै + इ → '''चिस्फुरोर्णौ''' (६.१.५४) इत्यनेन आ-आदेशः → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः → चापि → '''नान्ये मितोऽहेतौ''' इति गणसूत्रेण '''मितां ह्रस्वः''' न भवति हेतौ → चापि इति णिजन्तधातुः → चापयति

धेयं यत् धातु-संज्ञा सर्वप्रथमं भवति सदा; यावत् धातु-संज्ञा न स्यात्, अन्यत् किमपि कार्यं न भवेत् | तदर्थं चुरादिगणे प्रेरणार्थे णिचि सर्वप्रथमं द्विवारं णिच् विधीयेत | यतोहि एवम् अस्ति, तदर्थं यदा अन्ते '''मितां ह्रस्वः''' इत्यनेन ह्रस्वत्वं स्यात्, तस्य तदानीं प्रसक्तिरेव नास्ति, '''नान्ये मितोऽहेतौ''' इति गणसूत्रात् |

<nowiki>*</nowiki>अत्र प्रश्नः उदेति यत् चि +इ +णिच् इति स्थितौ, प्रथमं '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा, अथवा '''णेरनिटि''' (६.४.५१) इत्यनेन '''णेः लोपः अनिटि आर्धधातुके'''? अत्र बाध्यबाधकभावो नास्ति; द्वयमपि भविष्यति एव | तर्हि प्रथमं किं स्यात् ? यद्यपि तादृशधातुः यस्मिन् णिच्-द्वयं स्यात् इति विचित्रं प्रतीयेत, किन्तु वस्तुतस्तु '''सनाद्यन्ता धातवः''' (३.१.३२) इति अन्तरङ्गमस्ति; तस्य बहितः किमपि निमित्तं नास्ति | अतः धातुसंज्ञा प्रथमा भवेत् | '''अनन्तरं णेरनिटि''' (६.४.५१), '''अचो ञ्णिति''' (७.२.११५) इत्यनयोर्मध्ये प्रथमं किं स्यात् ? यद्यपि '''अचो ञ्णिति''' (७.२.११५) परसूत्रं, तथापि '''णेरनिटि''' (६.४.५१) नित्यशास्त्रम् अतः तदेव प्रथमं भवति; अनन्तरम् '''अचो ञ्णिति''' (७.२.११५) |

आ-आदेशाभावे एवेमेव क्रमः—
चि + णिच्ं → चि +इ +णिच् → '''णेरनिटि''' (६.४.५१) → चि +इ → अचो ञ्णिति → चै + इ → '''एचोऽयवायावः''' (६.१.७७) → चाय् + इ → चायि → '''नान्ये मितोऽहेतौ''' इति गणसूत्रेण '''मितां ह्रस्वः''' न भवति हेतौ → चायि इति णिजन्तधातुः → चाययति

४) वी-धातुः

वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, अदादिगणे | लट्-लकारे वेति | अर्थः = गच्छति, जन्यते च; णिचि अनेके अर्थाः; तेषु एकः अर्थः = प्रजनयति

'''प्रजने वीयतेः''' (६.१.५५) इत्यनेन प्रजनार्थे आ-आदेशः विकल्पेन भवति णिच्-प्रत्यये परे | तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |

'''प्रजने वीयतेः''' (६.१.५५) = प्रजनार्थे, विकल्पेन वी-धातोः एचः स्थाने आकारादेशो भवति णौ परे | प्रजने सप्तम्यम्तं, वीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्, एच्''' इत्यनयोः अनुवृत्तिः | '''चिस्फुरोर्णौ''' (६.१.५४) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः; '''विभाषा लीयतेः''' (६.१.५१) इत्यस्मात् '''विभाषा''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''प्रजने विभाषा वीयतेः एचः आत् णौ''' |

'वीयतेः' '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्''' (३.३.१०८, वार्तिकम्) इति वार्तिकेन श्तिप् धातुनिर्देशे → वी + श्तिप् ( कृत्-प्रत्ययः) → वी + ति → श्तिप् सार्वधातुकप्रत्ययः अतः '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन कर्मणि यक् → वी + यक् + ति → वीयति इति प्रातिपदिकम् → षष्ठ्यन्तं सुबन्तरूपं भवति वीयतेः | धेयं यत् श्तिप् कृत्-प्रत्ययः | अतः वीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि तु कृदन्तं प्रातिपदिकम् |

यद्यपि वी-धातुः अपि, अन्ये विशेषाः इकारान्ताः ईकारान्ताः धातवः इव एजन्तः नास्ति, तथापि प्रक्रियायां वृद्ध्यादेशेन एच् आयाति | णिचि परे '''अचो ञ्णिति''' इत्यनेन वृद्धिः | यथा—

वी + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → वै + इ → ईकारान्तः वी-धातुः एजन्तः जातः → '''प्रजने वीयतेः''' (६.१.५५) इत्यनेन प्रजनार्थे आकारादेशः → वा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → वा + पुक् + इ → वापि इति णिजन्तधातुः → वापयति

प्रजनार्थे आत्त्वाभावे—

वी + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → वै + इ → '''एचोऽयवायावः''' (६.१.७७) → वाय् + इ → वायि → वाययति

प्रजनार्थे नास्ति चेत्—
वी + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → वै + इ → '''एचोऽयवायावः''' (६.१.७७) → वाय् + इ → वायि → वाययति

५) भी-धातुः

भी भये जुहोत्यादिगणे | लटि बिभेति |

'''बिभेतेर्हेतुभये''' (६.१.५६) = बिभेतेरेचः णौ आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् | प्रयोजकात् साक्षात् भीतिः अस्ति चेत्, भी-धातोः अन्त्यस्य एचः स्थाने आ-आदेशो विकल्पेन भवति णौ परे | हेतोर्भयं, हेतुभयं, तस्मिन् हेतुभये, पञ्चमीतत्पुरुषः | बिभेतेः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तम्, द्विपदमिदं सूत्रेम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्, एच्''' इत्यनयोः अनुवृत्तिः | '''चिस्फुरोर्णौ''' (६.१.५४) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः; '''विभाषा लीयतेः''' (६.१.५१) इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''विभाषा हेतुभये बिभेतेः एचः आत् णौ''' |

'''भीस्म्योर्हेतुभये''' (१.३.६८) = प्रयोजकात् साक्षात् भीतिः चेत्, भी-धातुः स्मि-धातुः च आत्मनेपदिनौ भवतः | भीश्च स्मिश्च भीस्मी, तयोर्भीस्म्योः | हेतोर्भयं हेतुभयं, तस्मिन् हेतुभये, पञ्चमीतत्पुरुषः | भीस्म्योः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तम् | '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यस्मात् '''आत्मनेपदम्''' इत्यस्य अनुवृत्तिः | '''णेरणौ यत्कर्म णौ चेत् स कर्तानाधाने''' (१.३.६७) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''हेतुभये णेः भीस्म्योः आत्मनेपदम्''' |

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) = आत्त्वं भवति चेत्, पुगागमः अपि विधीयते |

भी + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → भै + इ → '''बिभेतेर्हेतुभये''' (६.१.५६) इत्यनेन ऐकारस्य आत्त्वम् → भा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → भा + पुक् + इ → भापि इति णिजन्तधातुः → '''भीस्म्योर्हेतुभये''' (१.३.६८) इत्यनेन प्रयोजकात् साक्षात् भीतिः चेत् आत्मनेपदत्वम् → भापि + शप् + ते → भापयते

'''भियो हेतुभये षुक्''' (७.३.४०) = प्रयोजकात् साक्षात् भीतिः अस्ति चेत्, भी-धातोः अन्त्यस्य ईकारस्य स्थाने, आ-आदेशाभावे षुक्-आगमो भवति | इदं सूत्रं '''अचो ञ्णिति''' (७.२.११५) इत्यस्य बाधकसूत्रम् | षुकि ककार-उकारयोः इत्-संज्ञा लोपश्च, षकारः अवशिष्यते | हेतोर्भयं हेतुभयं, तस्मिन् हेतुभये पञ्चमीतत्पुरुषः | भी (भी धातुः) इति शब्दस्य षष्ठ्यन्तं रूपं भियः | भियः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तं, षुक् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''भियो हेतुभये षुक् णौ''' |

भी + णिच् → भी + षुक् + इ → भी + ष् + इ → भीषि इति णिजन्तधातुः → भीषयते

अत्र प्रश्नः उदेति, '''भियो हेतुभये षुक्''' (७.३.४०) इति '''अचो ञ्णिति''' (७.२.११५) इत्यस्य अपवादभूतसूत्रं चेत्, कथं वा भी + णिच् इति स्थितौ '''अचो ञ्णिति''' (७.२.११५) इति कदाचिदपि प्रवर्तेत ? उत्तरमेव यत् प्रयोजकाद्भयम् इति स्थितौ सदा '''भियो हेतुभये षुक्''' (७.३.४०) इत्येव भवति चेत्, '''बिभेतेर्हेतुभये''' (६.१.५६) इति सूत्रं निरवकाशं भविष्यति | '''बिभेतेर्हेतुभये''' (६.१.५६) इति विकल्पेन प्रवर्तते अतः प्रयोजकाद्भये सति एकवारम् '''अचो ञ्णिति''' (७.२.११५) + '''बिभेतेर्हेतुभये''' (६.१.५६) इति भवति, एकवारं '''भियो हेतुभये षुक्''' (७.३.४०) |

प्रयोजकात् साक्षात् भीतिः नास्ति चेत्, आ-आदेशो न भवति, न वा पुगागमः, न वा षुगागमः | तस्यां स्थितौ—

भी + णिच् → अचो ञ्णिति → भै + इ → '''एचोऽयवायावः''' (६.१.७७) → भाय् + इ → भायि → भाययति

'छुरिकया बालकं भाययति' इत्यस्मिन् प्रयोजकात् साक्षात् भीतिः नास्ति अपि तु छुरिकायाः सः भीतः |

६) स्मि-धातुः

ष्मिङ् ईषद्धसने (ईषत् हसने) भ्वादिगणे | लटि स्मयते = to smile; प्रेरणार्थे स्माययति = to cause to smile |
परन्तु विस्मयः = आश्चर्यं, विस्मितिः, चमत्कारः |

'''नित्यं स्मयतेः''' (६.१.५७) = यदा प्रयोजकः विस्मयस्य साक्षात् कारणं, तदा नित्यम् एचः आकारादेशो भवति | नित्यत्त्वात् अत्र 'विभाषा' इत्यस्य अनुवृत्तिक्रमः समाप्यते | नित्यं प्रथमान्तं, स्मयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्, एच्''' इत्यनयोः अनुवृत्तिः; '''चिस्फुरोर्णौ''' (६.१.५४) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः; '''बिभेतेर्हेतुभये''' (६.१.५६) इत्यस्मात् '''र्हेतुभये''' इत्यस्य अनुवृत्तिः | अत्र भयशब्दः आश्चर्यार्थे स्वीक्रियते | अनुवृत्ति-सहितसूत्रम्— '''र्हेतुभये नित्यं स्मयतेः एचः आत् णौ''' |

विस्मि + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → विस्मै + इ → '''नित्यं स्मयतेः''' (६.१.५७) इत्यनेन एचः आत्त्वम् → विस्मा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → विस्मा + पुक् + इ → विस्मापि इति णिजन्तधातुः → '''भीस्म्योर्हेतुभये''' (१.३.६८) इत्यनेन प्रयोजकात् साक्षात् विस्मयः चेत् आत्मनेपदत्वम् → विस्मापि + शप् + ते → विस्मापयते (to surprise, astonish)

प्रयोजकात् विस्मयः चेत्—
मुण्डोजटिलो बालकं विस्मापयते | (The bald ascetic astonishes the boy.)
प्रयोजकात् विस्मयः नास्ति चेत्—
चोरः कुञ्चिकया एनं विस्माययति |

७) प्री-धातुः

प्रीञ् तर्पणे | अर्थः = प्रीतिं करोति, प्रसन्नं करोति, तृप्तं करोति | चुरादिगणे प्रीणयति/ते, विकल्पेन च णिच्-अभावे प्रयति/ते; क्र्यादिगणे प्रीणाति, प्रीणीते |

'''धूञ्प्रीञोर्नुग्वक्तव्यः''' इति वार्तिकम् | णिचि परे धू प्री इति धात्वोः नुक्-आगमः | धू-धातुः इति अग्रे उ/ऊकारान्तेषु दृश्यताम् | नुकि क्, उ, इत्यनयोः इत्-संज्ञा लोपश्च, न् अवशिष्यते |

प्रीञ् + णिच् → प्री + नुक् + इ → प्रीणि इति णिजन्तधातुः → प्रीणयति |

८) ईकारान्तधातूनां पुगागमः— ह्री, व्ली, री

ह्री जुहोत्यादिगणे | लटि जिह्रेति | अर्थः = लज्जते | णिचि ह्रेपयति = लज्जयति | ह्री इति स्त्रीलिङ्गशब्दः, लज्जा इत्यर्थः |
व्ली क्र्यादिगणे | '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति ह्रस्वत्वे, लटि व्लिनाति | अर्थः = गच्छति, समर्थनं करोति, चिनोति |
री क्र्यादिगणे | '''प्वादीनां ह्रस्वः''' (७.३.८०) इत्यनेन शिति ह्रस्वत्वे, लटि रिणाति | अर्थः = मोचयति |

'''प्वादीनां ह्रस्वः''' (७.३.८०) = पूञ्, लूञ्, धूञ्, ज्या, री, ली व्ली, प्ली, स्तॄञ्, कॄञ्, वॄ, शॄ, पॄ, वॄञ्, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम् | '''येन''' '''विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२), '''अचश्च''' (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.३५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''प्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति''' |

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) अस्मिन् सूत्रे त्रयः ईकारान्तधातवः सूचिताः, ह्री, व्ली, री इति— अर्ति'''ह्रीव्लीरी'''क्नूयीक्ष्माय्यातां पुङ् णौ | एभ्यः धातुभ्यः पुगागमः भवति णिच्-प्रत्यये परे | कोऽपि ईकारान्तधातुः अस्ति चेत् यः अस्मिन् सूत्रे न सूचितः, तर्हि णिच्-प्रत्यये परे तस्य पुगागमः न भवति एव | यथा नी + णिच् → नाययति (न तु नेपयति) |

धेयं यत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन न केवलं लघूपधस्य गुणः, अपि तु पुगन्तस्य अपि गुणः—

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

ह्री + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → ह्री + पुक् + णिच् → ह्री + प् + इ → ह्रीप् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → ह्रेप् + इ → '''सनाद्यन्ता धातवः''' इत्यनेन ह्रेपि इति णिजन्तधातुः → ह्रेपि + शप् + ति → ह्रेपयति
व्ली + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' → व्ली + पुक् + णिच् → व्ली + प् + इ → व्लीप् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → व्लेप् + इ → व्लेपि → '''सनाद्यन्ता धातवः''' → व्लेपि + शप् + ति → व्लेपयति
री + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' → री + पुक् + णिच् → री + प् + इ → रीप् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → रेप् + इ → रेपि → '''सनाद्यन्ता धातवः''' → रेपि + शप् + ति → रेपयति

९) इण्-इक्-धातू

इण् गतौ अदादिगणे | लटि एति, इतः, यन्ति इत्यादीनि रूपाणि |

'''णौ गमिरबोधने''' (२.४.४६) = णिचि परे इण्-धातुः गत्यर्थे न तु बोधनार्थे चेत्, गम् इति धात्वादेशो भवति | न बोधनम् अबोधनं, नञ्तत्पुरुषः; तस्मिन् अबोधने | गमि-पदे इकारः उच्चारणार्थः | णौ सप्त्यम्यन्तं, गमिः प्रथमान्तम्, अबोधने सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''इणो गा लुङि''' (२.४.४५) इत्यस्मात् इणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अबोधने इणः गमिः णौ''' |

इण् गत्यर्थे + णिच् → '''णौ गमिरबोधने''' (२.४.४६) इत्यनेन गम् इति धात्वादेशः → गम् + इ → गम् इति अमन्तः इत्यस्मात् '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मित्-संज्ञा → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → गाम् + इ → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः → गमि इति णिजन्तधातुः → गमयति

प्रति-उपसर्गपूर्वकः इण्-धातुः बोधनार्थे भवति—
प्रति + इ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → प्रति + ऐ + इ → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय्-आदेशः → प्रति + आय् + इ → प्रति + आयि → '''इको यणचि''' इत्यनेन यण्-आदेशः → प्रत्यायि इति णिजन्तधातुः → प्रत्याययति

(एवं 'प्रत्ययः' इति शब्दः बोधनार्थे; प्रति + इ + अच्)

इक्-धातुः

इक्-स्मरणे अददिगणे, नित्यम् अधि-उपसर्गपूर्वकः | लटि अध्येति, अधीतः, अधियन्ति इत्यादीनि रूपाणि |

'''इण्वदिकः''' इति वार्तिकेन इक्-धातोः इण्वद्भावः | अनेन इण्-धातोः येन केनापि सूत्रेण यत् किमपि कार्यं भवति, तेनैव सूत्रेण इक्-धातोः अपि तदेव कार्यम् भवति | अतः '''इणो यण्''' (६.४.८१) इत्यनेन अजादि-प्रत्यये परे यण्-आदेशः इक्-धातोः अपि भवति; अत्र '''णौ गमिरबोधने''' (२.४.४६) इत्यनेन णिचि परे गत्यर्थे (अबोधने) गम् इति धात्वादेशः इक्-धातोः अपि भवति | गतिः इत्यस्य चत्वारः अर्थाः—गमनं, ज्ञानं, प्राप्तिः, मोक्षः च | बोधनार्थे इत्युक्ते ज्ञानार्थे; ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गमादेशः इति तात्पर्यम् | इक्-धातुः स्मरणार्थे अस्ति; माता वदति यत् व्याकरणक्षेत्रे 'स्मरणं' ज्ञानार्थकः नास्ति | काशिकायां च दत्तमस्ति यत् 'इण्वदिक इत्येव, अधिगमयति', नाम '''इण्वदिकः''' इति वार्तिकस्य बलेन एव गम्-आदेशः; अर्थम् अवलम्ब्य इक्-धातोः गम्-आदेशः इति न |

अधि + इक् + णिच् → अधि + इ + इ → '''इण्वदिकः''' इति वार्तिकेन इक्-धातोः इण्वद्भावः → '''णौ गमिरबोधने''' (२.४.४६) इत्यनेन गत्यर्थे गम् इति धात्वादेशः → अधि + गम् + इ → गम् इति अमन्तः इत्यस्मात् '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मित्-संज्ञा → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → अधि + गाम् + इ → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः → अधि + गमि → अधिगमि इति णिजन्तधातुः → अधिगमयति

'''C. उकारान्तधातवः ऊकारान्तधातवः च'''

उ/ऊकारान्तधातूनां सामान्यव्यवस्था '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, '''एचोऽयवायावः''' इत्यनेन आव् आदेशः |

भू + णिच् → भौ + इ → भावि इति णिजन्तधातुः → भावयति |

अत्र एक एव अपवादः—

धूञ् कम्पने चुरादिगणे | लटि धूनयति/ते, धवति/ते |

'''धूञ्प्रीञोर्नुग्वक्तव्यः''' इति वार्तिकेन णिचि परे धूञ् प्रीञ् इति धात्वोः नुगागमः |

धूञ् + णिच् → धू + नुक् + इ → धू + न् + इ → धूनि इति णिजन्तधातुः → धूनयति

'''D. ऋकारान्तधातवः ॠकारान्तधातवः च'''

१) जागृ-धातुः

'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |

जागृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इति प्रबाध्य '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन गुणः → जागर् + इ → जागरि इति णिजन्तधातुः → जागरयति

२) दॄ-नॄ-जॄ-धातवः

इमे त्रयः धातवः मितः अतः उपधायां स्थितस्य अचः ह्रस्वत्वं भवति '''मितां ह्रस्वः''' (६.४.९२) इति सूत्रेण |

'''दॄ भये''' क्र्यादिगणे | लटि दृणाति | अर्थः = विदारयति, बिभेति | यदा भयार्थे अस्ति, तदा घटादिगणे पठितः अतः णिचि '''मितां ह्रस्वः''' इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम् | अतः णिचि भये दरयति, अन्यार्थेषु दारयति इति |

'''नॄ नये''' क्र्यादिगणे | लटि नृणाति | अर्थः = to bring to; to lead | यदा नयनार्थे (प्रापणार्थे) अस्ति, तदा घटादिगणे पठितः अतः णिचि '''मितां ह्रस्वः''' इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम् | अतः णिचि नये नरयति, अन्यार्थेषु नारयति इति |

'''जॄ'''-धातुः दिवादिगणे, क्र्यादिगणे, चुरादिगणे च | चुरादिगणे णिच्-प्रत्ययः वैकल्पिकः इति कृत्वा एकं रूपं भ्वादिगणवत् इत्यतः माता "भ्वादिगणे अपि" इति वदति | लटि जीर्यति, जृणाति, जरयति/जरति | अर्थः = 1.to grow old; 2.to perish (fig. also); 3.to be dissolved or digested; 4.to break up or fall to pieces | '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण जनी, जॄष्, क्नसु, रञ्ज् एते चत्वारः धातवः च येषां धातूनाम् अन्ते अम् इति अंशः भवति (यथा गम्, रम्, नम्), एषां धातूनां मित्-संज्ञा भवति | तदा '''मितां ह्रस्वः''' इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम् | अतः णिचि जरयति इति भवति |

दॄ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → दार् + इ → दारि → '''मितां ह्रस्वः''' → दरि इति णिजन्तधातुः → दरयति
नॄ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → नार् + इ → नारि → '''मितां ह्रस्वः''' → नरि इति णिजन्तधातुः → नरयति
जॄ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → जार् + इ → जारि → '''मितां ह्रस्वः''' → जरि इति णिजन्तधातुः → जरयति

३) स्मृ-धातुः

'''स्मृ आध्याने''' भ्वादिगणे | लटि स्मरति | अर्थः = स्मरति; जपं करोति, ध्यानं करोति; अभिलेखे लिखति, स्मृतौ लिखति; उपदिशति, घोषते; पाठयति | आध्यानार्थे अस्ति चेत् मित् अतः णिचि '''मितां ह्रस्वः''' इत्यनेन उपधायां स्वरः ह्रस्वः |

आध्यानार्थे—
स्मृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → स्मार् + इ → स्मारि → '''मितां ह्रस्वः''' → स्मरि इति णिजन्तधातुः → स्मरयति

अपरेषु अर्थेषु—
स्मृ + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः → स्मार् + इ → स्मारि इति णिजन्तधातुः → स्मारयति

४) ऋकारान्तधातूनां पुगागमः

ऋ गतिप्रापणयोः भ्वादिगणे | लटि ऋच्छति | '''पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः''' (७.३.७८) इत्यनेन शिति परे ऋ-स्थाने '''ऋच्छ''' इति धात्वादेशो भवति | अर्थः = गच्छति; गन्तव्यस्थानं प्राप्नोति; लभते | णिचि अर्पयति = गमयति, क्षेपयति |

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इति सूत्रेण ऋ-धातोः अपि पुक्-आगमो भवति णिचि परे | '''अर्ति'''ह्रीव्लीरीक्नूयीक्ष्माय्याताम् इति |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

ऋ + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' → ऋ + पुक् + णिच् → ऋ + प् + इ → ऋप् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → अर्प् + इ → '''सनाद्यन्ता धातवः''' इत्यनेन अर्पि इति णिजन्तधातुः → अर्पि + शप् + ति → अर्पयति

इति अजन्तधातूनां विशेषणिजन्तरूपाणि | अग्रे हलन्तधातूनां विशेषणिजन्तरूपाणि परिशील्यन्ते |

Swarup – May 2013 (Updated April 2017)
[[File:०२ - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः.pdf|thumb|०२ - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः]]