२) '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति |

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम् उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | यक् तु कित्, अतः यकि अनिदितां धातूनां उपधा-स्थितस्य नकारस्य लोपः |

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |

स्कन्द् + यक् → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद् + य → स्कद्य → स्कद्य + ते → स्कद्यते |