04a - कर्मणि भावे च
भावार्थे कर्मण्यर्थे च यः प्रत्ययः धातुभ्यः विधीयते, सः आर्धधातुकसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम् आर्धधातुकप्रक्रिया उपयुज्यते | आर्धधातुकप्रक्रिया इत्यस्मात् धातुगणचिन्तनं न भवति | सर्वे उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते | यक्-प्रत्ययश्च वलादिः नास्ति इत्यस्मात् इडागमः न भवति कुत्रापि |
यः तिङ् अथवा कृत्-प्रत्ययः धातोः परो वर्तते स च भाववाची कर्मवाची वा चेत्, धातोः यक्-प्रत्ययः विधीयते सार्वधातुके यक् (३.१.६७) इति सूत्रेण—
सार्वधातुके यक् (३.१.६७) = धातुभ्यः यक्-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | सार्वधातुके सप्तम्यन्तं, यक् प्रथमान्तं, द्विपदमिदं सूत्रम् | चिण्भावकर्मणोः (३.१.६६) इत्यस्मात् भावकर्मणोः इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | प्रत्ययः (३.१.१) इत्यस्य अधिकारः; परश्च (३.१.२) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रं— धातोः यक् प्रत्ययः परश्च भावकर्मवाचिनि सार्वधातुके |
तिङ्शित् सार्वधातुकम् (३.४.११३) = धातोः विहितः तिङ्-शित् प्रत्ययः सार्वधातुकसंज्ञको भवति | श् इत् यस्य सः शित्, बहुव्रीहिः | तिङ् च शित् च तयोः समाहारद्वन्द्वः तिङ्शित् | तिङ्शित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् |
आर्धधातुकं शेषः (३.४.११४) = धातोः विहितः तिङ्-शित्-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च शेषः प्रत्ययः आर्धधातुकम् |
आर्धधातुकं शेषः (३.४.११४) इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति | फलम् एवम् अस्ति— यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् 'धातोः' इति उच्यते, स एव आर्धधातुकसंज्ञकः | अनेन गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्मिन् यद्यपि सन्-प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात् धातोः इति पदं नायाति इत्यस्मात् सन्-प्रत्ययः आर्धधातुकः नास्ति | तदर्थम् आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्य प्रसक्रिर्नास्ति, यस्मात् सन्-प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति | जुगुप्सते ।
यक्-प्रत्ययस्य स्वभावः
यक्-प्रत्यये हलन्त्यम् (१.३.३.) इत्यनेन अनुबन्ध-ककारस्य इत्-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन अनुबन्धस्य लोपे सति 'य' इत्यवशिष्यते | यक्-प्रत्ययस्य कित्त्वात् त्रीणि विशिष्ट-कार्याणि—
१) क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः वृद्धिनिषेधश्च |
२) अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति |
३) सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
पदस्य निर्णयः
भावेप्रयोगे कर्मणिप्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्-प्रत्ययाः एव विधीयन्ते—
भावकर्मणोः (१.३.१३) = भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति | भावश्च कर्म च तयोरितरेतरद्वन्द्वो भावकर्मणी, तयोर्भावकर्मणोः | भावकर्मणोः सप्तम्यन्तम् एकपदमिदं सूत्रम्; अत्र विषयसप्तमी | अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— भावकर्मणोः आत्मनेपदम् |
पुरुषनिर्णयः वचननिर्णयः च
अकर्मकधातूनां भावेप्रयोगः भवति, सकर्मकधातूनां कर्मणिप्रयोगः भवति | भावेप्रयोगे तिङन्तरूपाणि केवलं प्रथमपुरुषस्य एकवचने एव भवन्ति | कर्मणिप्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु वचनेषु च भवन्ति |
यक्-प्रत्ययस्य लकारनिमित्तिकृत्य वैशिष्ट्यम्
उक्तं यत् सार्वधातुके यक् (३.१.६७) इत्यनेन धातुभ्यः यक्-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | अत्र धेयं यत् लकाराः अपि प्रत्ययाः | दश लकाराः सन्ति; सर्वे च आदौ आर्धधातुकसंज्ञकाः | तदा एषां लकाराणां स्थाने ये अष्टादश तिङ्-प्रत्ययाः आदिष्टाः, ते च तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः | तदा लिट् च (३.४.११५) , लिङाशिषि (३.४.११६) इति सूत्राभ्यां लिट्-लकारस्य आशीर्लिङ-लकारस्य च स्थाने ये अष्टादश तिङ्-प्रत्ययाः आदिष्टाः, ते च अपवादत्वेन आर्धधातुकसंज्ञकाः | अनन्तरं स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तास् भवति | अनुवृत्ति-सहितसूत्रं— लृलुटोः धातोः परश्च स्यतासी प्रत्ययौ | अनेन लृट्, लृङ् इत्यनयोः स्य-प्रत्ययः, लुट्-लकारस्य च तास्-प्रत्ययः | च्लि लुङि (३.१.४३) इत्यनेन लुङि धातोः च्लि प्रत्ययो भवति | लुङ्-लकारस्य च्लि-प्रत्ययः | धेयं यत् स्य, तास्, च्लि एते त्रयः प्रत्ययाः न तिङ्, न वा शित्, अतः तिङ्शित्सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः | अपि तु आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः | फलितार्थः एवं यत् लट्, लोट्, लङ्, विधिलिङ् इत्येषां चतुर्णां लकाराणां तिङ्-प्रत्ययाः सार्वधातुकसंज्ञकाः; लिट्, लृट्, लृङ्, लुट्, लुङ्, आशिर्लिङ् इत्येषां षण्णां लकाराणां तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः | तदर्थं सार्वधातुके यक् (३.१.६७) इत्यनेन चतुर्षु एव लकारेषु यक्-प्रत्ययो विधीयते | अवशिष्टेषु षट्सु भाववाचकानि कर्मवाचकानि च रूपाणि भवन्ति, किन्तु तत्र यक्-प्रत्ययः न भवति |
एतदधिकृत्य अग्रे कर्मवाचकानां भाववाचकानां च रूपाणि द्वयोः समूहयोः विभज्यन्ते—
१) लट्, लोट्, लङ्, विधिलिङ् | एषु लकारेषु यक्-प्रत्ययः विधीयते |
२) लिट्, लृट्, लृङ्, लुट्, लुङ्, आशिर्लिङ् | एषु लकारेषु यक्-प्रत्ययः न विधीयते |
अस्मिन् पाठे प्रथमतया तेषां लकाराणां रूपाणि साधयामः येषां कृते धातुभ्यः यक् विधीयते; अनन्तरमेव अवशिष्टानां, यत्र यक् न विधीयते | प्रथमे समूहे पुनः विभजनं क्रियते यतोहि चुरादिगणे प्रक्रिया किञ्चित् भिन्ना यतोहि स्वार्थे णिच् भवति, अतः चुरादिगणीयाः धातवः पृथक्तया अवलोक्यन्ते | अपि च आर्धधातुकप्रक्रियायां यथासामान्यं धातूनां विभजनं भवति अन्तिमवर्णम् अधिकृत्य— अजन्तानां हलन्तानां च | पुनः अजन्तेषु आकारान्ताः-एजन्ताः, इकारान्ताः-ईकारान्ताः, उकारान्ताः-ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः च | तदा हलन्तेषु विभागचतुष्टयं— धात्वादेशाः, सम्प्रसारणिधातवः, अनिदित्-धातवः, अवशिष्टाधातवः च |
A. लट्, लोट्, लङ्, विधिलिङ् | एषु लकारेषु यक्-प्रत्ययः विधीयते |
1. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्)
a) अजन्तधातवः
१. आकारान्ताः एजन्ताः च धातवः
अशिति प्रत्यये परे, एजन्तधातवः आकारान्ताः भवन्ति | यक्-प्रत्ययः शित् नास्ति इत्यस्मात् अत्र आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य प्रवर्तनम्—
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा—
ग्लै → ग्ला
म्लै → म्ला
ध्यै → ध्या
शो → शा
सो → सा
वे → वा
छो → छा
यः कोऽपि आर्धधातुकप्रत्ययः भवति, सः अशित् एव | तदर्थं सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एजन्तानां धातूनाम् आत्वं भवति | नाम आर्धधातुकप्रत्ययेषु परेषु सर्वे एजन्तधातवः आकारान्ताः एव भवन्ति |
आकारान्तानां (एजन्तानां च) भावकर्मप्रक्रिया
ये सामान्याः आकारान्ताः एजन्ताः च धातवः सन्ति, तेषां कृते किमपि कार्यं नास्ति— वर्णमेलनमेव |
रूपाणि एवं निर्मीयन्ते—
घ्रा → भावकर्मणोः (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति → घ्रा + ते → सार्वधातुके यक् (३.१.६७) इत्यनेन कर्मवाचके सार्वधातुके प्रत्यये परे धातुभ्यः यक्-प्रत्ययः → घ्रा + यक् + ते → घ्रा + य + ते → घ्राय + ते → घ्रायते
एवमेव—
ध्या + यक् → ध्याय → ध्यायते
ग्ला + यक् → ग्लाय → ग्लायते
ध्मा + यक् → ध्माय → ध्मायते
भा + यक् → भाय → भायते
ला + यक् → लाय → लायते
वा + यक् → वाय → वायते
छा + यक् → छाय → छायते
किन्तु आकारान्तेषु एजन्तेषु च धातुषु, द्वादश सन्ति येषाम् ईकारादेशो भवति |
घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि क्ङिति आर्धधातुके |
घु-संज्ञकधातवः षट् सन्ति— दो → दा, देङ् → दा, डुदाञ् → दा, दाण् → दा, धे → धा, डुधाञ् → धा च |
यक्-प्रत्ययः हलादिः, कित्, आर्धधातुकः अतः घुमास्थागापाजहातिसां हलि (६.४.६६) इति सूत्रं प्रवर्तते | आहत्य द्वादश धातवः अन्तर्भवन्ति येषाम् अनेन सूत्रेण आकारस्य ईत्वं विधीयते—
दा + यक् → दी + य → दीय (चत्वारः धातवः)
धा + यक् → धी + य → धीय (द्वौ धातू)
मा + यक् → मी + य → मीय
स्था + यक् → स्थी + य → स्थीय
गा + यक् → गी + य → गीय
पा + यक् → पी + य → पीय
हा + यक् → ही + य → हीय
सा + यक् → सी + य → सीय
लटि, लोटि, लङि, विधिलिङि च सर्वत्र यक् विधीयते, अतः एषु सर्वेषु स्थलेषु यत् अङ्गम् उत्पद्यते तददन्तम् इत्यतः प्रथमधातुगणसमूहस्य आत्मनेपदसंज्ञकतिङ्प्रत्ययाः विधीयन्ते | ते च एते—
आत्मनेपदिधातूनां सिद्ध-तिङ्प्रत्ययाः
लटि सिद्ध-प्रत्ययाः—
ते इते अन्ते
से इथे ध्वे
ए वहे महे
लोटि सिद्ध-प्रत्ययाः—
ताम् इताम् अन्ताम्
स्व इथाम् ध्वम्
ऐ आवहै आमहै
लङि सिद्ध-प्रत्ययाः—
त इताम् अन्त
थाः इथाम् ध्वम्
इ वहि महि
विधिलिङि सिद्ध-प्रत्ययाः—
ईत ईयाताम् ईरन्
ईथाः ईयाथाम् ईध्वम्
ईय ईवहि ईमहि
डुदाञ् दाने इत्यस्य रूपाणि वक्तव्यानि कर्मणि लटि, लोटि, लङि, विधिलिङि |
दा + यक् → दी + य → दीय + ते → दीयते
धा + यक् → धी + य → धीय + ते → धीयते
मा + यक् → मी + य → मीय + ते → मीयते
स्था + यक् → स्थी + य → स्थीय + ते → स्थीयते
गा + यक् → गी + य → गीय + ते → गीयते
पा + यक् → पी + य → पीय + ते → पीयते
हा + यक् → ही + य → हीय + ते → हीयते
सा + यक् → सी + य → सीय + ते → सीयते
अनेन आकारान्तानाम् एजन्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
२. इकारान्ताः ईकारान्ताः च धातवः
यक्-प्रत्ययस्य कित्त्वात् गुणनिषेधः |
जि + यक् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → जि + यक्
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
यक्-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः इकारान्तधातूनां दीर्घादेशो भवति |
जि + यक् → जीय → जीय + ते → जीयते |
अनेन लटि, लोटि, लङि, विधिलिङि च रूपाणि ज्ञेयानि |
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकम् चेत् न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
एवमेव क्षि → क्षीयते, श्रि → श्रीयते, ज्रि → ज्रीयते, रि → रीयते, पि → पीयते |
ईकारान्तधातूनामपि तदेव कार्यं— सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः, क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन दीर्घादेशः | अनेन अन्ततो गत्वा ईकारान्तधातवः यथावत् तिष्ठन्ति |
नी + यक् → नीय → नीय + ते → नीयते
भी + यक् → भीय → भीय + ते → भीयते
अस्य अपवादः शीङ्-धातुः |
शीङ् + यक् → शय् + य → शय्य → शय्य + ते → शय्यते
अयङ्-आदेशः अनेकाल् किन्तु ङित्, तस्माच्च अन्त्यादेशो भवति |
अयङ् यि क्ङिति (७.४.२२) = शीङ्-धातोः अय्-आदेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | अयङ् इत्यस्मिन् ङकारस्य इत्-संज्ञा, यकारोत्तरवर्ती अकारश्च उच्चरणार्थः | क् च ङ् च क्ङौ, तौ इतौ यस्य सः क्ङित् द्वन्द्वगर्भो बहुव्रीहिः, तस्मिन् क्ङिति | अयङ् प्रथमान्तं, यि सप्तम्यन्तं, क्ङिति सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्मात् शीङः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गस्य अयङ् यि क्ङिति |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत् यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङिच् च अन्त्यस्य अलः स्थाने |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
अनेन इकारान्तानाम् ईकारान्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
३. उकारान्ताः ऊकारान्ताः च धातवः
यथा इकारान्ताः ईकारान्ताः, तथैव उकारान्ताः ऊकारान्ताः च | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः, क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन दीर्घादेशः |
नु + यक् → नूय → नूय + ते → नूयते
अनेन लटि, लोटि, लङि, विधिलिङि च रूपाणि ज्ञेयानि |
एवमेव हु → हूयते (आ + हु → आहूयते), द्रु → द्रूयते इत्यादिकम् |
ऊकारान्ताः धातवः यथावत् तिष्ठन्ति—
भू → भूयते
पू → पूयते
धू → धूयते
लू → लूयते
अस्य अपवादः ब्रू-धातुः
ब्रुवो वचिः (२.४.५३) = ब्रू-धातोः स्थाने वच्-आदेशो भवति आर्धधातुकविवक्षायाम् | वचिः इत्यस्मिन् इकारः उच्चारणार्थः | ब्रुवः षष्ठ्यन्तं, वचिः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवो वचिः आर्धधातुके |
वच् अनेकाल् इत्यस्मात् पूर्णतया ब्रू-स्थाने आदिष्टो भवति |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
ब्रू + यक् → ब्रुवो वचिः (२.४.५३) → वच् + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → उच् +य → उच्य → उच्य + ते → उच्यते |
अनेन उकारान्तानाम् ऊकारान्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
४. ऋकारान्ताः धातवः
सामान्यऋकारान्तानां धातूनां कृते रिङ् शयग्लिङ्क्षु (७.४.२८) इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति यक्-प्रत्यये परे |
यथा—
कृ + यक् → रिङ् शयग्लिङ्क्षु (७.४.२८) → क् + रिङ् + यक् → क्रि + य → क्रिय → क्रिय + ते → क्रियते
भृ + यक् → रिङ् शयग्लिङ्क्षु (७.४.२८) → भ् + रिङ् + यक् → भ्रि + य → भ्रिय → भ्रिय + ते → भ्रियते
मृ + यक् → रिङ् शयग्लिङ्क्षु (७.४.२८) → म् + रिङ् + यक् → म्रि + य → म्रिय → म्रिय + ते → म्रियते
रिङ् शयग्लिङ्क्षु (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ्-प्रत्यये च परे | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तं, शयग्लिङ्क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके, रीङ् ऋतः (७.४.२७) इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयग्लिङ्क्षु |
यस्मिन् विधिः तदादावल्ग्रहणे इति परिभाषया यि नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | यि असार्वधातुके च लिङः विशेषणम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ऋतः अङ्गस्य नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | रिङ् ङित्, अतः अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५), तत् प्रबाध्य ङिच्च (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | परिभाषासूत्रम् | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत् यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य अलः स्थाने |
अस्य द्वौ अपवादौ—
अ) संयोगादि-ऋकारान्तधातवः
गुणोऽर्तिसंयोगाद्योः (७.४.२९) इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत्, धातोः गुणादेशो भवति |
यथा—
स्मृ + यक् → स्म + यक् → स्मर् + य → स्मर्य → स्मर्य + ते → स्मर्यते
ध्वृ + यक् → ध्व + यक् → ध्वर् + य → ध्वर्य → ध्वर्य + ते → ध्वर्यते
ह्वृ + यक् → ह्व + यक् → ह्वर् + य → ह्वर्य → ह्वर्य + ते → ह्वर्यते
स्वृ + यक् → स्व + यक् → स्वर् + य → स्वर्य → स्वर्य + ते → स्वर्यते
ऋ + यक् → अ + यक् → अर् + य → अर्य → अर्य + ते → अर्यते
गुणोऽर्तिसंयोगाद्योः (७.४.२९) = ऋधातोः संयोगादिऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि-लिङि-आर्धधातुकप्रत्यये परे च | अर्ति इत्यनेन ऋ-धातुः, धातुनिर्देशे श्तिपि | ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ-धातोः आदौ संयोगः न सम्भवति | अर्तिश्च संयोगादिश्च तयोरितरेतरद्वन्द्वः, अर्तिसंयोगादी, तयोः अर्तिसंयोगाद्योः | असार्वधातुके इत्यनेन आर्धधातुके | तदन्तविधिः, अलोऽन्त्यस्य, तदादिविधिः इति त्रयः प्रवर्तन्ते | संयोगादिः संयोगः आदिर्यस्य सः बहुव्रीहिः | गुणः प्रथमान्तम्, अर्तिसंयोगाद्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | रीङृतः (७.४.२७) इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके इत्यस्य अनुवृत्तिः | रिङ् शयग्लिङ्क्षु (७.४.२८) इत्यस्मात् यग्लिङोः इत्यस्य अनुवृत्तिः ('श' इति न आनीयते यतोहि तुदादौ संयोगादिऋदन्तधातुः नास्ति एव) | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि यि लिङि असार्वधातुके |
आ) जागृ-धातुः
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन किति प्रत्यये परेऽपि गुणः—
जागृ + यक् → जागर् + य → जागर्य → जागर्य + ते → जागर्यते
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जाग्रः गुणः अविचिण्णल्ङित्सु |
५. ॠकारान्ताः धातवः
अ) अनोष्ठ्यपूर्व-ऋकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
तॄ + यक् → ॠत इद्धातोः (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → तिर् + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → तीर् + य → तीर्य → तीर्य + ते → तीर्यते
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ऋतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि |
एवमेव—
जॄ + यक् → जि + य → जिर् + य → जीर् + य → जीर्य → जीर्यते
गॄ → गीर्यते
कॄ → कीर्यते
दॄ → दीर्यते
शॄ → शीर्यते
आ) ओष्ठ्यपूर्व-ऋकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ऋकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
पॄ + यक् → उदोष्ठ्यपूर्वस्य (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः → पु + य → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → पुर् + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → पूर् + य → पूर्य → पूर्य + ते → पूर्यते
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ऋकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत् |
एवमेव—
वॄ + यक् → वु + य → वुर् + य → वूर् + य → वूर्य → वूर्यते
भॄ → भूर्यते
b) हलन्तधातवः
अत्र भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्), यत्र धातुः हलन्तः |
हलन्तेषु विभागचतुष्टयं— (१) सामान्यधातवः, (२) येषां धातूनां धात्वादेशाः, (३) सम्प्रसारणिधातवः, (४) अनिदित्-धातवः च |
१) सामान्यधातवः
क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः वृद्धिनिषेधश्च; यक्-प्रत्ययः कित्, अतः पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन आर्धधातुकप्रत्यये परे लघूपधस्य इकः प्रवर्तमानगुणो न भवति |
तदर्थम् अङ्गकार्यं नास्ति, धातवः च यथावत् तिष्ठन्ति |
यथा—
पठ् + यक् → पठ्य → पठ्य + ते → पठ्यते
निन्द् + यक् → निन्द्य → निन्द्य + ते → निन्द्यते
लिख् + यक् → लिख्य → लिख्य + ते → लिख्यते
मुद् + यक् → मुद्य → मुद्य + ते → मुद्यते
पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
अत उपधायाः (७.२.११६) इति सूत्रम्, अचो ञ्णिति (७.२.११५) च ञिति णिति प्रत्यये परे एव, अतः यकि परे अनयोः प्रसक्तिः नास्ति एव |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
(२) येषां धातूनां धात्वादेशाः
अस्-धातुः
अस्तेर्भूः (२.४.५२) इत्यनेन अस्-धातोः भू-आदेशो भवति आर्धधातुकविवक्षायाम् |
अस् + यक् → अस्तेर्भूः (२.४.५२) इत्यनेन अस्-धातोः भू-आदेशः आर्धधातुकप्रत्यये परे → भू + यक् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः, क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → भूय → भूय + ते → भूयते
अस्तेर्भूः (२.४.५२) = अस्-धातोः भू-आदेशो भवति आर्धधातुकविवक्षायाम् | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वादेशः | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे अस्-धातोः श्तिप्-प्रत्यये परे अस्ति इति धातुः, षष्ठीविभक्तौ अस्तेः | आर्धधातुके इत्यस्य विषयसप्तमी | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
चक्षिङ्-धातुः
चक्षिङः ख्याञ् (२.४.५४) | ख्यायते | क्शायते |
चक्षिङ्: ख्याञ् (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज्-धातुः
अजेर्व्यघञपोः (२.४.५६) इत्यनेन अज्-धातोः वी-आदेशो भवति आर्धधातुकविवक्षायाम्, घञ्, अप्-प्रत्ययौ वर्जयित्वा |
अज् + यक् → अजेर्व्यघञपोः (२.४.५६) → वी + य → वीय + ते → वीयते
अजेर्व्यघञपोः (२.४.५६) = अज्-धातोः वी-आदेशो भवति आर्धधातुकविवक्षायाम्, घञ्, अप्-प्रत्ययौ वर्जयित्वा | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वादेशः | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे अज्-धातोः इक्-प्रत्यये परे अजि इति धातुः, षष्ठीविभक्तौ अजेः | घञ् च अप् च तयोरितरेतरद्वन्द्वः घञपौ, न घञपौ अघञपौ, तयोरघञपोः | अजेः षष्ठ्यन्तं, वी अविभक्तिम्, अघञपोः सप्तम्यतं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
जन्, सन्, खन् इति धातवः
ये विभाषा (६.४.४३) इत्यनेन जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे |
आत्वपक्षे—
जन् + यक् → ये विभाषा (६.४.४३) इत्यनेन नकारस्य आत्वम् → जा + य → जाय → जाय + ते → जायते
आत्वापक्षे—
जन् + यक् → जन् + य → जन्य → जन्य + ते → जन्यते
एवमेव—
सन् + यक् → सायते, सन्यते
खन् + यक् → खायते, खन्यते
ये विभाषा (६.४.४३) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | जनसनखनां सञ्झलोः (६.४.४२) इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा |
तन्-धातुः
तनोतेर्यकि (६.४.४४) इत्यनेन तन्-धातोः विकल्पेन आकारादेशो भवति यक्-प्रत्यये परे |
आत्वपक्षे—
तन् + यक् → ता + य → ताय → ताय + ते → तायते
आत्वापक्षे—
तन् + यक् → तन् + य → तन्य → तन्य + ते → तन्यते
तनोतेर्यकि (६.४.४४) = तन्-धातोः विकल्पेन आकारादेशो भवति यक्-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यादेशः | तनोतेः षष्ठ्यन्तं, यकि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विङ्वनोरनुनसिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | ये विभाषा (६.४.४३) इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— तनोतेः आत् यकि विभाषा |
(३) सम्प्रसारणिधातवः
यक्-प्रत्ययः कित्, अतः वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इति सूत्राभ्यां सम्प्रसारणं भवति |
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
अभ्यासः—
ग्रह् + यक् →
व्रश्च् + यक् →
प्रच्छ् + यक् →
भ्रस्ज् + यक् →
व्यध् + यक् →
व्यच् + यक् →
वच् + यक् →
स्वप् + यक् →
यज् + यक् →
वप् + यक् →
वह् + यक् →
वद् + यक् →
वश् + यक् →
शासिवसिघसीनाञ्च (८.३.६०) = शास्, वस्, घस् इत्येषां धातूनाम् इण्-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सहेः साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः | इण्कोः (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम् |
वस् + यक् → वचिस्वपियजादीनां किति (६.१.१५) → उस् + यक्
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकम् चेत् न भवति | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
हलः (६.४.२) अन्तरङ्गसूत्रम् अस्ति अतः बलवत् अस्ति अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्य अपेक्षया |
ज्या + यक् → जि + आ + यक् → जि + यक् → हलः (६.४.२) → जी + यक् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → जी + यक् → जीय + ते → जीयते
व्येञ् + यक् →
वेञ् + यक् →
ह्वेञ् + यक् →
श्वि + यक् →
४) अनिदितः धातवः
अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम् उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | यक् तु कित्, अतः यकि अनिदितां धातूनां उपधा-स्थितस्य नकारस्य लोपः |
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
पाणिनेः धातुपाठे अनिदित्-धातवः इमे—
अञ्च् | कुञ्च् | क्रुञ्च् | ग्लुञ्च् | चञ्च् | तञ्च् | त्वञ्च् | म्रुञ्च् | म्लुञ्च् | लुञ्च् |
वञ्च् | अञ्ज् | रञ्ज् | भञ्ज् | सञ्ज् | ष्वञ्ज् | कुन्थ् | ग्रन्थ् | मन्थ् | श्रन्थ् |
उन्द् | बुन्द् | स्कन्द् | स्यन्द् | इन्ध् | बन्ध् | शुन्ध् | तुम्प् | त्रुम्प् | ऋम्फ् |
गुम्फ् | तुम्फ् | त्रुम्फ् | तृम्फ् | दृम्फ् | उम्भ् | दम्भ् | शुम्भ् | श्रम्भ् | षृम्भ् |
स्रम्भ् | हम्म् | दंश् | भ्रंश् | ध्वंस् | भ्रंस् | शंस् | स्रंस् | तृन्ह् |
यकि परे उपधास्थितनकारलोपः | यथा—
स्कन्द् + यक् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति परे नलोपः → स्कद् + य → स्कद्य → स्कद्य + ते → स्कद्यते |
एवमेव सर्वेषां अनिदितां हलन्तानां भावकर्मणि तिङन्तरूपाणि वक्तव्यानि |
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्) समग्रचिन्तनं सम्पूर्णाम् |
Swarup – Sept 2017
०४ - कर्मणि भावे च.pdf (184k)Swarup Bhai, Sep 4, 2019, 2:59 AM