चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्चुर् + णिच् → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति |

चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्-प्रत्ययः विधीयते → चुर्चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः

'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च''' |

चुर्चुर् + इ → चोरि → '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → चोरि + यक्

चुर्चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर्चुर् + णिच् → चोरि → '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → चोरि + यक् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर् + यक् → चोर्य → चोर्य + ते → चोर्यते

'''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज्-दृश्-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम् मित् इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन धातोः अच्-वर्णेषु अन्त्यात् परः आयाति | '''धातोः कार्यम् उच्यमानं तत्प्रत्यये भवति''' इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश् च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्, तस्मिन् अकिति | सृजिदृशोः षष्ट्यन्तंषष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''सृजिदृशोः अम् झलि अकिति (प्रत्यये)''' |

'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |

'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यतत्पुरुषः अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |