7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II: Difference between revisions

no edit summary
(added captions to tables)
No edit summary
Line 1:

=== 04b - कर्मणि भावे च II ===
ध्वनिमुद्रणानि -

2020 वर्गः-
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि -2020 वर्गः-

ध्वनिमुद्रणानि - 2020 वर्गः-

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]

Line 54 ⟶ 50:

'''2.''' भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च

चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्‍ + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |

चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्‍ इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर्‍ + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः

तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |

पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि

'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍ आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |

'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्‌ | अस्यां स्थितौ—यत्र हेतुमान्‌ प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |

'''सनाद्यन्ता धातवः''' (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''सनाद्यन्ता धातवः''' |

एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत्‌ किमपि रूपं निष्पादयितुम्‌ इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति भावकर्मप्रक्रियायां च— सर्वप्रथमं णिच्‌, तदा यक्‌ | यथा—

चुर्‍ + इ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌

अस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | यक्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्‌, भाववाचके कर्मवाचके च '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन यक्‌ विधीयते | तदा '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपो भवति |

चुर्‍ → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍ + णिच्‌ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यक्‌ → चोर्य → चोर्य + ते → चोर्यते

'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |

एवमेव—

कथ + णिच्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायांं स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → कथि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यक्‌ → कथ्य → कथ्य + ते → कथ्यते

पठ्‌ → '''हेतुमति च'<nowiki/>'' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''''<nowiki/>''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '<nowiki/>'''''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पाठि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाठ्‌ + यक्‌ → पाठ्य → पाठ्य + ते → पाठ्यते

दा + णिच्‌ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → दापि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → दाप्य → दाप्य + ते → दाप्यते

पै पाने → पै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच्‌ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे → पा + युक्‌ + णिच्‌ → पा + य्‌ + इ → पायि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पायि + यक्‌ → पाय्य → पाय्यते

नी + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →

लिख्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →

भू* + णिच्‌ →

कृ + णिच्‌ →

छो छेदने + णिच्‌ →

वद्‌ + णिच्‌ →

क्षिप + णिच्‌ →

बुध्‌ + णिच्‌ →

कृष्‌** + णिच्‌ →

एध्‌ + णिच्‌ →

गण + णिच्‌ →

deletepagepermission, page_and_link_managers, teachers
2,632

edits