|
|
(One intermediate revision by the same user not shown) |
{{DISPLAYTITLE:05 - लुङ्-लकारः कर्मणि भावे च}}
=== <big>05 - लुङ्-लकारः कर्मणि भावे च</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big> <big>2020 वर्गः-</big>
<big><br />
'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big><br />
'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |</big>
<big><br />
|