05 - लुङ्-लकारः कर्मणि भावे च
3. लुङ्-लकारः कर्मणि भावे च
लुङ्-लकारेण सामान्यभूतकालः व्यक्तीक्रियते | अपरेषु लकारेषु एकस्य लकारस्य एकविध-तिङ्प्रत्ययाः भवन्ति | लटि, लोटि, लङि, विधिलिङि, लिटि, लृटि, लुटि, लृङि, आशीर्लिङि— एषु सर्वेषु, प्रत्येकं लकारस्य एकप्रकारकतिङ्प्रत्ययाः भवन्ति | यथा लटि ति, तः, अन्ति, सि, थः, थ इत्यादयः प्रत्ययाः |
किन्तु लुङ्-लकारे कर्तरिप्रयोगे द्वादश प्रकारकाः प्रत्ययाः सन्ति—
१. सिच्-प्रत्ययस्य लुक् (सिज्लुक्) इत्यनेन निष्पन्नाः प्रत्ययाः = परस्मैपदे एव
२. सक्-आगमेन निष्पन्नाः प्रत्ययाः = परस्मैपदे एव
३-४. अङ्-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च, किन्तु कर्त्रर्थे एव
५-६. चङ्-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च, किन्तु कर्त्रर्थे एव
७-८. क्स-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च
९-१०. सिच्-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च
११-१२. इट् + सिच्-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च
अनेन अवगम्यते यत् लुङ्-लकारस्य भावे कर्मणि च क्स-प्रत्ययेन, सिच्-प्रत्ययेन एव सिद्धतिङ्प्रत्ययाः भवन्ति | लुङ्-लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |
लुङ्-लकारे केचन विशिष्टधातवः सन्ति येषां कृते विशेषनियमाः सन्ति | तेषां रूपाणि कथं भवन्ति इति अग्रे प्रदर्श्यते |
१७ शलन्त-इगुपध-अनिट्-धातवः
शलन्तेषु १७ शलन्त-इगुपध-अनिट्-धातवः | एषां सप्तदशानां धातूनां कर्मणि भावे च रूपाणि भवन्ति क्स-प्रत्ययेन निष्पन्नैः प्रत्ययैः—
क्रुश्, दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष्, मिह्, रुह्, लिह्, दिह्, दुह् |
शल इगुपधादनिटः क्सः (३.१.४५) = इगुपध-शलन्तधातुतः अनिट्-च्लि-प्रत्ययस्य स्थाने क्स-आदेशो भवति | च्लेः सिच् (३.१.४४) इत्यस्य अपवादः | इगुपध-शलन्तधातवः सप्तदश सन्ति | क्स-आदेशे ककारस्य इत्-संज्ञा लोपश्च; 'स' तिष्ठति | अयं 'स' कित् | इक्-उपधा यस्य सः इगुपधः बहुव्रीहिः, तस्मात् इगुपधात् | न विद्यते इट् यस्य सः अनिट् बहुव्रीहिः, तस्य अनिटः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः शलः धातोः | शलः पञ्चम्यन्तम्, इगुपधात् पञ्चम्यन्तम्, अनिटः षष्ठ्यन्तं, क्सः प्रथमान्तम् अनेकपदमिदं सूत्रम् | च्लेः सिच् (३.१.४४) इत्यस्मात् च्लेः इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— इगुपधात् शलः धातोः अनिटः च्लेः क्सः |
अत्र प्रश्नः उदेति यत् क्सः आदेशो वा, प्रत्ययो वा ? च्लि-स्थाने आदिष्टे सति आदेशः भवेदेव | परन्तु अयं क्स-आदेशः आदिष्टः तृतीयाध्याये | तृतीयः चतुर्थः पञ्चमः च अध्यायाः 'प्रत्ययाध्यायाः' इत्युच्यन्ते | धातुभ्यः यावन्तः प्रत्ययाः विधीयन्ते, ते सर्वे अस्मिन्नेव तृतीयाधाये | प्रातिपदिकेभ्यः यावन्तः प्रत्ययाः विहिताः भवन्ति, ते सर्वे चतुर्थाध्याये पञ्चमाध्याये चेत्यनयोः द्वयोः अध्याययोः | एषु सर्वेषु विधायकसूत्रेषु च प्रत्ययः (३.१.१) इति अधिकारसूत्रम् अनुवर्तते | किन्तु शल इगुपधादनिटः क्सः (३.१.४५) इति सूत्रे प्रत्ययः (३.१.१) इति सूत्रस्य अनुवर्तनं नास्ति | अस्य कारणम् अस्ति यत् क्सः साक्षात् धातुभ्यः न विधीयते; प्रत्ययस्य स्थाने आदिशति | साक्षात् धातुभ्यः न विधीयते इति कारणतः प्रत्ययः (३.१.१) इति अस्मिन् सूत्रे नानुवर्तते | किन्तु एका परिभाषासूत्रम् अस्ति स्थानिवदादेशोऽनल्विधौ (१.१.५६) | अनेन सूत्रेण यस्य स्थाने आदेशः आदिशति, तस्य स्वभावोऽपि तेन स्वीक्रियते | च्लि-प्रत्ययस्य स्थाने क्सः आदिष्टः, अतः च्लि-प्रत्ययस्य स्वभावः स्वीकृतः तेन | इत्थञ्च च्लि लुङि (३.१.४३) इत्यनेन च्लि साक्षात् विधीयते धातुभ्यः, अतः प्रत्ययः (३.१.१) इति सूत्रेण च्लि इत्यस्य प्रत्ययसंज्ञा भवति | च्लि 'प्रत्ययः' अस्ति इति कारणतः क्स अपि प्रत्ययः | लुङि च्लि-स्थाने सिच, क्स, अङ्, चङ्, चिण्, इत्येते सर्वे आदेशाः प्रत्ययस्य स्थाने आदिष्टः, अतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन एषां सर्वेषां प्रत्ययसंज्ञा भवति |
कर्त्रर्थे क्स-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
सत साताम् सन्त
सथाः साथाम् सध्वम्
सि सावहि सामहि
सावहि, सामहि—
अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |
लुङ्-लकारे सर्वदा च्लि-प्रत्ययः विधीयते च्लि लुङि (३.१.४३) इति सूत्रेण; तदा च्लि-स्थाने विभिन्नाः आदेशाः भवन्ति | तेषु अन्यतमः अस्ति क्स इति आदेशः; तस्य च 'स' इति अवशिष्यते | उपरितनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं 'स' दृश्यते |
कर्मणि भावे च चिण् भावकर्मणोः (३.१.६६) इत्यनेन लुङ्-लकारे आत्मनेपदे प्रथमपुरुषैकवचने त-प्रत्यये परे, सर्वेभ्यः धातुभ्यः चिण्-प्रत्यययो भवति |
चिण् भावकर्मणोः (३.१.६६) = भावे कर्मणि च्लि-स्थाने चिण्-आदेशो भवति त-शब्दे परे | चकारणकारयोः इत्-संज्ञा लोपश्च; 'इ' अवशिष्यते | भावश्च कर्म च भावकर्मणी, तयोर्भावकर्मणोः | चिण् प्रथमान्तं, भावकर्मणोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | च्लेः सिच् (३.१.४४) इत्यस्मात् च्लेः इत्यस्य अनुवृत्तिः | चिण् ते पदः (३.१.६०) इत्यस्मात् ते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— च्लेः चिण् ते भावकर्मणोः |
तदा चिणो लुक् (६.४.१०४) इत्यनेन त-शब्दस्य लुक्
चिणो लुक् (६.४.१०४) = चिणः उत्तरस्य (त-शब्दस्य) लुक् भवति | अनेन 'इ' एव अवशिष्यते | चिणः पञ्चम्यन्तं, लुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अङ्गस्य चिणो लुक् |
प्रथमपुरुषैकवचनं विहाय सर्वे तिङ्प्रत्ययाः कर्त्रर्थे यथा भवन्ति, तथैव—
इ (चिण्) साताम् सन्त
सथाः साथाम् सध्वम्
सि सावहि सामहि
क्स कित् अतः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | चिण् न गित्, कित् न वा ङित् अतः तस्मिन् परे गुणनिषेधो नास्ति; तत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणो भवति |
क्रुश्-धातोः रूपाणि—
क्रोशि अक्रुक्षाताम् अक्रुक्षन्त
अक्रुक्षथाः अक्रुक्षाथाम् अक्रुक्षध्वम्
अक्रुक्षि अक्रुक्षावहि अक्रुक्षामहि
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | अनुवृत्ति-सहितसूत्रम्—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
एवमेव दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष् इत्येषां रूपाणि भवन्ति |
मिह्, रुह्, लिह्, दिह्, दुह् एते धातवः हकारान्ताः | एषु मिह्, रुह् इति सामान्यहकारान्तधातवः; दिह्, दुह् इति दकारादिहकारान्तधातवः | दिह्, दुह्, लिह् इत्येषां पुनः पृथक्तया कुत्रचित् क्स-प्रत्ययस्य विकल्पेन लोपो भवति |
मिह्-धातोः रूपाणि—
अमेहि अमिक्षाताम् अमिक्षन्त
अमिक्षथाः अमिक्षाथाम् अमिक्षध्वम्
अमिक्षि अमिक्षावहि अमिक्षामहि
दुह्-धातोः रूपाणि—
अदोहि अधुक्षाताम् अधुक्षन्त
अधुक्षथाः/अदुग्धाः अधुक्षाथाम् अधुक्षध्वम्/अधुग्ध्वम्
अधुक्षि अधुक्षावहि/अदुह्वहि अधुक्षामहि
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रं— हः ढः झलि पदस्य अन्ते च |
षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्ति-सहितसूत्रं— धातोः झषन्तस्य एकाचः बशः भष् स्ध्वोः पदस्य अन्ते च |
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रं— दादेः धातोः हः घः झलि पदस्य अन्ते च |
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | अनुवृत्ति-सहितसूत्रं— झलां जश् झशि संहितायाम् |
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (७.३.७३) = दुह् दिह् लिह् गुह् इत्येभ्यः धातुभ्यः क्स-प्रत्ययस्य लुक् वा भवति दन्त्यादि-आत्मनेपदे प्रत्यये परे | तदादिविधिना दन्त्यादि-आत्मनेपदे | चत्वारः प्रत्ययाः दन्त्यादयः— त, थास्, ध्वम्, वहि च | दुहश्च दिहश्च लिहश्च गुह् च तेषामितरेतरद्वन्द्वः दुहदिहलिहगुहः, तेषां दुहदिहलिहगुहाम् | दन्तेषु भवो दन्त्यः | लुक् प्रथमान्तं, वा अव्ययपदं, दुहदिहलिहगुहां षष्ठ्यन्तं, आत्मनेपदे सप्तम्यन्तं, दन्त्ये सप्तम्यन्तम् अनेकपदमिदं सूत्रम् | क्सस्याचि (७.३.७२) इत्यस्मात् क्सस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— दुहदिहलिहगुहां क्सस्य लुक् वा दन्त्ये अत्मनेपदे |
दिह्-धातोः रूपाणि एवमेव भवन्ति |
लिह्-धातोः रूपाणि पुनः किञ्चित् भिन्नानि | यस्मिन् पक्षे क्स-प्रत्यस्य लुक् भवति, तत्र लिह्-धातोः विशिष्टरूपाणि—
अलेहि अलिक्षाताम् अलिक्षन्त
अलिक्षथाः/अलीढाः अलिक्षाथाम् अलिक्षद्वम्/अलीढ्वम्
अलिक्षि अलिक्षावहि/अलिह्वहि अलिक्षामहि
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | अनुवृत्ति-सहितसूत्रं— झलां जश् झशि संहितायाम् |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
गृहू, बृहू, तृहू, स्तृहू, गुहू इति वेट्-धातवः, इगुपधाः शलन्ताः च | अनिट्-पक्षे एभ्यः क्स-प्रत्ययो भवति | सेट्-पक्षे एभ्यः सिच्-प्रत्ययो भवति | एषु गुह्-धातुः लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (७.३.७३) इति सूत्रे पठितः, अतः तस्य अनिट्-पक्षे दन्त्यादि-प्रत्यये परे क्स-लोपो भवति |
गुह्-धातोः अनिट्-पक्षे रूपाणि—
अगोहि अघुक्षाताम् अघुक्षन्त
अघुक्षथाः/अगूढ़ाः अघुक्षाथाम् अघुक्षध्वम्/अघूढ्वम्
अघुक्षि अघुक्षावहि/अगुह्वहि अघुक्षामहि
गुह्-धातोः सेट्-पक्षे रूपाणि—
अगोहि अगूहिषाताम् अगूहिषत
अगूहिष्ठाः अगूहिषाताम् अगूहिढ्वम्/अगूहिध्वम्
अगूहिषि अगूहिष्वहि अगूहिष्महि
अवशिष्टेभ्यः सर्वेभ्यः धातुभ्यः सिच्-प्रत्ययो भवति | सिच्-प्रत्यये 'स्' इत्येव तिष्ठति |
कर्त्रर्थे अनिट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
स्त साताम् सत
स्थाः साथाम् ध्वम्
सि स्वहि स्महि
कर्त्रर्थे सेट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
इष्ट इषाताम् इषत
इष्ठाः इषाथाम् इढ्वम्
इषि इष्वहि इष्महि
कर्मणि भावे च कर्तृवाचकसिच्प्रत्ययेभ्यः तावान् एव भेदः यत् प्रथमपुरुषैकवचने चिण् भावकर्मणोः (३.१.६६) इत्यनेन चिण्-आदेशः, चिणो लुक् (६.४.१०४) इत्यनेन चिण-उत्तरस्य त-शब्दस्य लुक् |
कर्मणि भावे च प्रथमपुरुषैकवचनं विहाय सर्वे तिङ्प्रत्ययाः कर्त्रर्थे यथा भवन्ति, तथैव—
कर्मणि भावे अनिट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
इ (चिण्) साताम् सत
स्थाः साथाम् ध्वम्
सि स्वहि स्महि
कर्मणि भावे सेट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
इ (चिण्) इषाताम् इषत
इष्ठाः इषाथाम् इढ्वम्
इषि इष्वहि इष्महि
एषां रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत्; प्रत्ययस्य स्वभावम् अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति—
१) चिण्-प्रत्ययः णित् इति कारणतः णित्त्वात् यावत् कार्यं शास्त्रे भवति तत् सर्वम् अत्रापि भवेत् | अस्मिन् पाठे, लृट्, लृङ्, लुट्, आशीर्लिङ इत्येषां प्रसङ्गेऽपि एतादृशमेव चिन्तनं साधितम् आसीत् | अधुना लुङ्-प्रसङ्गेऽपि भवति |
२) अवशिष्टाः १६ प्रत्ययाः णित् न सन्ति | तेषु परेषु, कर्तृवाच्य-आत्मनेपदे या प्रक्रिया भवति, यया च यानि रूपाणि निष्पद्यन्ते, सा एव प्रक्रिया तानि एव रूपाणि कर्मवाच्य-आत्मनेपदे अपि भवन्ति | अतः कर्तरि लुङि एतत् सर्वं पठिष्यते |
३) परन्तु लुङि कर्मवाच्ये अजन्तधातूनां, हन्, ग्रह्, दृश् चेति धातूनाम् एषु षोडशसु प्रत्ययेषु परेषु विशिष्टकार्यं भवति | यतोहि एभ्यः धातुभ्यः एते षोडश प्रत्ययाः यद्यपि मूले णितः न सन्ति, किन्तु अत्र णिद्वद्भावः अध्यारोप्यते | सूत्रम् अस्माकं परिचितमेव—
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) = भावकर्मविषये आर्धथातुकोपदेशे अजन्तधातूनां, हन्, ग्रह्, दृश् च धातूनां विकल्पेन चिण्वत्कार्यं भवति स्य सिच् सीयुट् तासि इत्येषु परेषु; चिण्वत्पक्षे स्यसिच्सीयुट्तासीनाम् इडागमो भवति | 'आर्धथातुकोपदेशे' इत्यनेन आर्धथातुकोपदेशावस्थायाम् अजन्तधातवः | स्य इत्यनेन लृट्, लृङ् च; तास् इत्यनेन लुट्; सिच् इत्यनेन लुङ् | सीयुट् इत्यनेन आशीर्लिङ् न तु विधिलिङ् यतोहि इदं सूत्रम् आर्धधातुके (६.४.४६) इत्यस्य अधिकारे अस्ति | चिण्वत् पक्षे इडागमो भवति सर्वत्र, नाम धातुः अनिट् चेदपि | चिण्वद्भावः इत्युक्तौ चिणि प्रत्यये परे यानि कार्याणि भवन्ति, तानि अत्र अपि भवन्ति | स्यश्च सिच्च सीयुट् च तासिश्च तेषामितरेतरद्वन्द्वः स्यसिच्सीयुट्तासयः, तेषु स्यसिच्सीयुट्तासिषु | भावश्च कर्म च, भावकर्मणी, तयोर्भावकर्मणोः | अच्च, हनश्च, ग्रहश्च दृश् च तेषामितरेतरद्वन्द्वः अज्झनग्रहदृशः, तेषाम् अज्झनग्रहदृशाम् | चिणि इव चिण्वत् | स्यसिच्सीयुट्तासिषु सप्तम्यन्तं, भावकर्मणोः सप्तम्यन्तम्, उपदेशे सप्तम्यन्तम्, अज्झनग्रहदृशां षष्ठ्यन्तं, वा अव्ययपदं, चिण्वत् अव्ययपदम्, इट् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— आर्धथातुकोपदेशे अज्झनग्रहदृशाम् अङ्गानां वा चिण्वत् इट् च स्यसिच्सीयुट्तासिषु भावकर्मणोः |
तर्हि अत्र अजन्तधातूनां कर्मणि लुङि रूपाणि परिशीलनीयानि | धेयं यत् धातुः सेट् चेत्, कर्मणि भावे सेट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः अपेक्षन्ते | धातुः अनिट् चेत्, कर्मणि भावे अनिट् सिच्-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः अपेक्षन्ते |
आकारान्तधातवः
प्रथमपुरुषैकवचने इ-प्रत्ययः चिण् एव, अतः आतो युक् चिण्कृतोः (७.३.३३) इत्यनेन आदन्तानां युगागमः भवति |
आतो युक् चिण्कृतोः (७.३.३३) = आदन्तानां युगागमः स्यात् चिणि ञ्णिति कृति च | चिण् वा ञित्-णित् कृत् प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्-आगमो भवति | चिण् च कृत् च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक् प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य आतः युक् चिण्कृतोः ञ्णिति |
लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = धातुरूपि-अङ्गस्य अट्-आगमो भवति लुङ् लङ् लृङ् इत्येषु परेषु | लुङ्लङ्लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अङ्गस्य अट् उदात्तः लुङ्लङ्लृङ्क्षु |
दा-धातुः अनिट् | रूपाणि परिशीलनीयानि |
दा + लुङ् → लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) → अदा + लुङ् → भावकर्मणोः (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति → प्रथमपुरुषैकवचने → अदा + इ → आतो युक् चिण्कृतोः (७.३.३३) इत्यनेन युगागमः चिणि परे → अदा + युक् + इ → अदायि
स्थाघ्वोरिच्च (१.२.१७) = स्था-धातोः घुसंज्ञकधातूनां च अन्त्य-अलः ह्रस्व-इकारादेशो भवति, सिचः किद्वद्भावो भवति च, आत्मनेपदे परे | स्थाश्च घुश्च तयोरितरेतरद्वन्द्वः स्थाघू, तयोः स्थाघ्वोः | स्थाघ्वोः षष्ठ्यन्तम्, इत् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | हनः सिच् (१.२.१४) इत्यस्मात् सिच् इत्यस्य अनुवृत्तिः | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः | लिङ्सिचावात्मनेपदेषु (१.२.११) इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— स्थाघ्वोः इत् च सिचः कित् आत्मनेपदेषु |
इणः षीध्वंलुङ्लिटां धोऽङ्गात् (८.३.७८) = इणन्ताङ्गोत्तरस्य षीध्वं, लुङ्, लिट् इत्येषां सम्बद्धधकारस्य स्थाने मूर्धन्यादेशो भवति | स्थानेन्तरतमः इत्यनेन मूर्धन्य-ढकारः; तदन्तविधिः इत्यनेन इणः अङ्गात् | सीयुट् + ध्वम् = षीध्वं; आदेशप्रत्यययोः इत्यनेन षत्वम् | इण्कोः (८.३.५७) इत्यस्य अधिकारः, किन्तु इणः उच्यते सूत्रेण नियमनार्थं येन कवर्गीयेभ्यः कर्यं न स्यात् | षीध्वं च लुङ् च लिट् च तेषामितरेतरद्वन्द्वः षीध्वंलुङ्लिटः, तेषां षीध्वंलुङ्लिटाम् | इणः पञ्चम्यन्तं, षीध्वंलुङ्लिटां षष्ठ्यन्तं, धः प्रथमान्तम्, अङ्गात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इणः अङ्गात् षीध्वंलुङ्लिटां धः मूर्धन्यः अपदान्तस्य संहितायाम् |
विभाषेटः (८.३.७९) = इणः परो यः इट् ततः परेषां षीध्वं, लुङ्, लिट् इत्येषां सम्बद्धधकारस्य स्थाने मूर्धन्यादेशो विकल्पेन भवति | विभाषा प्रथमान्तम्, इटः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | इणः षीध्वंलुङ्लिटां धोऽङ्गात् (८.३.७८) इत्यस्मात् इणः, षीध्वंलुङ्लिटां, धः इत्येषाम् अनुवृत्तिः | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इणः इटः षीध्वंलुङ्लिटां धः मूर्धन्यः अपदान्तस्य विभाषा संहितायाम् |
ह्रस्वादङ्गात् (८.२.२७) = ह्रस्वान्तात् अङ्गात् सिचः लोपो भवति झलि परे | ह्रस्वात् पञ्चम्यन्तम्, अङ्गात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | तदन्तविधिः इत्यनेन ह्रस्वात् अङ्गात् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अन्वृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ह्रस्वात् अङ्गात् सस्य लोपः झलि |
ह्रस्वादङ्गात् (८.२.२७) इति सूत्रे रात्सस्य (८.२.२४) इत्यस्मात् 'सस्य' इत्यनेन सर्वेषां सकाराणां ग्रहणं स्यात् | तर्हि व्याख्याने कथं 'सिचः' एव लोपः उक्तः ? इति चेत्, झलो झलि (८.२.२६) इति पूर्वसूत्रे सिचः एव सकारलोपः इति सर्वेषाम् अङ्गीकारः | ततः अग्रे ह्रस्वादङ्गात् (८.२.२७) इत्यपि तथा | द्वयोः पूर्वसूत्रे धि च (८.२.२५) इत्यस्मिन् प्राचीनकाले मतभेदः | अस्मिन् विषये सिद्धान्तकौमुद्याः टीकाकारः बालरमोरमा लिखति—
"हेर्धिभावे चकास् धि इति स्थिते 'धि चे'ति सलोप इति सिद्धान्तः | तत्र मतान्तरमाह—सिच एवेत्येके इति | 'धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः | 'धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः | अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः | तदाह— चकाद्धीति | 'एके' इत्यस्वरसोद्भावनम् | तद्बीजं तु 'धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः | तदाह– चकाधीत्येव भाष्यमिति |"
अत्र 'इत्यस्वरसोद्भावनम्' इत्युक्ते 'इति अस्वरस्य उद्भावनम्' | स्वरं नाम औचित्यम्; अस्वरम् इयुक्तौ अनौचित्यम् | तर्हि 'अस्वरस्य उद्भावनम्' इत्यनेन अनुचितभावना, नाम 'दोषाय' इत्याशयः | “'एके' इत्यस्वरसोद्भावनम्” इत्यस्मात् आरभ्य भाष्यकारस्य मतम् | अभ्युपगमः नाम अङ्गीकारः |
अत्र इमे दृष्टान्ताः अवलोकनीयाः—
चकास् + धि → धि च (८.२.२५) इत्यनेन सकारस्य लोपः → चका + धि → वर्णमेलने → चकाधि
आस् + ध्वे → धि च (८.२.२५) → आ + ध्वे → आध्वे
आशास् + ध्वे → धि च (८.२.२५) → आशा + ध्वे → आशाध्वे
वस् + ध्वे → धि च (८.२.२५) → व + ध्वे → वध्वे
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
एषु उदाहरणेषु प्राचीनमतभेदः | कात्यायनः इति वार्तिककारः उक्तवान् यत् धि च (८.२.२५) इत्यनेन सिचः एव सकारलोपः न तु सर्वेषां सकाराणाम् | तदर्थम् अदादेः चकासृ दीप्तौ इति लोटि 'चकास् + धि' (हुझल्भ्यो हेर्धिः (६.४.१०१)) इति स्थितौ सकारस्य लोपो न जायते, फलतः झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वात् सकारस्य दकारः, चकाद्धि इति रूपम् | एवमेव आद्ध्वे, आशाद्ध्वे, वद्ध्वे इति | अत्र भाष्यकारो वदति यत् रूपं चकाधि न तु चकाद्धि इति मन्तव्यं, तदर्थं धि च (८.२.२५) इत्यनेन सामान्यसकारस्य लोपः | तत्र च पयस् + धावति → धि च (८.२.२५) इत्यनेन सकारस्य लोपः अभूत्वा → रुत्वविसर्गौ → पयो धावति इति रूपम् अपेक्षितम् | अनेन 'समानपदे' इति अर्थः अपि संयोजितः | भाष्यकारस्य च मतभेदेषु सर्वाधिकारः इति आधुनिकवैयाकरणानां मतम् | आहत्य समानपदे सामान्यसकारलोपो भवति धकारे परे इति सूत्रस्य फलितार्थः | तदर्थं व्याख्याने दीयते 'सकारस्य लोपो भवति धकारादिप्रत्यये परे'— अत्र 'धकारादिप्रत्यये परे' इत्यस्य कथनेन समानपदे इति अर्थः साधितः | अतः धि च (८.२.२५) इत्यनेन सकारसामान्यं समानपदे, झलो झलि (८.२.२६) ह्रस्वादङ्गात् (८.२.२७) इत्याभ्यां सिचः एव सकारलोपः |
इकारान्ताः ईकारान्ताः च धातवः
चिञ्-धातुः अनिट् | रूपाणि परिशीलनीयानि |
अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
उकारान्ताः ऊकारान्ताः च धातवः
लू-धातुः सेट् | रूपाणि परिशीलनीयानि |
कुटादयः इति अन्तर्गणः
तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति | अस्मिन् अन्तर्गणे कुट इत्यस्मात् आरभ्य कुङ् इत्यन्तं, ३५ धातवः सन्ति | एषु आधिक्येन हलन्ताः उदुपधधातवः सन्ति, किन्तु पञ्च अजन्तधातवः अपि सन्ति— कु, गु, ध्रु, णू, धू |
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = गाङ्-आदेशात् कुटादिधातुभ्यः च ञित्-णित्-भिन्नप्रत्ययः ङिद्वत् भवति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः गाङ्कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् द्वन्द्वगर्भो बहुव्रीहिः; न ञ्णित् अञ्णित्, नञ्तत्पुरुषः | सूत्रं स्वयं सम्पूर्णं— गाङ्कुटादिभ्यः अञ्णित् ङित् |
कु, गु, ध्रु इति धातवः अनिटः | एषां रूपाणि समानानि | कु-धातोः रूपाणि परिशीलनीयानि |
ऊकारान्तधातवः सर्वे सेटः | णू, धू इत्यनयोः णू-धातोः रूपाणि परिशीलनीयानि |
णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्, णकारस्य स्थाने नकारादेशः भवति | णोः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६४) इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धात्वादेः णोः नः उपदेशे |
ऋकारान्तधातवः
डुकृञ् करणे इति कृ-धातुः अनिट्; तस्य रूपाणि परिशीलनीयानि |
उश्च (१.२.१२) = ऋवर्णान्तधातुतः झलादि-लिङ्-सिच् किद्वत् भवतः आत्मनेपदेषु प्रत्ययेषु | झलौ लिङ्सिचौ इत्यस्मिन् तदादिविधिः; उः धातोः इत्यस्मिन् तदन्तविधिः | उः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको झल् (१.२.९) इत्यस्मात् वचनपरिणामं कृत्वा झलौ इत्यस्य अनुवृत्तिः | लिङ्सिचावात्मनेपदेषु (१.२.११) इत्यस्मात् लिङ्सिचौ, आत्मनेपदेषु इत्यनयोः अनुवृत्तिः | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् वचनपरिणामं कृत्वा कितौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः धातोः झलौ लिङ्सिचौ कितौ आत्मनेपदेषु |
चिण्वद्भावपक्षे चिण्वद्भावः विद्यते, नाम सर्वेषु प्रत्ययेषु णिद्वत्त्वम् अस्ति | एकस्मिन् प्रसङ्गे एक एव अतिदेशः सम्भवति इति कृत्वा णित्त्वं विद्यते चेत् कित्त्वं न सम्भवति | स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) विशिष्टसूत्रं; स्यसिच्सीयुट्तासिषु एव भवति | अतः चिण्वद्भावपक्षे उश्च (१.२.१२) इत्यस्य कित्त्वं प्रबाध्य णित्त्वम् एव प्रवर्तते |
ॠकारान्तधातवः
तॄ-धातुः सेट् | रूपाणि परिशीलनीयानि |
अदुपधधातवः
अत्र चिण्वद्भावो न भवति इति स्मर्यताम् |
पठ्-धातुः सेट् | रूपाणि परिशीलनीयानि |
पच्-धातुः अनिट् | रूपाणि परिशीलनीयानि |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चोः कुः झलि पदस्य अन्ते च |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां जश् झशि संहितायाम् |
झलो झलि (८.२.२६) = झलुत्तरस्य सकारस्य लोपो भवति झलि परे | झलः पञ्चम्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— झलः सस्य लोपः झलि |
हन्-धातुः, ग्रह्-धातुः
अनयोः धात्वोः विकल्पेन चिण्वद्भावो भवति इति स्मर्यताम् | हन्-धातुः अनिट्; ग्रह्-धातुः सेट् | द्वयोः रूपाणि परिशीलनीयानि |
हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ् च ण् च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे हन् धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात् कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे |
हनः सिच् (१.२.१४) = हन्-धातोः परः सिच् कित् भवति | हन्-धातुः परस्मैपदी; परस्मैपदप्रसङ्गे च हन्-धातोः नित्यं वध-आदेशो भवति सिचि परे, तदर्थं तत्र अस्य सूत्रस्य प्रसक्तिरेव नास्ति | फलितार्थः एवं यत् आत्मनेपदप्रसङ्गे एव सूत्रं प्रसक्तम् | आत्मनेपदे इति कुत्र ? कर्मणि, आङ्-उपसर्गपूर्वककर्तरि च | कर्मणि चिण्वद्भावपक्षे णिद्वत्त्वम् अस्ति इति कारणतः कित्त्वातिदेशो न सम्भवति | अतः सूत्रस्य फिलितार्थः एवं— हन्-धातुतः आत्मनेपदी अनिट्-सिच्-प्रत्ययः नित्यं किद्वत् भवति | अनिट् यतोहि चिण्वद्भावपक्षे यत्र इडागमो भवति तत्र णिद्वत्त्वात् कित्त्वासम्भवः | संयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः | लिङ्सिचावात्मनेपदेषु (१.२.११) इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः उत्तरसूत्राणां कृते | अनुवृत्ति-सहितसूत्रं— हनः सिच् कित् आत्मनेपदेषु |
आङोयमहनः (१.३.२८) = आङ्-उपसर्गपूर्वकयम्हन्भ्याम् अकर्मकार्थे आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते | अकर्मकात् इति अनुवर्तते | यम उपरमे भ्वादौ, हन हिंसागत्योः अदादौ इति उभौ परस्मैपदिनौ | ताभ्याम् अकर्मकक्रियावचनाभ्याम् आङ्-पूर्वाभ्याम् आत्मनेपदं भवति |
चिण्वदपक्षे मध्यमपुरुषस्यैकवचने
अहन् + स्थाः → सकारलोपो भवति वा ? लुप्तनकारस्य स्थानिवद्भावेन लक्षणं भवति वा ?
अहन् + स्थाः → हनः सिच् (१.२.१४), अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) → अह + स्थाः → ह्रस्वादङ्गात् (८.२.२७) → अहथाः |
अत्र प्रश्नः जायते यत् नकारस्य स्थाने यः लोपादेशः विधीयते अनुदात्तोपदेश... (६.४.३७) इति सूत्रेण, स च लोपः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवत् भवति न वा ? जानीमः यत् स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
१) आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्, अपि च स च विधिः स्थानि-सम्बद्ध-अल्-वर्णम् आश्रित्य प्रवर्तनीयः इति चेत्, आदेशः स्थानिवत् न भवति |
सामान्यतया आदेशः स्थानिवत् भवति | स्थानिवद्भावः कुत्र न भवति इत्यस्य परिशीलनार्थं, त्रयः कालाः कल्पनीयाः |
- प्रथमकाले स्थानी अस्ति |
- द्वितीयकाले आदेशः अस्ति |
- तृतीयकाले कश्चन विधिः अस्ति |
अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अपेक्षितम् | प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते; अनेन स्थानी यः आसीत्, तस्य च स्थाने अधुना आदेशः आगतः | तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते; इदं नूतनकार्यं तृतीयकाले भवति | अत्र तृतीयकालः विशेषतः अवलोकनीयः | अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि, तेषु यदि एकमपि कश्चन 'वर्णः' (‘अल्’) अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति— यतोहि स च अल्-वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भावति | एतत् वदामः 'अल्-विधिः' | अतः सूत्रम् अस्ति स्थानिवदादेशः अनल्विधौ (१.१.५६) | आदेशः स्थानिवत् भवति; किन्तु तादृशः अल्-विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति |
प्रकृतस्थले प्रथमकाले स्थानी अस्ति नकारः; द्वितीयकाले तस्य नकारस्य स्थाने अनुदात्तोपदेश... (६.४.३७) इति सूत्रेण लोपः आदिष्टः | तृतीयकाले ह्रस्वादङ्गात् (८.२.२७) इति सूत्रेण सिचः सकारलोपो जायते न वा इति द्रष्टव्यम् | एतदर्थम् अत्र स्थानिवद्भावो भवति न वा इति ज्ञेयम् | प्रथमतया परिशीलनीयं यत् अल्विधिः अस्ति न वा | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रस्य सामान्यबोधेन अल्विधिः नास्ति चेत्, स्थानिवद्भावः स्यात् | स्थानी अस्ति नकारः; स च नकारः ह्रस्वादङ्गात् (८.२.२७) इत्यस्य कार्यं प्रति निमित्तम् अस्ति किम् ? ह्रस्वादङ्गात् (८.२.२७) इत्यनेन ह्रस्वान्तात् अङ्गात् सिचः लोपो भवति झलि परे | 'अह + स्थाः' इत्यत्र लोपादेशे नकारत्वम् अध्यरोप्यते चेत् फलेन यत् 'अहन्' जायते तत् अङ्गं ह्रस्वान्तम् अस्ति वा ? न हि, अतः ह्रस्वादङ्गात् (८.२.२७) इति सूत्रं प्रति अल्विधिः नास्ति | अल्विध्यभावे 'अनल्विधौ' इत्यस्य पूर्तिः सिद्धा, तस्मात् स्थानिवद्भावः स्यात् |
स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत् भवति; (२) परन्तु अल्विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति—नाम स्थानिवद्भावनिषेधः | अतः अल्विधिः नास्ति चेत्—अनल्विधिः अस्ति चेत्—आदेशः स्थानिवद्भवेत् | परन्तु इदमपि ज्ञेयं यत् तत्रैव स्थनिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् | नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात् | निषेधरूपं यत् कार्यं, तत् अभावरूपकार्यं, तच्च अशास्त्रीयं कार्यम् इति उच्यते | अत्र 'अशास्त्रीयम्' उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव | 'शास्त्रस्य अप्रवृत्तिः' इति अशास्त्रीयं, न तु शास्त्रविरुद्धत्वम् |
प्रकृतौ अह + स्थाः इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिध्यति, सिचः लोपो न भविष्यति | सकारलोपविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति | अतः इदम् अशास्त्रीयकार्यम् | अशास्त्रीयकार्यकरणसमये स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः न भवति इति नियमः | तस्मात् ह्रस्वादङ्गात् (८.२.२७) इत्यस्य प्राप्तिः, अनेन सकारलोपो जायते |
स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति अतिदेशसूत्रम् | आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बद्धस्य अल्-वर्णस्य आश्रयं कृत्वा अग्रे कोऽपि विधिः (कार्यम्) अस्ति चेत्, तुल्यं न भवति | स्थानी अष्टप्रकारकः— धातुः, अङ्गं, कृत्, तद्धितः, अव्ययं, सुप्, तिङ्, पदं च | एषाम् अष्टानां स्थाने कोऽपि आदेशो भवति चेत्, सः आदेशः तद्वत् भवति | अतः धात्वादेशो भवति चेत्, नाम धातोः अथवा धातोः भागस्य स्थाने आदेशो भवति चेत्, नूतनरूपस्यापि धातु-संज्ञा भवति | एवमेव अङ्गस्य अथवा तद्भागस्य स्थाने आदेशो भवति चेत्, तदानीम् अङ्गसंज्ञा तिष्ठति | कृत्, तद्धितः इत्यग्रेऽपि तथैव | किन्तु अनल्विधौ | न अल्विधिः अनल्विधिः नञ्तत्पुरुषः, तस्मिन् अनल्विधौ | अल्विधिः अपि स्वयं तत्पुरुषः; तस्य च चतुर्विधविग्रहवाक्यम् | १) अला विधिः, तृतीयातत्पुरुषः— यानि कार्याणि भवन्ति स्थानिनः अल्-वर्णस्य कारणतः, नाम तं अल्-वर्णं निमित्तीकृत्य | २) अलः (परस्य) विधिः, पञ्चमीतत्पुरुषः— यानि कार्याणि भवन्ति स्थानिनः अल्-वर्णस्य अनन्तरम् | ३) अलः (स्थाने) विधिः, षष्ठीतत्पुरुषः— यानि कार्याणि भवन्ति स्थानिनः अल्-वर्णस्य स्थाने | ४) अलि (परे) विधिः, सप्तमीतत्पुरुषः— यानि कार्याणि भवन्ति स्थानिनः अल्-वर्णात् पूर्वम् | एषु चतुर्षु अन्यतमस्थितिर्भवति चेत्, आदेशः स्थानिवत् न भवति | स्तानिवत् अव्यवपदम्, आदेशः प्रथमान्तम्, अनल्विधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— आदेशः स्थानिवत् अनल्विधौ |
हन्-धातोः वध-आदेशः
हनो वध लिङि (२.४.४२) = हन्-धातोः वध-आदेशो भवति आर्धधातुके लिङि | आशीर्लिङि इति विवक्षा | हनः षष्ठ्यन्तं, वध लुप्तप्रथमाकं पदं, लिङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हनः वधः लिङि आर्धधातुके |
लुङि च (२.४.४३) = हन्-धातोः वध-आदेशो भवति आर्धधातुके लुङि | लुङि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | हनो वध लिङि (२.४.४२) इत्यस्मात् हनो, वध इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— हनः वधः लुङि |
आत्मनेपदेष्वन्यतरस्याम् (२.४.४४) = हन्-धातोः वध-आदेशो भवति आत्मनेपदेषु अन्यतरस्याम् | आत्मनेपदेषु सप्तम्यन्तम्, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, द्विपदमिदं सूत्रम् | हनो वध लिङि (२.४.४२) इत्यस्मात् हनो, वध इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— हनः वधः आत्मनेपदेषु अन्यतरस्याम् |
वध-धातुः अदन्तः सेट् च |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
पर्जन्यवल्लक्षणप्रवृत्तिः | कृतकारि खल्वपि शास्त्रं पर्जन्यवत् इति महाभाष्यवाक्यम् | वृष्टिः सर्वत्र एकरीत्या एव भवति | जलम् अधिकम् अल्पं वा स्यात् वृष्टिर्भवति चेत् समानैव भवति | एवं सर्वत्र समानरुपेण यस्य अन्वयो भवति तस्य विषये अयं न्यायः प्रवर्तते |
ग्रह्-धातुः
ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच् ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | केवलम् आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन विहितस्य इडागमस्य दैर्घ्यम् इति महाभाष्ये | ग्रहः पञ्चम्यन्तम्, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिटि |
विभाषेटः (८.३.७९) इत्यनेन ईटः ग्रहणम्
अग्रह् + इध्वम् → ग्रहोऽलिटि दीर्घः (७.२.३७) → अग्रह् + ईध्वम् → विभाषेटः (८.३.७९) इत्यनेन ईकारस्य ग्रहणं भवति → अग्रहीध्वम्/अग्रहीढ्वम् इति रूपद्वयम् |
ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच् ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि |
१)
विभाषेटः (८.३.७९) = इणः परो यः इट् ततः परेषां षीध्वं, लुङ्, लिट् इत्येषां सम्बद्धधकारस्य स्थाने मूर्धन्यादेशो विकल्पेन भवति |
अदुपध-मकारान्तधातवः
एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सूत्रेण यः धातुः अनुदात्तः अस्ति, सः अनिट् | निष्कर्षः एवं यत् एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः |
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् |
१. स्वरः इत्-संज्ञकः चेत्, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते |
२. स्वरः इत्-संज्ञकः नास्ति चेत्, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः इड्व्यवस्था ज्ञायते |
धातुषु अचः अधस्तात् या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन् धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात् या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष् पाके इत्यस्मिन् धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति | उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत्, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |
नोदात्तोपदेशस्य मान्तस्यानाचमेः (७.३.३४) = उपदेशावस्थायाम् उदात्तमकारान्तधातोः उपधायाः वृद्धिः न भवति चिणि ञित्-णित्-कृत्-प्रत्यये परे च, आ-पूर्वक-चम्-धातुं वर्जयित्वा | उदात्त उपदेशो यस्य स उदात्तोपदेशः, बहुव्रीहिः | मोऽन्ते यस्य स मान्तः बहुव्रीहिः, तस्य मान्तस्य | न आचमिः अनाचमिः, तस्य अनाचमेः | न अव्ययम्, उदात्तोपदेशस्य षष्ठ्यन्तं, मान्तस्य षष्ठ्यन्तम्, अनाचमेः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | अत उपधायाः (७.२.११६) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | आतो युक् चिण्कृतोः (७.३.३३) इत्यस्मात् चिण्कृतोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उदात्तोपदेशस्य मान्तस्य अङ्गस्य उपधायाः वृद्धिः न ञ्णिति चिण्कृतोः अनाचमेः |
अनाचमि-कमि-वमीनामिति वक्तव्यम् (वार्तिकं ४५१८) = नोदात्तोपदेशस्य मान्तस्यानाचमेः (७.३.३४) इति सूत्रे 'अनाचमिकमिवमीनाम्' इति वक्तव्यम् आसीत् न तु केवलम् 'अनाचमेः' | अनेन आचम्, कम्, वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपधायाः वृद्धिनिषेधः चिणि ञित्-णित्-कृत्-प्रत्यये परे |
चत्वारः अनुदात्ताः मकारान्तधातवः सन्ति— गम्, रम्, नम्, यम्; अनुदात्तत्वात् ते च अनिटः | अनुदात्तत्वाच्च तेषां नोदात्तोपदेशस्य मान्तस्यानाचमेः (७.३.३४) इति सूत्रेण उपधावृद्धिनिषेधो न भवति | तदा अनाचमि-कमि-वमीनामिति वक्तव्यम् (वार्तिकं ४५१८) इति वार्तिकेन आचम्, कम्, वम् इति त्रयः धातवः यद्यपि सेटः, तथापि तेषाम् उपधावृद्धिनिषेधो न भवति | अवशिष्टाः सर्वे मकारान्ताः सेटः धातवः ये, तेषाम् उपधावृद्धिनिषेधो भवति |
१) गम्, रम्, नम्, यम् | गम्-धातोः रूपाणि परिशीलनीयानि |
२) आचम्, कम्, वम् | आचम्-धातोः रूपाणि परिशीलनीयानि |
३) अवशिष्टाः सर्वे मकारान्तधातवः सेटः | यथा शम्, दम्, तम् | शम्-धातोः रूपाणि परिशीलनीयानि |
जन्, वध्-धातू
जनिवध्योश्च (७.३.३५) = जन्-धातोः वध्-धातोः च उपधावृद्धिर्न भवति चिणि परे, कृत्संज्ञके ञिति णिति च परे | जनिश्च वधिश्च तयोरितरेतरद्वन्द्वः जनिवधी, तयोः जनिवध्योः | जनिवध्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अत उपधायाः (७.२.११६) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | नोदात्तोपदेशस्य मान्तस्यानाचमेः (७.३.३४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | आतो युक् चिण्कृतोः (७.३.३३) इत्यस्मात् चिण्कृतोः इत्यस्य अनुवृत्तिः | अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जनिवध्योः अङ्गस्य उपधायाः वृद्धिः न चिण्कृतोः ञ्णिति |
जनी-धातुः (दिवादौ, सेट्), वधि-धातोः (सेट्) च रूपाणि परिशीलनीयानि |
रध्, जभ्-धातू
रधिजभोरचि (७.१.६१) = रध्-धातोः जभ्-धातोः च नुमागमो भवति अजादौ प्रत्यये परे | इमौ द्वौ धातू इदितौ न स्तः, अतः इदितो नुम् धातोः (७.१.५८) इत्यनेन नुमागमो न भवति स्म; तदर्थंम् अस्य सूत्रस्य आवश्यकता | रधिश्च जभ् च तयोरितरेतरद्वन्द्वः रधिजभौ तयोः रधिजभोः | रधिजभोः षष्ठ्यन्तम्, अचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम्, धातोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रधिजभोः धातोः अङ्गस्य नुम् अचि |
नेट्यलिटि रधेः (७.१.६२) = रध्-धातोः नुमागमो न भवति इडागमे परे, लिट्-लकारं वर्जयित्वा | लिड्वर्जे इटि रधेर्नुं न स्यात् | नाव्ययं, इटि सप्तम्यन्तम्, अलिटि सप्तम्यन्तं, रधेः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— रधेः नुम् न इटि अलिटि |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
झलो झलि (८.२.२६) = झलुत्तरस्य सकारस्य लोपो भवति झलि परे | झलः पञ्चम्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— झलः सस्य लोपः झलि |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
अरध् + स्थाः →
रध-धातोः (दिवादौ, वेट्), जभ्-धातोः (चुरादौ, सेट्) च रूपाणि परिशीलनीयानि |
रभ्-धातुः
रभेरशब्लिटोः (७.१.६३) = रभ्-धातोः नुमागमो भवति अजादौ प्रत्यये परे, किन्तु शपि लिटि च न भवति | शप् च लिट् च शब्लिटौ, न शब्लिटौ अशब्लिटौ द्वन्द्वग्रभो नञ्तत्पुरुष, तयोः अशब्लिटोः | रभेः षष्ठ्यम्तंम्, अशब्लिटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम्, धातोः इत्यनयोः अनुवृत्तिः | रधिजभोरचि (७.१.६१) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रभेः धातोः अङ्गस्य नुम् अचि अशब्लिटोः |
रभ्-धातोः (भ्वादौ, अनिट्) रूपाणि परिशीलनीयानि |
लभ्-धातुः
विभाषा चिण्णमुलोः (७.१.६९) = लभ्-धातोः विकल्पेन नुमागमो भवति चिणि णमुलि च | चीण् च णमुल् च तयोः इतरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | विभाषा प्रथमान्तं, चिण्णमुलौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | लभेश्च (७.१.६४) इत्यस्मात् लभेः इत्यस्य अनुवृत्तिः | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— लभेः अङ्गस्य नुम् विभाषा चिण्णमुलोः |
डुलभष्-धातोः (भ्वादौ, अनिट्) रूपाणि परिशीलनीयानि |
णिजन्ताः मित्-धातवः
मितां ह्रस्वः (६.४.९२) = मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे | मित् कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम् | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ |
भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; घटादयो मितः इति गणसूत्रेण एते धातवः मित् सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति— ज्ञप, यम, चह, रह, बल, चिञ् |
हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः (प्रयोजकः) क्रियायाः हेतुः; तस्मिन् (प्रयोजके) हेतुः अस्ति अतः सः हेतुमान् | अस्यां स्थितौ (नाम यस्यां स्थितौ हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति)—अस्यां स्थितौ धातोः णिच्-प्रत्ययः विधीयते | अनुवृत्ति-सहितसूत्रं— हेतुमति च धातोः णिच् प्रत्ययः परश्च |
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) = भावकर्मविषये आर्धथातुकोपदेशे अजन्तधातूनां, हन्, ग्रह्, दृश् च धातूनां विकल्पेन चिण्वत्कार्यं भवति स्य सिच् सीयुट् तासि इत्येषु परेषु; चिण्वत्पक्षे स्यसिच्सीयुट्तासीनाम् इडागमो भवति | 'आर्धथातुकोपदेशे' इत्यनेन आर्धथातुकोपदेशावस्थायाम् अजन्तधातवः | अनुवृत्ति-सहितसूत्रम्— आर्धथातुकोपदेशे अज्झनग्रहदृशाम् अङ्गानां वा चिण्वत् इट् च स्यसिच्सीयुट्तासिषु भावकर्मणोः |
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— णेः लोपः अनिटि आर्धधातुके |
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम् अङ्गानाम् उपधादीर्घो भवति अन्यतरस्याम् | चिण् च णमुल् च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम् | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | मितां ह्रस्वः (६.४.९२) इत्यस्मात् मिताम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— मिताम् अङ्गानाम् उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— प्रत्ययलोपे प्रत्ययलक्षणम् |
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
१) आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्, अपि च स च विधिः स्थानि-सम्बद्ध-अल्-वर्णम् आश्रित्य प्रवर्तनीयः इति चेत्, आदेशः स्थानिवत् न भवति |
शमु-धातोः (दिवादौ, सेट्) रूपाणि परिशीलनीयानि | जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति गणसूत्रेण मिद्वद्भावात् शम्-धातुः मित्संज्ञकः |
शम् + णिच् → अत उपधायाः (७.२.११६) → शाम् + इ → मितां ह्रस्वः (६.४.९२) → शम् + इ -> शमि इति धातुः
शमि → लुङि अडागमः → अशमि → कर्मणि चिण् → अशमि + इ → णेरनिटि (६.४.५१) → अशम् + इ → अत उपधायाः (७.२.११६) → स्थानिवदादेशोऽनल्विधौ (१.१.५६) → अशास्त्रीयम् → अचः परस्मिन् पूर्वविधौ (१.१.५७) → अशम् + इ → स्थानिवदादेशोऽनल्विधौ (१.१.५६) → अल्विधिः → अचः परस्मिन् पूर्वविधौ (१.१.५७) → चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) → अशमि / अशामि
णेरनिटि (६.४.५१), चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्यनयोः युगपत् प्रसक्तिः | मार्गद्वयेण द्वयोः मध्ये णेरनिटि (६.४.५१) इति सूत्रस्य कार्यं प्रथमं— (१) नित्यत्वात्; (२) ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन |
ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्-लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति | अनेन वार्तिकेन णेरनिटि प्रथमं कार्यं करोति।
वैकल्पिकदीर्घत्वार्थं णिचः उपस्थितेः साधनार्थं तिस्रः सम्भावनाः— (१) अचः परस्मिन् पूर्वविधौ (१.१.५७), (२) प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२), (३) असिद्धवदत्राभात् (६.४.२२) |
अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य कार्यं नास्ति अशमि + इ इति स्थितौ यतोहि तत्र एकं सूत्रम् अस्ति न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) | न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रं वदति यत्र दीर्घत्वं विधीयते तत्र अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः न भवति इति | अनेन, अन्ततो गत्वा प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन सिध्यति |
परन्तु भाष्यकारस्य मतेन णाविति जातिपरो निर्देशः | दीर्घग्रहणं चेदं मास्त्विति तदाशयः। फलितार्थः अस्ति यत् भाष्यकारः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रे 'दीर्घ'-शब्दस्य प्रत्याख्यानं करोति | नाम तस्मिन् सूत्रे दीर्घ-शब्दः न भवेत् एव | इति चेत्, अचः परस्मिन् पूर्वविधौ (१.१.५७) कार्यं करिष्यति अत्र |
(चुरादिगणीयधातुषु यत्र णिच्-प्रत्ययद्वयं वर्तते, तत्र स्वार्थे णिच्-प्रत्ययः चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इति सूत्रस्य कृते व्यवधानम् अस्ति | तस्य च व्यवधानस्य निवारणार्थं दीर्घविधौ चिण्परकः, ण्मुलपरकः णि इत्यत्र णि इत्यस्य जातिपरकः इत्यर्थः | नाम चिण्णमुलपरक-णित्व-जातिः परः अस्ति चेत् | अनेन एकसमात् अधिकवारं णिच् अस्ति चेदपि णिच्-जातिः एकः एव इति कृत्वा व्यवधानं नास्ति | अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावेन चिण्णमुलोदीर्घोन्यतरस्याम् इति सूत्रेण दीर्घत्वं विदधाति |)
इदुपधधातवः
रिच्-धातोः (रिचिर् रुधादौ, अनिट्), लिख्-धातोः (लिख तुदादौ, सेट्) च रूपाणि परिशीलनीयानि |
लिङ्सिचावात्मनेपदेषु (१.२.११) = इगुपधधातुभ्यः झलादि लिङ् सिच् च कित् भवतः आत्मनेपदेषु प्रत्ययेषु परेषु | तदादिविधिः इत्यनेन 'झल् लिङ्सिचौ' इत्युक्ते झलादि-लिङ्सिचौ | 'इकः हलन्तात्' इत्यस्मिन् इकः षष्ठ्यन्तम्, इक्-सम्बद्ध-हल् तदन्तात् इत्यर्थः | लिङ् च सिच् च तयोरितरेतरद्वन्द्वः लिङ्सिचौ | लिङ्सिचौ प्रथमान्तम्, आत्मनेपदेषु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इको झल् (१.२.९) इत्यस्य सम्पूर्णतया अनुवृत्तिः | हलन्ताच्च (१.२.१०) इत्यस्मात् हलन्तात् इत्यस्य अनुवृत्तिः | संयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— इकः हलन्तात् झल् लिङ्सिचौ कितौ आत्मनेपदेषु |
उदुपधधातवः
तुद्-धातोः (तुद तुदादौ, अनिट्), मुद्-धातोः (मुद भ्वादौ, सेट्) च रूपाणि परिशीलनीयानि |
कुटादयः इति अन्तर्गणः
तुदादिगणे कुटादयः इति अन्तर्गणः अस्ति | अस्मिन् अन्तर्गणे कुट इत्यस्मात् आरभ्य कुङ् इत्यन्तं, ३५ धातवः सन्ति | एषु आधिक्येन हलन्ताः उदुपधधातवः सन्ति (पञ्च अजन्तधातवः अपि सन्ति— कु, गु, ध्रु, णू, धू इति) |
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = गाङ्-आदेशात् कुटादिधातुभ्यः च ञित्-णित्-भिन्नप्रत्ययः ङिद्वत् भवति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः गाङ्कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् द्वन्द्वगर्भो बहुव्रीहिः; न ञ्णित् अञ्णित्, नञ्तत्पुरुषः | सूत्रं स्वयं सम्पूर्णं— गाङ्कुटादिभ्यः अञ्णित् ङित् |
कुटादिहलन्तधातवः सर्वे सेटः—
कुट्, पुट्, कुच्, गुज्, गुड्, छुर्, स्फुट्, मुट्, त्रुट्, तुट्, चुट्, छुट्, जुट्, लुठ्, कृड्, कुड्, पुड्, घुट्, तुड्, थुड्, स्थुड्, स्फुर्, स्फुल्, स्फुड्, चुड्, व्रुड्, क्रुड्, मृड्, गुर्
कुट्-धातोः रूपाणि परिशीलनीयानि |
ऋदुपधधातवः
वृष्-धातोः (वृषु भ्वादौ, सेट्) रूपाणि परिशीलनीयानि |
विशेषः— दृश्-धातोः (दृशिर् भ्वादौ, अनिट्) विकल्पेन चिण्वद्भावो भवति | रूपाणि परिशीलनीयानि |
कुटादि-कृड्-धातुः | अयं सेट् (कुटादिहलन्तधातवः सर्वे सेटः) | रूपाणि परिशीलनीयानि |
भञ्ज्-धातुः
भञ्जेश्च चिणि (६.४.३३) = भञ्ज्-धातोः विकल्पेन नकारलोपो भवति चिणि परे | भञ्जेः षष्ठ्यन्तं, च अव्ययपदं, चिणि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | जान्तनशां विभाषा (६.४.३२) इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः | श्नान्नलोपः (६.४.२३) इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भञ्जेः च अङ्गस्य नलोपः चिणि विभाषा |
भञ्जो-धातोः (रुधादौ, अनिट्) रूपाणि परिशीलनीयानि |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चोः कुः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
चुरादिगणीयधातवः णिजन्तधातवः च
चुर-धातोः (चुरादौ, सेट्) रूपाणि परिशीलनीयानि |
सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | अनुवृत्ति-सहितसूत्रं— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च |
सनाद्यन्ता धातवः (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः (अङ्गम्) क्वचित् धातुः, क्वचित् प्रातिपदिकम् | सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— सनाद्यन्ता धातवः |
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— णेः लोपः अनिटि आर्धधातुके |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
अनेन लुङ्-लकारः कर्मणि भावे च इति पाठः समाप्तः |
Swarup – December 2017