page_and_link_managers, Administrators
5,094
edits
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |

(15 intermediate revisions by 5 users not shown) | |||
Line 1:
{{DISPLAYTITLE:06 - आशीर्लिङ् परस्मैपदे}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि

|'''2021 वर्गः'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/245_Ashiirling-parasmaipade---paricayaH_%2B_siddhating-pratyaya-vyutpattiH_%2B_dhAtvAdeshaH_2021-02-16.mp3 Ashiirling-parasmaipade---paricayaH_+_siddhating-pratyaya-vyutpattiH_+_dhAtvAdeshaH_2021-02-16]

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/246_Ashiirling-parasmaipade---lingAshishi-kittvAtideshaH_%2B_AkArAntAH_%2B_erlingi_%2B_i-u-RukArAntAH-dhAtavaH_2021-02-23.mp3 Ashiirling-parasmaipade---lingAshishi-kittvAtideshaH_+_AkArAntAH_+_erlingi_+_i-u-RukArAntAH-dhAtavaH_2021-02-23]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/247_Ashiirling-parasmaipade---RukArAntAH_%2B_RU-kArAnTAH_%2B_halantAH_%2B_samprasAriNaH_2021-03-02.mp3 Ashiirling-parasmaipade---RukArAntAH_+_RU-kArAnTAH_+_halantAH_+_samprasAraNinaH_2021-03-02]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/248_Ashiirling-parasmaipade---samprasAraNi-dhAtavaH_%2B_aniditaH-dhAtavaH_2021-03-09.mp3 Ashiirling-parasmaipade---samprasAraNi-dhAtavaH_+_aniditaH-dhAtavaH_2021-03-09]

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/249_Ashiirling-parasmaipade---Nijanta-dhAtavaH_%2B_sannantadhAtavaH_2021-03-16.mp3 Ashiirling-parasmaipade---Nijanta-dhAtavaH_+_sannantadhAtavaH_2021-03-16]

|'''2018 वर्गः'''

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/146_Ashiirling-lakAre-parasmaipade-paricayaH_2017-12-24.mp3 Ashiirling-lakAre-parasmaipade-paricayaH_2017-12-24]

|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/147_Ashiirling-lakAre-parasmaipade-paricayaH-2_2018-04-08.mp3 Ashiirling-lakAre-parasmaipade-paricayaH-2_2018-04-08]

|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/148_Ashiirling-lakAre-parasmaipade-ajantAnAM-halantAnAM-ca-dhAtavaH_2018-04-15.mp3 Ashiirling-lakAre-parasmaipade-ajantAnAM-halantAnAM-ca-dhAtavaH_2018-04-15]

|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/149_Ashiirlingi-parasmaipade---siddha-ting-pratyayAH__AkArAnta-dhAtavaH_2018-04-22.mp3 Ashiirlingi-parasmaipade---siddha-ting-pratyayAH_+_AkArAnta-dhAtavaH_2018-04-22]

|५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/150_Ashiirlingi-parasmaipade---siddha-ting-cintanam__sAmAnya-dhAtavaH__samprasAraNi-dhAtavaH_2018-04-29.mp3 Ashiirlingi-parasmaipade---siddha-ting-cintanam_+_sAmAnya-dhAtavaH_+_samprasAraNi-dhAtavaH_2018-04-29]

|६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/151_Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH__anidit-dhAtavaH_2018-05-06.mp3 Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH_+_anidit-dhAtavaH_2018-05-06]

आशीर्लिङ्-लकारः परस्मैपदे

'''आशिषि लिङ्लोटौ''' (३.३.१७३) = आशीर्वादार्थे धातुभ्यः लिङ् लोट् च लकारौ भवतः | अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा इति काशिका— अप्राप्तं प्राप्तुम् इच्छा इति अर्थः | लिङ् च लोट् च तयोरितरेतरद्वन्द्वः लिङ्लोटौ | आशिषि सप्तम्यन्तं, लिङ्लोटौ प्रथमान्तं, द्विपदमिदं सूत्रम् |

परस्मैपदे आशीर्लिङ्-लकारः अनिडादिषु अन्यतमः | अत्र यासुट्-आगमो भवति इति कारणतः सिद्धतिङ्-प्रत्ययाः यकारादयः; तदर्थं च न वलादयः | प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः; परम् इड्व्यवस्था, इडादीनां च पाठः |

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |

परस्मैपदे सिद्धतिङ्-प्रत्ययाः एते—

यात् यास्ताम् यासुः
याः यास्तम् यास्त
यासम् यास्व यास्म

'''लिङाशिषि''' (३.४.११६) = आशीर्वादार्थे यत् लिङ् तस्य स्थाने यत् तिङ्, तस्य आर्धधातुकसंज्ञा भवति | आशिषि लिङः तिङ् आर्धधातुकसंज्ञकः स्यात् | लिङ् लुप्तषष्ठीकम्, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यस्मात् '''तिङ्''' इत्यस्य अनुवृत्तिः | '''आर्धधातुकं शेषः''' (३.४.११४) इत्यस्मात् '''आर्धधातुकम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लिङाशिषि आर्धधातुकं तिङ्''' |

आर्धधातुकप्रत्यये परे धात्वादेशाः—

आर्धधातुकविषये केषाञ्चित् धातूनां धात्वादेशो भवति |

१. अस्-धातोः आर्धधातुकप्रत्यये परे भू-आदेशः | अस् + यात् → भूयात् |

'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अस्तेः भूः आर्धधातुके''' |

'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाल्शित् सर्वस्य स्थाने''' |

२. चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | चक्ष् + यात् → ख्यायात्, क्शायात् |

'''चक्षिङः ख्याञ्''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''चक्षिङः ख्याञ् आर्धधातुके''' |

'''चक्षिङः ख्याञ्''' (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् '''क्शादिरयमादेशः''', इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च '''पूर्वत्रासिद्धम्''' (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति '''ख्शाञः शस्य यो वा वक्तव्यः''' | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |

३. अज्-धातोः आर्धधातुकप्रत्यये परे वी-आदेशः | अज् + यात् → वीयात् |

'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः वी आर्धधातुके अघञपोः''' |

४. ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्-आदेशः | ब्रू + यात् → उच्यात् |

'''ब्रुवो वचिः''' (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ब्रुवः वचिः आर्धधातुके''' |

५. हन्-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः | हन् + यात् → वध्यात् |

'''हनो वध लिङि''' (२.४.४२) = हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परे आर्धधातुके | हनः षष्ठ्यन्तं, वध लुप्तप्रथमान्तं, लिङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हनः वध आर्धधातुके लिङि''' |
वध-आदेशे अकारस्य लोपः—

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

६. एजन्तधातूनाम् आत्वम्—

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |

यथा—
ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे → वा, छो → छा

लिङ्लकारे परस्मैपदे यासुट्-आगमः

विधिलिङ्लकारे आशीर्लिङ्लकारे च परस्मैपदे यासुट्-आगमः भवति |

'''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् उदात्तः च | विधिसूत्रम् अतिदेशसूत्रं च | '''लिङः''' '''सीयुट्''' (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानांम् एव कृते) इत्यस्य अपवादः | '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''लिङः''' '''लस्य परस्मैपदानां यासुट् उदात्तः ङित् च''' |

तिङ्-प्रत्ययसिद्धिः

परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः

तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्

'''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति | तर्हि यासुट्-आगमः तिङ्-प्रत्ययानामेव अस्ति; अयञ्च आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१ .४६) इत्यनेन प्रत्ययात् प्राक् आयाति |

सूत्राणि

१) '''इतश्च''' (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |
२) '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः |
३) '''झेर्जुस्''' (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति |
४) '''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति |

विचन्त्य सिद्धतिङ्प्रत्ययान् व्युत्पादयामः—

तिप् → यासुट् + तिप् → यास् + ति → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास् + त् → यास्त् → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यात्

तस् → यासुट् + तस् → यास् + तस् → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु तस् इत्यस्य स्थाने ताम् → यास् + ताम् → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्ताम्

झि → यासुट् + झि → यास् + झि → '''झेर्जुस्''' (३.४.१०८) इत्यनेन लिङ्-लकारस्य झि-स्थाने जुस्-आदेशः → यास् + जुस् → अनुबन्धलोपे → यास् + उस् → वर्णमेलने → यासुस् → रुत्वविसर्गौ → यासुः

सिप् → यासुट् + सिप् → यास् + सि → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास् + स् → वर्णमेलने → यास्स् → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यास् → रुत्वविसर्गौ → याः

थस् → यासुट् + थस् → यास् + थस् → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थस् इत्यस्य स्थाने तम् → यास् + तम् → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्तम्

थ → यासुट् + थ → यास् + थ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थ इत्यस्य स्थाने त → यास् + त → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्त

मिप् → यासुट् + मिप् → यास् + मि → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु मिप् इत्यस्य स्थाने अम् → यास् + अम् → वर्णमेलने → यासम्

वस् → यासुट् + वस् → यास् + वस् → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास् + व → वर्णमेलने → यास्व

मस् → यासुट् + मस् → यास् + मस् → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास् + म → वर्णमेलने → यास्म

आशीर्लिङः प्रत्ययसिद्धिबोधो यदा मनसि आगतः, तदा अग्रे गमनात् प्राक् एकवारं तुलनात्मकदृष्ट्या परिशील्यतां विधिलिङः सिद्धतिङ्प्रत्ययाः | अदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः; अनदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः | त्रिषु स्थलेषु साम्यं कुत्र भेदश्च कुत्र इति द्रष्टव्यम् |

'''इतश्च''' (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''', '''परस्मैपदेषु''' इत्यनयोः अनुवृत्तिः | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य इतः परस्मैपदस्य लोपः''' |

'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात् '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |

'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |

'''झेर्जुस्''' (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति | झेः षष्ठ्यन्तं, जुस् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''लिङः लस्य झेः जुस्''' | '''झोऽन्तः''' (७.१.३) इत्यस्य अपवादः |
'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |

एवञ्च परस्मैपदे सिद्धतिङ्-प्रत्ययाः एते—

यात् यास्ताम् यासुः
याः यास्तम् यास्त
यासम् यास्व यास्म

अतिदेशः

लिङ्लकारे यासुट्-आगमः ङिद्वत् इत्युक्तं '''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इति सूत्रेण | किन्तु तदग्रिमे सूत्रे ('''किदाशिषि''') उच्यते यत् आशीर्लिङि स च यासुट् कित् भवति | अतः '''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङि यासुट्-आगमस्य ङित्त्वं सामान्यातिदेशः; '''किदाशिषि''' (३.४.१०४) तस्य अपवादः |
'''किदाशिषि''' (३.४.१०४) = आशिषि लिङ: यासुट् कित् | आशीर्लिङ्लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमो भवति, सः कित् भवति | काशिकाकारो वदति यत् वस्तुतः प्रत्ययस्यैव कित्त्वं भवति आगमस्य कित्त्वप्रयोजनाभावात्; अतः फलितार्थः एवं यत् प्रत्ययस्य कित्त्वम् | कित् प्रथमान्तम्, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''लिङः सीयुट्''' (३.४.१०२) इत्यस्मात् '''लिङः''' इत्यस्य अनुवृत्तिः | '''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यस्मात् '''परस्मैपदेषु''', '''यासुट्''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''आशिषि लिङ: परस्मैपदेषु यासुट् कित्''' |

धेयं यत् तृतीयाध्याये सर्वत्र एते अधिकाराः अनुवर्तन्ते— '''प्रत्यय:''' (३.१.१) , '''परश्च''' (३.१.२), '''धातो:''' (३.१.९१), '''लस्य''' (३.४.७७)
आशीर्लिङि गुणनिषेधः अपेक्षते | '''यासुट् परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन यासुट् ङित् भवति; ङित्त्वात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति | तर्हि कित्त्वस्य किमर्थम् आवश्यकता ? कित्त्वेन न केवलं '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति, अपि तु '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्, अपि च '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन जागृ-धातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः |

'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |

आशीर्लिङि तिङन्तव्युत्पादनविधिः

अस्माभिः ज्ञायते यत् आर्धधातुकप्रक्रियायां धातुगणम् अनुसृत्य चिन्तनं न भवति यतोहि धातुगणविशिष्टविकरणप्रत्ययाः न भवन्ति | अत्र तिङन्तरूपाणां निर्माणविधिः विशिष्यते धातोः अन्तिमस्वरम् अनुसृत्य | सूत्राणाम् आयोजनं तादृशम्, अतः प्रक्रियायाः आयोजनमपि तादृशं भवेत् | तदर्थं यथापूर्वम् आर्धधातुकप्रक्रियायां चिन्तनम् अजन्तधातूनां हलन्तधातूनां कृते विभक्तम् | तत्र पुनः उपविभजनम् अजन्तधातुषु आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | उपविभजनं हलन्तधातुषु अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः च |

आशीर्लिङ् परस्मैपदे इति पाठस्य तिङन्तव्युत्पत्तिविधिः चतुर्षु भागेषु विभक्तः—

1. सामान्याः अजन्तधातवः हलन्तधातवः च
2. सम्प्रसारणिनः धातवः
3. अनिदितः धातवः
4. चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च

'''1.''' सामान्याः अजन्तधातवः हलन्तधातवः च

'''a)''' अजन्तधातवः

१. आकारान्ताः एजन्ताः च धातवः

अत्र मूले आकारान्ताः, एजन्ताः च धातवः मिलित्वा द्रष्टव्याः यतोहि अशिति प्रत्यये परे, सर्वे एजन्तधातवः '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण आकारान्ताः भवन्ति | आशीर्लिङि ये प्रत्ययाः धातुभ्यः विधीयन्ते ते सर्वे अशितः, अतः अत्र एजन्तधातवः आकारान्ताः भवन्ति |

अ) सामान्याः आकारान्तधातवः

एषां किमपि कार्यं नास्ति, केवलं धातु-प्रत्यययोः मेलनम् | यथा वा + यात् → वायात्, पा + यात् → पायात्, भा + यात् → भायात् |

वायात् वायास्ताम् वायासुः
वायाः वायास्तम् वायास्त
वायासम् वायास्व वायास्म

सर्वे सामान्याकारान्तधातूनाम् आशीर्लि`ङि रूपाणि एवमेव भवन्ति |

आ) आकारान्तानाम् एत्वम्

द्वादशानाम् आकारान्तानां धातूनाम् एत्वं भवति |

'''एर्लिङि''' (६.४.६७) = घुमास्थागापाजहातिसामङ्गानाम् एत्वं स्यादार्धधातुके किति लिङि | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति स्म; प्रकृतसूत्रम् अस्य अपवादः | एः प्रथमान्तं, लिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यस्मात् '''घुमास्थागापाजहातिसाम्''' इत्यस्य अनुवृत्तिः | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम् अङ्गस्य एः आर्धधातुके किति लिङि''' |

'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात् '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात् '''ईत्''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम् आतः अङ्गस्य''' '''ईत्''' '''हलि''' '''क्ङिति आर्धधातुके''' |

'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन यक्-प्रत्यये परे दा + यक् → दीय → दीयते | परन्तु परस्मैपदे आशीर्लिङि '''एर्लिङि''' (६.४.६७) इत्यनेन एत्वं न तु ईकारादेशः | दा + यात् → दे + यात् → देयात् | (प्रकृतसूत्रे ''''आर्धधातुके किति लिङि'''<nowiki/>' इत्युक्तम् | अस्य फलितार्थः परस्मैपदे आशीर्लिङि एव | विधिलिङ् सार्वधातुकत्वात् तस्य न भवति; '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: परस्मैपदेषु एव कित्त्वम् अतः आत्मनेपदे न भवति |)

'''दाधाघ्वदाप्''' (१.१.२०) इत्यनेन दो → दा, डुधाञ् → धा, देङ् → दा, धेट् → धा, डुदाञ् → दा, दाण् → दा इति षट् धातवः घु-सज्ञकाः भवन्ति |

(दाण्, डुधाञ् = to give; दो = to cut, divide; देङ् = to protect; डुधाञ् = to hold, bring up; धेट् = to suck, drink)

अनेन एते षट् घु-संज्ञकधातावः च मा, स्था, गा, पा पाने (भ्वादिगणे), हा, सा (षो) इति द्वादशानां धातूनाम् एत्वं भवति किति लिङि प्रत्यये परे |

यथा दा + यात → देयात् |

देयात् देयास्ताम् देयासुः
देयाः देयास्तम् देयास्त
देयासम् देयास्व देयास्म
एवमेव— धा + यात् → धेयात्, मा + यात् → मेयात्, स्था + यात् → स्थेयात्, गा + यात् → गेयात्, पा + यात् → पेयात्, हा + यात् → हेयात्, सा + यात् → सेयात् |

धेयं यत् 'मा' इत्यनेन मा मापने इत्येव ग्राह्यंं; मेङ्, माङ् इति न गृह्येते यतोहि तौ द्वौ ङित्त्वात् आत्मनेपदसंज्ञकौ | आत्मनेपदे लिङ् कित् नास्ति | '''किदाशिषि''' (३.४.१०४) इत्यनेन केवलम् '''आशिषि लिङ: परस्मैपदेषु यासुट् कित्''' इत्युक्तम् | अन्यच्च पा-धातुः इत्युक्तौ पा पाने एव (नाम भ्वादौ, पिबति लटि); अदादिगणस्य पा-धातोः एत्वं न भवति अतः तत्र पायात् एव भवति |

इ) संयोगपूर्व-आकारान्तधातवः

अत्र विकल्पेन एत्वं भवति | '''वाऽन्यस्य संयोगादेः''' (६.४.६८) इति सूत्रेण | घ्रा, ध्मा, म्ना, ष्णा, श्रा, द्रा, प्रा, ख्या, प्रा, ज्ञा इत्यादीनां विकल्पेन एत्वम् | ग्ला + यात् → ग्लेयात् / ग्लायात् इत्यादिकम् |

'''वाऽन्यस्य संयोगादेः''' (६.४.६८) = घुमास्थादिभ्यः भिन्नानां संयोगादीनां धातूनाम् आकारस्य विकल्पेन एकारादेशो भवति आर्धधातुके किति लिङि प्रत्यये परे | घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि | 'अन्यस्य' इत्यनेन घुमास्थागापाजहातिभिन्नस्य | 'अन्यस्य इति किम् ? स्थेयात् |’ स्था इति एक एव तादृशः धातुः घुमास्थादिषु इति कृत्वा 'स्थेयात् अन्यस्य' | 'आतः अङ्गस्य' इत्यस्मिन् तदन्तविधिः | संयोगः आदिर्यस्य स संयोगादिः, तस्य संयोगादेः | वा अव्ययपदम्, अन्यस्य षष्ठ्यन्तं, संयोगादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''एर्लिङि''' (६.४.६७) इत्यस्मात् '''एः''', '''लिङि''' इत्यनयोः अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अन्यस्य संयोगादेः आतः अङ्गस्य एः वा आर्धधातुके किति लिङि''' |

२. इकारान्त/ईकारान्त, उकारान्त/ऊकारान्त च धातवः

इगन्तधातुप्रसङ्गे आर्धधातुक-तिङ्-प्रत्ययानां प्रभावेन '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन धातोः इकः गुणो भवति स्म सर्वत्र, तदा '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, तेन च सम्पूर्णतिङ्-प्रत्ययः कित् | तस्मात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः |
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इति सूत्रेण एते सर्वे धातवः दीर्घाः भवन्ति | यथा—

जि + यात् → जीयात्
हु + यात् → हूयात्
भू + यात् → भूयात्

'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अयङ् यि क्ङिति''' (७.४.२२) इत्यस्मात् '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात् '''अच्''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वदीर्घप्लुतैः अचः च अच्''' |

परन्तु ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्-आदेशः | ब्रू + यात् → उच्यात् |

'''ब्रुवो वचिः''' (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | अनुवृत्ति-सहितसूत्रम्— '''ब्रुवः वचिः आर्धधातुके''' |

३. ऋकारान्तधातवः

'''रिङ्शयग्लिङ्क्षु''' (७.४.२८) इत्यनेन ऋकारान्तधातूनां धात्वन्तऋकारस्य स्थाने रिङ्-आदेशो भवति श-प्रत्यये परे, यक्-प्रत्यये परे, लिङ्-लकारस्य च यकारादिप्रत्यये परे | ङकारः इत्संज्ञकः | यथा—

कृ + यात् → '''रिङ् शयग्लिङ्क्षु''' (७.४.२८) → क् + रिङ् + यात् → क्रि + यात् → क्रियात्
हृ + यात् → ह्रियात्
भृ + यात् → भ्रियात्
सृ + यात् → स्रियात्

'''रिङ् शयग्लिङ्क्षु''' (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ्-प्रत्यये च परे | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तं, शयग्लिङ्क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अयङ् यि क्ङिति''' (७.४.२२) इत्यस्मात् '''यि''', '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात् '''असार्वधातुके''', '''रीङ् ऋतः''' (७.४.२७) इत्यस्मात् '''ऋतः''' इत्येषाम् अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयग्लिङ्क्षु''' |

'''यस्मिन् विधिः तदादावल्ग्रहणे''' इति परिभाषया '''यि''' नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | '''यि असार्वधातुके''' च लिङः विशेषणम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''ऋतः अङ्गस्य''' नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | '''रिङ्''' ङित्, अतः '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य बाधकसूत्रम् '''अनेकाल् शित्सर्वस्य''' (१.१.५५), तत् प्रबाध्य '''ङिच्च''' (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः |

'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | परिभाषासूत्रम् | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वम्''', '''रूपम्''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च) |

'''ङिच्च''' (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इति सूत्रस्य अपवादः; '''अनेकाल्शित् सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात् '''अलः''', '''अन्त्यस्य''' इत्यनयोः अनुवृत्तिः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ङित् च''' '''अन्त्यस्य अलः स्थाने''' |

अस्य द्वौ अपवादौ—

अ) ऋ-धातुः संयोगादि-ऋकारान्तधातवः च

'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत्, धातोः गुणादेशो भवति श-प्रत्यये परे, यक्-प्रत्यये परे, लिङ्-लकारस्य यकारादिप्रत्यये च परे |

यथा—
स्मृ + यात् → स्म + यात् → स्मर् + यात् → स्मर्यात्
ध्वृ + यात् → ध्व + यात् → ध्वर् + यात् → ध्वर्यात्
ह्वृ + यात् → ह्व + यात् → ह्वर् + यात् → ह्वर्यात्
स्वृ + यात् → स्व + यात् → स्वर् + यात् → स्वर्य → स्वर्य + ते → स्वर्यात्

ऋ-धातुः अपि तथा—
ऋ + यात् → अ + यात् → अर् + यात् → अर्यात्

'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) = ऋधातोः संयोगादिऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि-लिङि-आर्धधातुकप्रत्यये परे च | अर्ति इत्यनेन ऋ-धातुः, धातुनिर्देशे श्तिपि | ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ-धातोः आदौ संयोगः न सम्भवति | अर्तिश्च संयोगादिश्च तयोरितरेतरद्वन्द्वः, अर्तिसंयोगादी, तयोः अर्तिसंयोगाद्योः | असार्वधातुके इत्यनेन आर्धधातुके | तदन्तविधिः, '''अलोऽन्त्यस्य''', तदादिविधिः इति त्रयः प्रवर्तन्ते | संयोगादिः संयोगः आदिर्यस्य सः बहुव्रीहिः | गुणः प्रथमान्तम्, अर्तिसंयोगाद्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''रीङृतः''' (७.४.२७) इत्यस्मात् '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात् '''असार्वधातुके''' इत्यस्य अनुवृत्तिः | '''रिङ् शयग्लिङ्क्षु''' (७.४.२८) इत्यस्मात् '''यग्लिङोः''' इत्यस्य अनुवृत्तिः ('श' इति न आनीयते यतोहि तुदादौ संयोगादिऋदन्तधातुः नास्ति एव) | '''अयङ् यि क्ङिति''' (७.४.२२) इत्यस्मात् '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि यि लिङि असार्वधातुके''' |

आ) जागृ-धातुः

'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन किति प्रत्यये परेऽपि गुणः—

जागृ + यात् → जागर् + यात् → जागर्यात्

'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |

४. ॠकारान्ताः धातवः

अ) अनोष्ठ्यपूर्व-ऋकारान्तधातवः

यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—

तॄ + यात् → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + यात् → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → तिर् + यात् → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → तीर् + यात् → तीर्यात्
'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः |
'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |

'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |

'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' |

एवमेव—

जॄ + यात् → जि + यात् → जिर् + यात् → जीर्यात्
गॄ → गीर्यात्,
कॄ → कीर्यात्
दॄ → दीर्यात्
शॄ → शीर्यात्

आ) ओष्ठ्यपूर्व-ऋकारान्तधातवः

यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ऋकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |

एतादृशानां धातूनां कार्यम् एवं भवति—

पॄ + यात् → '''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः → पु + यात् → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → पुर् + यात् → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → पूर् + यात् → पूर्यात्

'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ॠत इद् धातोः''' (७.१.१००) इत्यस्मात् '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत्''' |

एवमेव—

वॄ + यात् → वु + यात् → वुर् + यात् → वूर्यात्
भॄ → भूर्यात्

इति सामान्य-अजन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |

'''b)''' हलन्तधातवः

परस्मैपदे आशीर्लिङः '''किदाशिषि''' (३.४.१०४) इत्यनेन कित्त्वं भवति | कित्त्वात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | गुणनिषेधं विहाय अन्यत् किमपि कार्यं नास्ति |

यथा—
पठ् + यात् → पठ्यात्
लिख् + यात् → लिख्यात्
नन्द् + यात् → नन्द्यात्

धात्वादेशाः

धात्वादेशो यत्र प्रसक्तः, तत्र सदा स्मर्तव्यः कर्तव्यश्च |
सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति—

अस् + यत् → '''अस्तेर्भूः''' (२.४.५२) → भूयात्

चक्ष् + यात् → '''चक्षिङः ख्याञ्''' (२.४.५४) → ख्यायात्

अज् + यात् → '''अजेर्व्यघञपोः''' (२.४.५६) → वीयात् |

हन्-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः—
हन् + यात् → '''हनो वध लिङि''' (२.४.४२) → वध्यात् |

इति सामान्य-हलन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |

'''2.''' सम्प्रसारणिधातवः
'''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययाः कितः, अतः '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इति सूत्राभ्यां सम्प्रसारणं भवति | आहत्य द्वाभ्यां सूत्राभ्यां नवदशानां धातूनां सम्प्रसारणम् | प्रथमे सूत्रे एकादश धातवः उक्ताः, द्वितीये च नव धातवः उक्ताः | परन्तु वेञ्-धातुः वय्-धातुः च वस्तुतः एक एव समानः अतः मिलित्वा नवदश न तु विंशतिः धातवः |

'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |

'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्''' |
'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |

'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |
'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''न सम्प्रसारणे सम्प्रसारणम्''' |

अभ्यासः—

सम्प्रसारणिधातुषु हलन्तधातवः—

ग्रह् + यात् → गृ + अ + ह् + यात् → गृ + ह् + यात् → गृह्यात्
व्रश्च् + यात् →
प्रच्छ् + यात् →
भ्रस्ज्* + यात् →
व्यध् + यात् →
व्यच् + यात् →
वच् + यात् →
स्वप् + यात् →
यज् + यात् →
वप् + यात् →
वह् + यात् →
वद् + यात् →
वश् + यात् →

<nowiki>*</nowiki>सम्प्रसारणं कृत्वा श्चुत्वं, तदा जश्त्वम् अपेक्षितम् |

'''शासिवसिघसीनाञ्च''' (८.३.६०) = शास्, वस्, घस् इत्येषां धातूनाम् इण्-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सहेः साडः सः''' (८.३.५६) इत्यस्मात् '''सः''' इत्यस्य अनुवृत्तिः | '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यस्मात् '''मूर्धन्यः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अनुवृत्तिः | '''इण्कोः''' (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम्''' |

वस् + यात् → '''वचिस्वपियजादीनां किति''' (६.१.१५) → उस् + यात् → '''शासिवसिघसीनाञ्च''' (८.३.६०) → उष्यात्

सम्प्रसारणिधातुषु अजन्तधातवः—

'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |

ज्या + यात् → जि + आ + यात् → जि + यात् → '''हलः''' (६.४.२) → जी + यात् → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → जी + यात् → जीयात्

श्वि + यात् →

एजन्तधातूनाम् आत्वम्—

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |

व्येञ् + यात् →
वेञ् + यात् →
ह्वेञ् + यात् →

'''3.''' अनिदितः धातवः

'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम् उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | '''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययाः कितः, अतः अनिदितां धातूनाम् उपधा-स्थितस्य नकारस्य लोपः |

'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |

पाणिनेः धातुपाठे अनिदित्-धातवः इमे—
{| class="wikitable"
|अञ्च्
|कुञ्च्
|क्रुञ्च्
|ग्लुञ्च्
|चञ्च्
|तञ्च्
|त्वञ्च्
|म्रुञ्च्
|म्लुञ्च्
|लुञ्च्

|वञ्च्
|अञ्ज्
|रञ्ज्
|भञ्ज्
|सञ्ज्
|ष्वञ्ज्
|कुन्थ्
|ग्रन्थ्
|मन्थ्
|श्रन्थ्

|उन्द्
|बुन्द्
|स्कन्द्
|स्यन्द्
|इन्ध्
|बन्ध्
|शुन्ध्
|तुम्प्
|त्रुम्प्
|ऋम्फ्

|गुम्फ्
|तुम्फ्
|त्रुम्फ्
|तृम्फ्
|दृम्फ्
|उम्भ्
|दम्भ्
|शुम्भ्
|श्रम्भ्
|षृम्भ्

|स्रम्भ्
|हम्म्
|दंश्
|भ्रंश्
|ध्वंस्
|भ्रंस्
|शंस्
|स्रंस्
|तृन्ह्

परस्मैपदे आशीर्लिङि उपधास्थितनकारलोपः | यथा—

स्कन्द् + यात् → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद् + यात् → स्कद्यात्

एवमेव सर्वेषाम् अनिदितां हलन्तानां आशीर्लिङि तिङन्तरूपाणि वक्तव्यानि |

धेयं यत् इदितां धातूनां न्-लोपो न भवति

यथा वदिँ इति इदित् धातुः | '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुमागमः, वन्द् इति धातुः | अस्य न्-लोपः न भवति |

वदिँ → वद् → वन्द् → वंद् → वन्द्

वदिँ → वद् '''उपदेशेऽजनुनासिक इत्'''
वद् → वन्द् '''इदितो नुम् धातोः'''
वन्द् → वंद् '''नश्चापदान्तस्य झलि'''
वंद् → वन्द् '''अनुस्वारस्य ययि परसवर्णः'''

लाछिँ → लाछ् → लान्छ् → लांछ् → लाञ्छ्
कपिँ → कप् → कन्प् → कंप् → कम्प्
लबिँ → लब् → लन्ब् → लंब् → लम्ब्

'''इदितो नुम् धातोः''' (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित्, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''इदितो धातोः नुम्''' |

यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | किन्तु साक्षत् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति परे | यथा बन्ध-धातोः नकारो भवति मूलधातौ, अतः किति ङिति परे तस्य नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं 'बद्ध' (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | लबि धातोः '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुम् आगमः → लम्ब् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |

'''4.''' चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च

चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् + णिच् → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति |

चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्-प्रत्ययः विधीयते → चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः

तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |

पठ् → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि

'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च''' |

'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान् | अस्यां स्थितौ—यत्र हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात् '''णिच्''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |

'''सनाद्यन्ता धातवः''' (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः (अङ्गम्) क्वचित् धातुः, क्वचित् प्रातिपदिकम् | सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''सनाद्यन्ता धातवः''' |

एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत् किमपि रूपं निष्पादयितुम् इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति आशीर्लिङि च— सर्वप्रथमं णिच्, तदा धातुसंज्ञा, तदा आशीर्लिङः तिङ्प्रत्ययसंयोजनम् | यथा—

चुर् + इ → चोरि → आशीर्लिङः विवक्षायाम् → चोरि + यात्

अस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | परस्मैपदे आशीर्लिङि सिद्ध-तिङ्प्रत्ययाः वलादिनः न सन्ति इति कारणतः तेषाम् इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्, '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपो भवति |

चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि → चोरि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर् + यात् → चोर्यात्
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |

एवमेव—

कथ + णिच् → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ् + णिच् → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायां स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये → कथ्-धातोः अन्त्यः लोपः अत् इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → कथि → कथि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ् + यात् → कथ्यात्
'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः''' '''अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् '''उपदेशे''' इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |
अय् + क्विप् → अनुबन्धलोपे → अय् + व् → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |

अतः '''उपदेशे''' नास्ति चेत् इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |

अ + व् → '''ह्रस्वस्य''' '''पिति कृति तुक्''' (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |

'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् '''स्थानिवत्''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— '''अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ''' |

पठ् → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → पाठि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाठ् + यात् → पाठ्यात्

दा + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्-आगमः भवति णिच्-प्रत्यये परे → दा + पुक् + इ → दा + प् + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → दापि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → दाप् + यात् → दाप्यात्

पै पाने → पै + णिच् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच् → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे → पा + युक् + णिच् → पा + य् + इ → पायि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पायि → पायि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाय् + यात् → पाय्यात्

नी + णिच् → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →

लिख् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →

भू* + णिच् →
कृ + णिच् →
छो छेदने + णिच् →
वद् + णिच् →
क्षिप् + णिच् →
बुध् + णिच् →
कृष्** + णिच् →
एध् + णिच् →
गण + णिच् →

<nowiki>*</nowiki>अत्र प्रश्नः उदेति भू + णिच् → भावि + यात् इत्यवसरे '''णेरनिटि''' (६.४.५१), '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) अनयोः द्वयोः युगपत् प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | '''अकृत्सार्वधातुकयोर्दीर्घः''' इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु '''णेरनिटि''' (६.४.५१) इत्यस्य | परन्तु—

'''ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्-लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |

<nowiki>**</nowiki>अत्र कृष् गुणं कृत्वा कष्, तदा '''अत उपधायाः''' (७.२.११६), '''उरण् रपरः''' (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम् ? भवति चेत्, '''अत उपधायाः''' (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात् | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि '''उरण् रपरः''' (१.१.५१) इत्यस्य अपेक्षया '''अत उपधायाः''' (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र '''अत उपधायाः''' (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |

'''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |

'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति |

'''5.''' सन्नन्तधातवः

औपदेशिकधातुभ्यः सन्-प्रत्ययः विधीयते चेत् सन्नन्तधातुः इति आतिदेशिकधातुर्भवति | एषां सर्वेषां सन्नन्तानाम् अन्ते अकारो भवति; नाम एते सर्वे अदन्तधातवः | अतः '''अतो लोपः''' (६.४.४८) इत्यनेन आर्धधातुके प्रत्यये परे तस्य अकारस्य लोपो भवति |

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः''' '''अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

आशीर्लिङि सर्वे तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः अतः सर्वत्र परस्मैपदे आशीर्लिङि सन्नन्तधातूनां धात्वन्ते अकारस्य लोपः | यथा—

जिगमिष + यात् → '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः → जिगमिष् + यात् - जिगमिष्यात्

सर्वेभ्यः सन्नन्तधातुभ्यः यासुट्-प्रत्यये परे एवं रीत्या '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपो भवति |

अनेन आशीर्लिङि सर्वेभ्यः धातुभ्यः समग्रचिन्तनं सम्पूर्णम् |

Swarup – April 2018
[https://static.miraheze.org/samskritavyakaranamwiki/1/19/%E0%A5%A6%E0%A5%AC_-_%E0%A4%86%E0%A4%B6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%AA%E0%A4%A6%E0%A5%87.pdf ०६_-_आशीर्लिङ्_परस्मैपदे.pdf (file size: 138 KB]