7---ArdhadhAtukaprakaraNam/06---AshIrling-parasmaipade: Difference between revisions

no edit summary
No edit summary
No edit summary

(6 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:06 - आशीर्लिङ्‌ परस्मैपदे}}

{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
Line 29:
|६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/151_Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH__anidit-dhAtavaH_2018-05-06.mp3 Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH_+_anidit-dhAtavaH_2018-05-06]

{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि - 2018 वर्गः-

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/146_Ashiirling-lakAre-parasmaipade-paricayaH_2017-12-24.mp3 Ashiirling-lakAre-parasmaipade-paricayaH_2017-12-24]

|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/147_Ashiirling-lakAre-parasmaipade-paricayaH-2_2018-04-08.mp3 Ashiirling-lakAre-parasmaipade-paricayaH-2_2018-04-08]

|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/148_Ashiirling-lakAre-parasmaipade-ajantAnAM-halantAnAM-ca-dhAtavaH_2018-04-15.mp3 Ashiirling-lakAre-parasmaipade-ajantAnAM-halantAnAM-ca-dhAtavaH_2018-04-15]

|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/149_Ashiirlingi-parasmaipade---siddha-ting-pratyayAH__AkArAnta-dhAtavaH_2018-04-22.mp3 Ashiirlingi-parasmaipade---siddha-ting-pratyayAH_+_AkArAnta-dhAtavaH_2018-04-22]

|५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/150_Ashiirlingi-parasmaipade---siddha-ting-cintanam__sAmAnya-dhAtavaH__samprasAraNi-dhAtavaH_2018-04-29.mp3 Ashiirlingi-parasmaipade---siddha-ting-cintanam_+_sAmAnya-dhAtavaH_+_samprasAraNi-dhAtavaH_2018-04-29]

|६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/151_Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH__anidit-dhAtavaH_2018-05-06.mp3 Ashiirlingi-parasmaipade---samprasAraNi-dhAtavaH_+_anidit-dhAtavaH_2018-05-06]

Line 132 ⟶ 115:

'''हनो वध लिङि''' (२.४.४२) = हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परे आर्धधातुके | हनः षष्ठ्यन्तं, वध लुप्तप्रथमान्तं, लिङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हनः वध आर्धधातुके लिङि''' |

वध-आदेशे अकारस्य लोपः—
Line 202 ⟶ 187:

तिप्‌ → यासुट्‌ + तिप्‌ → यास्‌ + ति → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास्‌ + त्‌ → यास्त्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यात्‌

तस्‌ → यासुट्‌ + तस्‌ → यास्‌ + तस्‌ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु तस्‌ इत्यस्य स्थाने ताम्‌ → यास्‌ + ताम्‌ → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्ताम्‌

झि → यासुट्‌ + झि → यास्‌ + झि → '''झेर्जुस्‌''' (३.४.१०८) इत्यनेन लिङ्‌-लकारस्य झि-स्थाने जुस्‌-आदेशः → यास्‌ + जुस्‌ → अनुबन्धलोपे → यास्‌ + उस्‌ → वर्णमेलने → यासुस्‌ → रुत्वविसर्गौ → यासुः

सिप् → यासुट्‌ + सिप् → यास्‌ + सि → '''इतश्च''' (३.४.१००) इत्यनेन इकारलोपः → यास्‌ + स् → वर्णमेलने → यास्स्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → यास्‌ → रुत्वविसर्गौ → याः

थस्‌ → यासुट्‌ + थस्‌ → यास्‌ + थस्‌ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थस्‌ इत्यस्य स्थाने तम्‌ → यास्‌ + तम्‌ → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्तम्‌

→ यासुट्‌ + थ → यास्‌ + थ → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु थ इत्यस्य स्थाने त → यास्‌ + त → 'स्त्‌' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्त

मिप्‌ → यासुट्‌ + मिप्‌ → यास्‌ + मि → '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इत्यनेन ङित्सु लकारेषु मिप्‌ इत्यस्य स्थाने अम्‌ → यास्‌ + अम्‌ → वर्णमेलने → यासम्‌

वस्‌ → यासुट्‌ + वस्‌ → यास्‌ + वस्‌ → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास्‌ + व → वर्णमेलने → यास्व

मस्‌ → यासुट्‌ + मस्‌ → यास्‌ + मस्‌ → '''नित्यं ङितः''' (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास्‌ + म → वर्णमेलने → यास्म

Line 247 ⟶ 232:

'''झेर्जुस्‌''' (३.४.१०८) = लिङ्‌-लकारस्य झि इत्यस्य स्थाने जुस्‌-आदेशो भवति | झेः षष्ठ्यन्तं, जुस्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य झेः जुस्‌''' | '''झोऽन्तः''' (७.१.३) इत्यस्य अपवादः |

'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्‌, ङितः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |
Line 268 ⟶ 255:

लिङ्लकारे यासुट्‌-आगमः ङिद्वत्‌ इत्युक्तं '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इति सूत्रेण | किन्तु तदग्रिमे सूत्रे ('''किदाशिषि''') उच्यते यत्‌ आशीर्लिङि स च यासुट्‌ कित्‌ भवति | अतः '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङि यासुट्‌-आगमस्य ङित्त्वं सामान्यातिदेशः; '''किदाशिषि''' (३.४.१०४) तस्य अपवादः |

'''किदाशिषि''' (३.४.१०४) = आशिषि लिङ: यासुट् कित् | आशीर्लिङ्लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमो भवति, सः कित् भवति | काशिकाकारो वदति यत्‌ वस्तुतः प्रत्ययस्यैव कित्त्वं भवति आगमस्य कित्त्वप्रयोजनाभावात्‌; अतः फलितार्थः एवं यत्‌ प्रत्ययस्य कित्त्वम्‌ | कित् प्रथमान्तम्‌, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यस्मात्‌ '''परस्मैपदेषु''', '''यासुट्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''आशिषि लिङ: परस्मैपदेषु यासुट् कित्''' |
Line 274 ⟶ 263:

धेयं यत्‌ तृतीयाध्याये सर्वत्र एते अधिकाराः अनुवर्तन्ते— '''प्रत्यय:''' (३.१.१) , '''परश्च''' (३.१.२), '''धातो:''' (३.१.९१), '''लस्य''' (३.४.७७)

आशीर्लिङि गुणनिषेधः अपेक्षते | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन यासुट्‌ ङित्‌ भवति; ङित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति | तर्हि कित्त्वस्य किमर्थम्‌ आवश्यकता ? कित्त्वेन न केवलं '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः सिध्यति, अपि तु '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌, अपि च '''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन जागृ-धातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः |
Line 411 ⟶ 402:

इगन्तधातुप्रसङ्गे आर्धधातुक-तिङ्‌-प्रत्ययानां प्रभावेन '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन धातोः इकः गुणो भवति स्म सर्वत्र, तदा '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, तेन च सम्पूर्णतिङ्‌-प्रत्ययः कित्‌ | तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः |

'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इति सूत्रेण एते सर्वे धातवः दीर्घाः भवन्ति | यथा—
Line 425 ⟶ 418:

'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |

'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात्‌ '''अच्‌''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |
Line 530 ⟶ 525:

यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |

एतादृशानां धातूनां कार्यम्‌ एवं भवति—
Line 537 ⟶ 534:
तॄ + यात्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + यात्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‍ + यात्‌ → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‍ + यात्‌ → तीर्यात्‌

'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |

'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |

'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |

Line 620 ⟶ 623:
धात्वादेशो यत्र प्रसक्तः, तत्र सदा स्मर्तव्यः कर्तव्यश्च |

सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति—

अस्‌ + यत्‌ → '''अस्तेर्भूः''' (२.४.५२) → भूयात्‌

चक्ष्‌ + यात्‌ → '''चक्षिङः ख्याञ्‌''' (२.४.५४) → ख्यायात्‌

सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति—

अस्‌ + यत्‌ → '''अस्तेर्भूः''' (२.४.५२) → भूयात्‌

चक्ष्‌ + यात्‌ → '''चक्षिङः ख्याञ्‌''' (२.४.५४) → ख्यायात्‌

अज्‌ + यात्‌ → '''अजेर्व्यघञपोः''' (२.४.५६) → वीयात्‌ |

Line 637 ⟶ 632:
हन्‌-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः—

हन्‌ + यात्‌ → '''हनो वध लिङि''' (२.४.४२) → वध्यात्‌ |

हन्‌ + यात्‌ → '''हनो वध लिङि''' (२.४.४२) → वध्यात्‌ |

Line 657 ⟶ 651:

'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्‌''' |

'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |
Line 722 ⟶ 718:

'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |

'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
Line 753 ⟶ 751:

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम्‌ उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | '''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्‌प्रत्ययाः कितः, अतः अनिदितां धातूनाम्‌ उपधा-स्थितस्य नकारस्य लोपः |

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |

Line 825 ⟶ 823:

स्कन्द्‌ + यात् → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद्‌ + यात् → स्कद्यात्‌

Line 833 ⟶ 831:

धेयं यत्‌ इदितां धातूनां न्‌-लोपो न भवति

Line 866 ⟶ 864:

यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | किन्तु साक्षत्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति परे | यथा बन्ध-धातोः नकारो भवति मूलधातौ, अतः किति ङिति परे तस्य नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं 'बद्ध' (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | लबि धातोः '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यनेन नुम्‌ आगमः → लम्ब्‌ | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |

Line 874 ⟶ 872:

चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्‍चुर् + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |

चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्‍चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर्‍चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः

Line 890 ⟶ 888:

'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |

Line 906 ⟶ 904:

चुर्‍चुर् + इ → चोरि → आशीर्लिङः विवक्षायाम्‌ → चोरि + यात्‌

Line 914 ⟶ 912:

चुर्‍चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि → चोरि + यात्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यात्‌ → चोर्यात्‌

'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |
Line 925:

कथ + णिच्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायां स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → कथि → कथि + यात्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यात् → कथ्यात्‌

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः''' '''अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |
Line 1,029 ⟶ 1,031:

Swarup – April 2018

[https://static.miraheze.org/samskritavyakaranamwiki/1/19/%E0%A5%A6%E0%A5%AC_-_%E0%A4%86%E0%A4%B6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%AA%E0%A4%A6%E0%A5%87.pdf ०६_-_आशीर्लिङ्_परस्मैपदे.pdf ‎(file size: 138 KB]
page_and_link_managers, Administrators
5,094

edits