'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम् उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | '''किदाशिषि''' (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययाः कितः, अतः अनिदितां धातूनाम् उपधा-स्थितस्य नकारस्य लोपः |

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |

स्कन्द् + यात् → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद् + यात् → स्कद्यात्

यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | किन्तु साक्षत् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति परे | यथा बन्ध-धातोः नकारो भवति मूलधातौ, अतः किति ङिति परे तस्य नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं 'बद्ध' (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | लबि धातोः '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुम् आगमः → लम्ब् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |

चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्चुर् + णिच् → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति |

चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्-प्रत्ययः विधीयते → चुर्चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः

'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च''' |

चुर्चुर् + इ → चोरि → आशीर्लिङः विवक्षायाम् → चोरि + यात्

चुर्चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर्चुर् + णिच् → चोरि → चोरि + यात् → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर् + यात् → चोर्यात्