7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions
7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH (view source)
Revision as of 17:43, 29 March 2022
, 2 years agono edit summary
No edit summary |
No edit summary |

(8 intermediate revisions by 2 users not shown) | |||
Line 53:
|१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/182_yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16.mp3 yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16]

यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्, णिच्, यङ् इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्') विधीयते सः आर्धधातुकसंज्ञकः चेत्; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत् | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम् आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम् |
Line 65 ⟶ 66:

१) अस्य एकं
Line 74:
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |
Line 104 ⟶ 103:

'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) = वारं वारम् अथवा अतिशयार्थे हलादि-एकाच्-धातुभ्यः यङ्-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | हल्

Line 249 ⟶ 248:

वकारन्तधातवः—
Line 281 ⟶ 279:

मव्य्-धातोः यङः लुक् न भवति; अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुगन्तरूपं भवति |
Line 291 ⟶ 288:
चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे | इदं कार्यम् आर्धधातुकप्रत्ययस्य विषये भवति; यङ्लुकि च यङ् इति आर्धधातुकप्रत्ययः 'नष्टो भविष्यति' इति योजनायाः बलात् '''अकृतव्यूहाः पाणिनीयाः''' (परिभाषा ५६) इत्यनेन इमे धात्वादेशाः निषिद्धाः | अनया परिभाषया यन्निमित्तकं कार्यं निर्दिष्टं, तदेव निमित्तं यदि नशिष्यमाणं, नाम अग्रे निश्चिततया नष्टो भविष्यति, तन्निमित्तककार्यं न भवति |
* अस्-धातोः स्थाने भू-आदेशो न भवति | अस्-धातुश्च अजादिः अतः तस्य यङ्-प्रत्ययः एव न भवति; यङ् न भवति चेत् यङ्-लुक् अपि न भवति |
* अज्-धातोः स्थाने वी-आदेशः न भवति | अज्-धातुः अजादिः यस्मात् यङ्लुक् न भवति |
* चक्ष्-धातोः स्थाने ख्याञादेशो न भवति | चक्ष्-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |
* ब्रू-धातोः स्थाने वच्-आदेशो न भवति | ब्रू-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |
Line 304 ⟶ 305:
'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |
Line 335 ⟶ 334:

यङः लुगानन्तरं प्रश्नः उदेति यदा यङ्-प्रत्ययो नास्त्येव, तदा कथं '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वं स्यात् ?
Line 645 ⟶ 643:
'''अभ्यासस्यासवर्णे''' (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति इयङ्-उवङ् इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
Line 762 ⟶ 758:
हु → हु हु → जु हु → जोहु इति यङ्लुगन्तधातुः
एवमेव—
Line 790 ⟶ 787:
ॠकारान्तधातूनां यङ्लुगन्तधातुः
तॄ → तॄ तॄ → तर् तॄ → ततॄ → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः
एवमेव—
Line 846 ⟶ 845:
२. कस् ,पत्, पद् इति त्रयाणां धातूनां यङ्लुगन्तधातुः
'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' '''अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः''' |
कस् → कस् कस् → क कस् → च कस् → चनीकस् इति यङ्लुगन्तधातुः
एवमेव—
Line 860 ⟶ 858:
पद् → पद् पद् → प पद् → पनीपद्
Line 872 ⟶ 869:

३. जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तधातुः
Line 912 ⟶ 910:

५. अनुनासिकान्त-अदुपध-धातूनां यङ्लुगन्तधातुः
Line 1,167 ⟶ 1,166:
'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' '''अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः''' |
Line 1,179 ⟶ 1,177:
'''जपजभदहदशभञ्जपशां च''' (७.४.८६) इत्यनेन दंश्, भञ्ज् इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |
Line 1,187 ⟶ 1,184:
'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि
▲'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङि दश् इत्यस्य एव द्वित्वम्; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात् '''नुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः''' |
जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |
Line 1,226 ⟶ 1,219:
कुञ्च् → कुञ्च् कुञ्च् → कु कुञ्च् → चु कुञ्च् → चोकुञ्च्
Line 1,232 ⟶ 1,224:

५. ऋकारवान् अनिदित्-धातवः
Line 1,252 ⟶ 1,245:

६. हम्म्-धातुः
Line 1,258 ⟶ 1,252:
'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |
हम्म् → हम्म् हम्म् → ह हम्म् → ज हम्म् → जंहम्म्
'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् अनुस्वारस्य उपलक्षणम् | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अनुनासिकान्तस्य''' '''अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः''' |
अनेन सर्वे यङ्लुगन्तधातवः साधिताः |
Line 1,282 ⟶ 1,271:
'''यङो वा''' (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्-सार्वधातुकस्य विकल्पेन ईट्-आगमो भवति | हलादिपित्-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम् | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम् इदं सूत्रम् | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ब्रूव ईट्''' (७.३.९३) इत्यस्मात् '''ईट्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''यङः ईट् वा''' '''हलि पिति सार्वधातुके''' |
यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | यङ्लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः—
१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |
धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |
'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
Line 1,302 ⟶ 1,286:
२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''' '''जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्''' |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
Line 1,413 ⟶ 1,395:
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
Line 1,429 ⟶ 1,409:
यङन्तधातुः ङित् भवति | तस्मात् '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन अत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते | किन्तु यङ्लुगन्तधातुः अनुदात्तेत्, ङित्, स्वरितेत्, ञित् इत्येभ्यः भिन्नः इति कारणतः '''शेषात्कर्तरि परस्मैपदम्''' (१.३.७८) इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते |
अत्र प्रश्नः उदेति यत् यङ्लुक्-प्रक्रियायां यङ्-प्रत्ययः विधीयते, तदा तस्य लोपो भवति | धातुसंज्ञा-प्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ्-प्रत्ययः विधीयते, तदा हि '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव | एवमेव यङ्प्रत्ययस्य लुकि सत्यपि किमर्थं न '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन ङित्त्वं मत्वा '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन यङ्लुगन्तधातुः अपि आत्मनेपदी स्यात् ?
अस्मिन् प्रसङ्गे, '''यङोऽचि च''' (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—

"'''शेषात्कर्तरि'''- इति परस्मैपदम् | '''अनुदात्तङितः'''- इति तु न | ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् | अत एव '<nowiki/>'''सुदृषत्प्रासाद'''<nowiki/>' इत्यस्य '<nowiki/>'''अत्वसन्तस्य'''-’ इति दीर्घो न | येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘'''अनुदात्तङितः'''-’ इत्यनुबन्धनिर्देशात् | तत्र '<nowiki/>'''श्तिपा शपा'''-’ इति निषेधात् | अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव | ‘'''चर्करीतं च्'''<nowiki/>' इत्यदादौ पाठाच्छपो लुक् |”
अस्य अर्थः कः इति क्रमेण परिशीलयाम—

Line 1,453 ⟶ 1,428:

अग्रिमः प्रश्नः आयाति यत् केवलं प्रत्ययधर्मस्य आश्रयः इति न अपितु यस्य कस्यापि धर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात् ? अत्र कौमुदीकारो लिखति यत् '''अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न''' | केवलं प्रत्ययधर्मस्य आश्रयम् अवलम्ब्य प्रत्ययलक्षणं करणीयम् इति सिद्धान्तः | तदर्थमेव '''<nowiki/>'सुदृषत्प्रासादः'<nowiki/>''' इत्यस्मिन् '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन दीर्घः न भवति | अनेन सूत्रेण अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः भवति (परन्तु सूत्रे '''अधातोः''' इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति) | अत्र सु शोभना दृषदो यस्य प्रासादस्य (सु + जस् दृषद् + जस्) अर्थात् 'सुन्दराः शिलाखण्डाः यस्य प्रासादस्य' इति विग्रहवाक्येन यः समासः भवति, समासावयवः मत्वा '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन जस्-प्रत्ययस्य लोपः | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | अत्र किन्तु लुप्तस्य जस्-प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम् अवलम्ब्य प्राप्तदीर्घादेशो न भवति | किमर्थम् इति चेत्, '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम् अवलम्ब्य दीर्घः भवति इति नास्ति अपितु '<nowiki/>'''वेधस्'''-शब्दात् '''वेधाः'''<nowiki/>' (वेधस् + सु → '''अत्वसन्तस्य चाधातोः''' (६.४.१४) → विधाः) इत्यस्मिन् प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति | अतः इदं कार्यं प्रत्ययाप्रत्ययं साधारणकार्यं; केवलं प्रत्ययासाधारणकार्यं नास्ति | एवमेव यङ्लुकि प्रत्ययाप्रत्यय-साधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति |
Line 1,459 ⟶ 1,435:

राजपुरुषः = राज्ञः पुरुषः → राजन् + ङस् + पुरुष + सु → समाससंज्ञा → '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → अधुना 'राजन् + ङस् + पुरुष + सु' इति समुदायस्य प्रातिपदिकसंज्ञा → ङस्, सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ → '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च '''अवयव'''रूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → राजन् + पुरुष |

प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | दृषद् इति दकारान्त-स्त्रीलिङ्गशब्दः, शिलाखण्डः इत्यर्थः; अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन, 'सुदृषद्' ('सु' इति अव्ययम् अतः अग्रे सु इत्यस्मात् सुप्-प्रत्ययः न प्रदर्शितः; अलौकिकविग्रहे तस्य सुप् भवति; पृतथक् सूत्रेण च तस्य लोपः |) सु + दृषदः → सु + दृषद् + जस् → '''कृत्तद्धितसमासाश्च''' (१.२.४६) → 'सु + दृषद् + जस्' इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा → '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → सु + दृषद् → (लुकि सति सुदृषद् दकारान्तः; प्रत्ययलक्षणे असन्तः) → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) → सुदृषदस् → सुदृषदस् इति असन्तरूपम् → सुदृषदस् + सु → '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः → अत्र दीर्घो न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिध्येत्, तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते, तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति | अप्रत्यये प्रातिपदिके (चन्दमस् इत्यस्मिन्, वेधस् इत्यस्मिन् च) अपि भवति |
'''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यस्य उदाहरणानि—
Line 1,487 ⟶ 1,460:
'''येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात् |''' '''तत्र''' ''''श्तिपा शपा'''-’ '''इति निषेधात्''' | यः धातुः अनुदात्तेत् यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित् यथा शीङ् स्वप्ने, तेषाम् अपि '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इति सूत्रे '''अनुदात्तेत्''' च '''ङित्''' चेत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति |
Line 1,494 ⟶ 1,465:
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)
अनेन श्तिप्-प्रत्ययेन निर्दिष्टं, शप्-प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच्-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रे शीङ्-धातोः गुणः विधीयते ङकारः इति इत्-संज्ञकवर्णम् अवलम्ब्य | ङकारः इति इत्-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम् इत्-संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात् एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम् अपेक्षितं, '''धातोः''' इति कृत्वा '''कर्तरि शप्''' (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति '''अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव''' |
Line 1,505 ⟶ 1,474:
‘'''चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्''' | '''चर्करीतं च्''' इति गणसूत्रस्य सङ्केतन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः '''चर्करीतम्''' इति वदन्ति; नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते | अनेन च '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण यङ्लुकि शपः लुक् भवति | तदर्थं ग्रन्थकारो वदति '''‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्''' |
'''शीङः सार्वधातुके गुणः''' (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शीङः अङ्गस्य गुणः सार्वधातुके''' |
Line 1,510 ⟶ 1,480:
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |
'''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्''' |
'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७१) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदितिङ्प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदितिङ्प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् स्वरितञितः | कर्तारम् अभिप्रैति इति कर्त्रभिप्रायम् (फलम्) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन् कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन् क्रियाफले | स्वरितञितः पञ्चम्यन्तम्, कर्त्रभिप्राये सप्तम्यन्तम्, क्रियाफले सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्''' |
Line 1,530 ⟶ 1,498:
'''चर्करीतं च''' इति गणसूत्रेण यङ्लुगन्तधातवः आदादिकाः | अतः तत्र शपः लुक् भवति, अदादिगणवत् | अत्र प्रथमतया '''कर्तरि शप्''' (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये | तदा '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति |
अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |
Line 1,535 ⟶ 1,504:
'''कर्तरि शप्''' (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः शप् प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |
'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात् '''लुक्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अदिप्रभृतिभ्यः शपः लुक्''' |