7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(5 intermediate revisions by 2 users not shown)
Line 66:

१) अस्य एकं फलंफलम्‌ इदं यत्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन '''धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |''' धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत्‌ शप्‌ न भवति, न वा शपं प्रबाध्य ये गणम्‌ अवलम्ब्य विशिष्टविकरणप्रत्ययाः तेऽपि न भवन्ति | शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः | सर्वान्‌ धातून्‌ सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम्‌ अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति |

२) '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमो भवति न वा इति विवेचनीयम्‌ | यथोक्तम्‌ अत्र यङ्लुकि इडागमस्य अवसरो नास्ति |

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |

Line 103:

'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) = वारं वारम्‌ अथवा अतिशयार्थे हलादि-एकाच्‌-धातुभ्यः यङ्‌-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ्‌ स्यात् | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | हल्‌ अदिर्यस्यआदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात्‌ हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन्‌ क्रियासमभिहारे | धातोः पञ्चम्यन्तम्‌, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एकाचः हलादेः धातोः यङ्‌ प्रत्ययः परश्च क्रियासमभिहारे''' |

Line 1,184:

'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङियङलुकि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |

Line 1,269:

'''यङो वा''' (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमो भवति | हलादिपित्‌-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्‌; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम्‌ | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम्‌ इदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ब्रूव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''यङः ईट्‌ वा''' '''हलि पिति सार्वधातुके''' |