page_and_link_managers, Administrators
5,094
edits
mNo edit summary |
No edit summary |
||
Line 1,493:
<big>अनेन श्तिप्-प्रत्ययेन निर्दिष्टं, शप्-प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच्-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रे शीङ्-धातोः गुणः विधीयते ङकारः इति इत्-संज्ञकवर्णम् अवलम्ब्य | ङकारः इति इत्-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम् इत्-संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात् एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम् अपेक्षितं, '''धातोः''' इति कृत्वा '''कर्तरि शप्''' (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति '''अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव''' |</big>
<big>परिभाषायाम् '''एकाच् ग्रहणम्''' इत्यस्य कथनेन 'एकाच्' घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति | यथा '''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०) इत्यनेन उपदेशे अनुदात्तात् एकाच: अङ्गात् इट् न भवति | अनेन इडागमः निषेधः | यथा डुकृञ् करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | कृ + तृच् → कर्ता | वह प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | वह् + तृच् → वोढः | किन्तु अयं निषेधः यङ्लुकि न भवति | तदर्थं 'जाहिता, जाहिष्यति, बेभेदिता इत्यादिषु स्थलेषु '''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०) इत्यनेन 'इट्' इत्यस्य निषेधो न भवति |</big>
Line 1,505 ⟶ 1,507:
<big>'''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्''' |</big>
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७१) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदितिङ्प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदितिङ्प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् स्वरितञितः | कर्तारम् अभिप्रैति इति कर्त्रभिप्रायम् (फलम्) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन् कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन् क्रियाफले | स्वरितञितः पञ्चम्यन्तम्, कर्त्रभिप्राये सप्तम्यन्तम्, क्रियाफले सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्''' |</big>
|