7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,487:
 
<big>'''येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात्‌ |''' '''तत्र''' ''''श्तिपा शपा'''-’ '''इति निषेधात्‌''' | यः धातुः अनुदात्तेत्‌ यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित्‌ यथा शीङ्‌ स्वप्ने, तेषाम्‌ अपि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रे '''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति |</big>
 
 
 
Line 1,498 ⟶ 1,497:
 
<big>अनेन श्तिप्‌-प्रत्ययेन निर्दिष्टं, शप्‌-प्रत्ययेन निर्दिष्टम्‌, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्‌, एकाच्‌-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन्‌ च उक्तं यत्‌ अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रे शीङ्‌-धातोः गुणः विधीयते ङकारः इति इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य | ङकारः इति इत्‌-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम्‌ इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य यत्‌ कार्यं तत्‌ न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात्‌ एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन्‌ इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत्‌ कार्यं तत्‌ सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम्‌ अपेक्षितं, '''धातोः''' इति कृत्वा '''कर्तरि शप्‌''' (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति '''अत एव श्यन्नादयो न, गणेन निर्देशात्‌, किं तु शबेव''' |</big>
 
 
 
Line 1,505 ⟶ 1,503:
 
<big>‘'''चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्‌''' | '''चर्करीतं च्''' इति गणसूत्रस्य सङ्केतन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः '''चर्करीतम्‌‍''' इति वदन्ति; नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते | अनेन च '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण यङ्लुकि शपः लुक्‌ भवति | तदर्थं ग्रन्थकारो वदति '''‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्‌''' |</big>
 
 
 
<big>'''शीङः सार्वधातुके गुणः''' (७.४.२१) = शीङ्‌-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्‌-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शीङः अङ्गस्य गुणः सार्वधातुके''' |</big>
 
 
 
<big>'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |</big>
 
 
 
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>
Line 1,516 ⟶ 1,519:
 
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७१) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदितिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदितिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌''' |</big>
 
 
 
 
Line 1,530 ⟶ 1,531:
 
<big>'''चर्करीतं च''' इति गणसूत्रेण यङ्लुगन्तधातवः आदादिकाः | अतः तत्र शपः लुक्‌ भवति, अदादिगणवत्‌ | अत्र प्रथमतया '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये | तदा '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ भवति |</big>
 
 
<big>अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्‌-विकरणप्रत्ययः भवति |</big>
Line 1,535 ⟶ 1,537:
 
<big>'''कर्तरि शप्‌''' (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः शप्‌ प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big>
 
 
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अदिप्रभृतिभ्यः शपः लुक्‌''' |</big>
page_and_link_managers, Administrators
5,094

edits