page_and_link_managers, Administrators
5,094
edits
No edit summary |
No edit summary |

Line 73:

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |
Line 217 ⟶ 216:

पुनः प्रश्नः उदेति— '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच्-प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङः लुक् प्रति नैमित्तकः; अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तकप्रत्ययाः सन्ति वा येषां माध्यमेन '''न धातुलोप आर्धधातुके''' (१.१.४) द्वारा गुणनिषेधः सिध्येत ? यथा अनीयर् अथवा अन्ये कृत्-प्रत्ययाः, यया रीत्या अच्-प्रत्ययः नैमित्तकः इति कारणतः लोलुव भवति न तु लोलव, एवमेव लू + यङ् + अनीयर् → लोलुवनीयं न तु लोलवनीयम् इति वा ? इति चेत्, नैव | '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच् इत्येव उक्तं यतोहि अच्-प्रत्ययः एव नैमित्तकः | अन्यः न कोऽपि प्रत्ययो वर्तते यः यङः लुक् प्रति नैमित्तकः स्यात् | लू + यङ् + अनीयर् → लोलवनीयम् |
Line 250 ⟶ 248:

वकारन्तधातवः—
Line 282 ⟶ 279:

मव्य्-धातोः यङः लुक् न भवति; अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुगन्तरूपं भवति |
Line 295 ⟶ 291:
* अस्-धातोः स्थाने भू-आदेशो न भवति | अस्-धातुश्च अजादिः अतः तस्य यङ्-प्रत्ययः एव न भवति; यङ् न भवति चेत् यङ्-लुक् अपि न भवति |
* अज्-धातोः स्थाने वी-आदेशः न भवति | अज्-धातुः अजादिः यस्मात् यङ्लुक् न भवति |
* चक्ष्-धातोः स्थाने ख्याञादेशो न भवति | चक्ष्-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |
* ब्रू-धातोः स्थाने वच्-आदेशो न भवति | ब्रू-धातुः हलादिः एकाच् अतः यङ् भवति; तस्मात् यङ्लुक् अपि भवति |

'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अस्तेः भूः आर्धधातुके''' |
Line 328 ⟶ 326:

'''यङोऽचि च''' (२.४.७४) इति सूत्रेण यङ्-प्रत्ययस्य विकल्पेन लुक् भवति | तदा युगपत् यङः लुक् अपि च '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वप्रसक्तिः | अयं लुक्-आदेशः अनैमित्तिकः किन्तु '''सन्यङोः''' (६.१.९) इत्यनेन यत् द्वित्वं भवति तस्य कृते निमित्तानि सन्ति— '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन द्रष्टव्यं यत् यस्य धातोः द्वित्वं तस्मिन् एकाच् अथवा अनेकाचः वर्तन्ते; '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्रष्टव्यं यत् तस्य आदौ अच्-वर्णः अस्ति अथवा हल्-वर्णः | तस्मात् '''सन्यङोः''' (६.१.९) इत्यस्य अपेक्षया '''यङोऽचि च''' (२.४.७४) अनैमित्तिकत्वात् अन्तरङ्गम् अस्ति | '''अल्पापेक्षमन्तरङ्गम्''' | द्वित्वकार्यं बहिरङ्गम् | इति कारणतः द्वित्वात् प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङः लुक् |
Line 337 ⟶ 334:

यङः लुगानन्तरं प्रश्नः उदेति यदा यङ्-प्रत्ययो नास्त्येव, तदा कथं '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वं स्यात् ?
Line 581 ⟶ 577:

'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये |अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभ्यासे झलां जश् चर् च''' '''संहितायाम्''' |
Line 721 ⟶ 716:

'''दीर्घोऽकितः''' (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | 'अकित्-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमो न भवति | दीर्घः प्रथमान्तम्, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः''' |
Line 764 ⟶ 758:
हु → हु हु → जु हु → जोहु इति यङ्लुगन्तधातुः
एवमेव—
Line 792 ⟶ 787:
ॠकारान्तधातूनां यङ्लुगन्तधातुः
तॄ → तॄ तॄ → तर् तॄ → ततॄ → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः
एवमेव—
Line 854 ⟶ 851:
कस् → कस् कस् → क कस् → च कस् → चनीकस् इति यङ्लुगन्तधातुः
एवमेव—
Line 898 ⟶ 896:

'''चरफलोश्च''' (७.४.८७) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्, फल्, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात् | चरश्च फल् च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात् '''नुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः''' |

'''उत्परस्यातः''' (७.४.८८) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासात् परस्य ह्रस्व-अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च | उत् प्रथमान्तं, परस्य षष्ठ्यन्तम्, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात् '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः''' |
Line 955 ⟶ 951:

६. हन्-धातोः यङ्लुगन्तधातुः
Line 1,171 ⟶ 1,166:
'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' '''अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः''' |
Line 1,188 ⟶ 1,182:
भञ्ज् →
Line 1,195 ⟶ 1,188:
जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |
Line 1,260 ⟶ 1,252:
'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |
हम्म् → हम्म् हम्म् → ह हम्म् → ज हम्म् → जंहम्म्
Line 1,290 ⟶ 1,281:
धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |
'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |

२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''' '''जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्''' |
Line 1,427 ⟶ 1,416:
अस्मिन् प्रसङ्गे, '''यङोऽचि च''' (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—

Line 1,467 ⟶ 1,455:
यङन्तप्रसङ्गे धातुः स्वयं ङित् अस्ति अतः ङित्त्वस्य स्वीकारे समस्या नास्ति; यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्-धातौ | एवमेव चन्द्रमस् इति प्रातिपदिकं स्वयम् असन्तम् अतः तस्य असन्त्वस्य स्वीकारे समस्या नास्ति | किन्तु 'सुदृषदस्' इत्यस्मिन् यः अस्-भागः, सः तु प्रत्ययलक्षणेन स्वीकृतम् | यतः असन्तत्वं केवलं प्रत्यये भवति इति नास्ति अपि तु प्रातिपदिकेषु अपि भवति अतः प्रत्ययलक्षणेन असन्तत्वं न मन्तव्यम् | '''असन्तत्वस्य प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणस्य असम्भवादिति भावः''' |
'चन्द्रमस् + सु' च 'सुदृषदस्+ सु' इत्यनयोः मध्ये कः भेदः ? चन्द्रमस् इति स्वभावेन प्रातिपदिकं; सुदृषदस् इति रूपं प्रत्ययलक्षणं कृत्वा साधितम् | अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयत्र भवति, अतः प्रत्ययलक्षणं कर्तुं न शक्यते | यङ्लुगन्तप्रसङ्गे अपि ङित्त्वं तादृशसाधारणधर्मः |
'''येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात् |''' '''तत्र''' ''''श्तिपा शपा'''-’ '''इति निषेधात्''' | यः धातुः अनुदात्तेत् यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित् यथा शीङ् स्वप्ने, तेषाम् अपि '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इति सूत्रे '''अनुदात्तेत्''' च '''ङित्''' चेत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति |