7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions
7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH (view source)
Revision as of 02:11, 8 June 2021
, 2 years agono edit summary
No edit summary |
Gargi Dixit (talk | contribs) No edit summary |
||
Line 843:
<big>२. <u>कस् ,पत्, पद् इति त्रयाणां धातूनां यङ्लुगन्तधातुः</u></big>
<big>'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' '''अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः''' |</big>
<big>कस् → कस् कस् → क कस् → च कस् → चनीकस् इति यङ्लुगन्तधातुः</big>
Line 853 ⟶ 857:
<big>पद् → पद् पद् → प पद् → पनीपद्</big>
<big>वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् चेति धातवः अनिदित्-धातूनां स्थाले वक्ष्यमाणाः |</big>
Line 1,158 ⟶ 1,164:
<big>'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्''' '''अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः''' |</big>
<big>कस् ,पत्, पद् इति त्रयाणां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |</big>
Line 1,168 ⟶ 1,176:
<big>'''जपजभदहदशभञ्जपशां च''' (७.४.८६) इत्यनेन दंश्, भञ्ज् इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |</big>
<big>दंश् → दश् दश् → द दश् → दन्दश् इति यङ्लुगन्तधातुः</big>
<big>भञ्ज् →</big>
<big>'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङि दश् इत्यस्य एव द्वित्वम्; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात् '''नुक्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः''' |</big>
<big>जप्, जभ्, दह्, पश् इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |</big>
Line 1,209 ⟶ 1,223:
<big>कुञ्च् → कुञ्च् कुञ्च् → कु कुञ्च् → चु कुञ्च् → चोकुञ्च्</big>
<big>एवमेव म्रुञ्च्, म्लुञ्च्, ग्लुञ्च्, कुन्थ्, बुन्द्, शुन्ध्, तुम्प्, त्रुम्प्, तुम्फ्, गुम्फ्, शुम्भ् |</big>
Line 1,239 ⟶ 1,255:
<big>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च |</big>
<big>हम्म् → हम्म् हम्म् → ह हम्म् → ज हम्म् → जंहम्म्</big>
<big>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् अनुस्वारस्य उपलक्षणम् | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात् '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अनुनासिकान्तस्य''' '''अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः''' |</big>
<big>अनेन सर्वे यङ्लुगन्तधातवः साधिताः |</big>
<big>सम्प्रति अस्य पाठस्य पूरणार्थं यङ्लुगन्तधातुभ्यः तिङन्तरूपाणि साधनीयानि | यङ्लुगन्तधातोः साधनम् आर्धधातुकप्रक्रियायाम् अन्तर्भवति | ततः तिङन्तसाधनं पुनः पृथक् कार्यम् | यङ्लुगन्तधातुभ्यः लट्, लोट्. लङ्, विधिलिङ् इत्येषां साधनं सार्वधातुकप्रक्रियायाम् अन्तर्गतम्; अवशिष्टषड् लकाराणां साधनम् आर्धधातुकप्रक्रियायाम् | अस्मिन् पाठे लट्, लोट्. लङ्, विधिलिङ् इत्येषां साधनविधिः प्रदर्श्यते; आर्धधातुकलकाराणां रूपसिधिः तत्तदार्धधातुकलकारपाठे क्रियते |</big>
Line 1,255 ⟶ 1,279:
<big>'''यङो वा''' (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्-सार्वधातुकस्य विकल्पेन ईट्-आगमो भवति | हलादिपित्-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम् | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम् इदं सूत्रम् | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात् '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ब्रूव ईट्''' (७.३.९३) इत्यस्मात् '''ईट्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''यङः ईट् वा''' '''हलि पिति सार्वधातुके''' |</big>
<big>यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | यङ्लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः—</big>
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big>
<big>धेयं यत् अत्-आदेशस्य तकारः '''हलन्त्यम्''' (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्''' (१.३.३) बाधितम् |</big>
<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
Line 1,267 ⟶ 1,299:
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः''' '''जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्''' |</big>
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big>
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्प्रत्ययाः एते | जुहोत्यादिगणे परस्मैपदे यथा , तथैव + '''यङो वा''' (७.३.९४) इत्यनेन विकल्पेन हलादिपित्-सार्वधातुकस्य विकल्पेन ईट्-आगमः | तर्हि यङ्लुगन्ते एते एव योजनीयाः—</big>
Line 1,374 ⟶ 1,410:
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
<big>'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
Line 1,386 ⟶ 1,426:
<big>यङन्तधातुः ङित् भवति | तस्मात् '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन अत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते | किन्तु यङ्लुगन्तधातुः अनुदात्तेत्, ङित्, स्वरितेत्, ञित् इत्येभ्यः भिन्नः इति कारणतः '''शेषात्कर्तरि परस्मैपदम्''' (१.३.७८) इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते |</big>
<big>अत्र प्रश्नः उदेति यत् यङ्लुक्-प्रक्रियायां यङ्-प्रत्ययः विधीयते, तदा तस्य लोपो भवति | धातुसंज्ञा-प्रसङ्गे अस्माभिः दृष्टं यत् धातुभ्यः यदा हि यङ्-प्रत्ययः विधीयते, तदा हि '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव | एवमेव यङ्प्रत्ययस्य लुकि सत्यपि किमर्थं न '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन ङित्त्वं मत्वा '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन यङ्लुगन्तधातुः अपि आत्मनेपदी स्यात् ?</big>
<big>अस्मिन् प्रसङ्गे, '''यङोऽचि च''' (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—</big>
<big><br />
"'''शेषात्कर्तरि'''- इति परस्मैपदम् | '''अनुदात्तङितः'''- इति तु न | ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् | अत एव '<nowiki/>'''सुदृषत्प्रासाद'''<nowiki/>' इत्यस्य '<nowiki/>'''अत्वसन्तस्य'''-’ इति दीर्घो न | येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘'''अनुदात्तङितः'''-’ इत्यनुबन्धनिर्देशात् | तत्र '<nowiki/>'''श्तिपा शपा'''-’ इति निषेधात् | अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव | ‘'''चर्करीतं च्'''<nowiki/>' इत्यदादौ पाठाच्छपो लुक् |”</big>
<big>अस्य अर्थः कः इति क्रमेण परिशीलयाम—</big>
<big><br />
'''ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः''' | ङित्त्वप्रत्ययस्य, ङित्त्व-अप्रत्ययस्य च, उभयोः स्वस्य स्वस्य
<big>(अग्रिमपरिच्छेदस्य पठनात् प्राक् अधोभागे परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा द्रष्टव्या |)</big>
Line 1,408 ⟶ 1,456:
<big><br />
राजपुरुषः = राज्ञः पुरुषः → राजन् + ङस् + पुरुष + सु → समाससंज्ञा → '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → अधुना 'राजन् + ङस् + पुरुष + सु' इति समुदायस्य प्रातिपदिकसंज्ञा → ङस्, सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ → '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च '''अवयव'''रूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → राजन् + पुरुष |</big>
<big><br />
प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | दृषद् इति दकारान्त-स्त्रीलिङ्गशब्दः, शिलाखण्डः इत्यर्थः; अग्रे इमं शब्दम् उपयुज्य समासः क्रियते उदाहरणत्वेन, 'सुदृषद्' ('सु' इति अव्ययम् अतः अग्रे सु इत्यस्मात् सुप्-प्रत्ययः न प्रदर्शितः; अलौकिकविग्रहे तस्य सुप् भवति; पृतथक् सूत्रेण च तस्य लोपः |) सु + दृषदः → सु + दृषद् + जस् → '''कृत्तद्धितसमासाश्च''' (१.२.४६) → 'सु + दृषद् + जस्' इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा → '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → सु + दृषद् → (लुकि सति सुदृषद् दकारान्तः; प्रत्ययलक्षणे असन्तः) → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) → सुदृषदस् → सुदृषदस् इति असन्तरूपम् → सुदृषदस् + सु → '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः → अत्र दीर्घो न भवति यतोहि यत् प्रत्ययलक्षणं कृतं येन असन्तत्वं सिध्येत्, तत् प्रत्ययलक्षणं न भवति यतोहि तस्मिन् प्रत्यये यत् असन्तत्वं वर्तते, तत् असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति | अप्रत्यये प्रातिपदिके (चन्दमस् इत्यस्मिन्, वेधस् इत्यस्मिन् च) अपि भवति |</big>
<big>'''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यस्य उदाहरणानि—</big>
Line 1,433 ⟶ 1,484:
<big>'''येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात् |''' '''तत्र''' ''''श्तिपा शपा'''-’ '''इति निषेधात्''' | यः धातुः अनुदात्तेत् यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित् यथा शीङ् स्वप्ने, तेषाम् अपि '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इति सूत्रे '''अनुदात्तेत्''' च '''ङित्''' चेत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति |</big>
<big>श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च |</big>
Line 1,442 ⟶ 1,495:
<big>अनेन श्तिप्-प्रत्ययेन निर्दिष्टं, शप्-प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच्-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा '''शीङः सार्वधातुके गुणः''' (७.४.२१) इति सूत्रे शीङ्-धातोः गुणः विधीयते ङकारः इति इत्-संज्ञकवर्णम् अवलम्ब्य | ङकारः इति इत्-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम् इत्-संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात् एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम् अपेक्षितं, '''धातोः''' इति कृत्वा '''कर्तरि शप्''' (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति '''अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव''' |</big>
Line 1,448 ⟶ 1,502:
<big>‘'''चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्''' | '''चर्करीतं च्''' इति गणसूत्रस्य सङ्केतन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः '''चर्करीतम्''' इति वदन्ति; नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते | अनेन च '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण यङ्लुकि शपः लुक् भवति | तदर्थं ग्रन्थकारो वदति '''‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्''' |</big>
Line 1,454 ⟶ 1,509:
<big>'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |</big>
<big>'''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् '''लस्य''' इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्''' इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्''' |</big>
Line 1,476 ⟶ 1,533:
<big>'''कर्तरि शप्''' (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः शप् प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big>
|