7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
m (Protected "07 - यङ्लुगन्तधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 122:

'''लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्''' (३.१.२४) = लुप्‌, सद्‌, चर्‍चर्, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इत्यस्मात्‌ '''नित्यम्‌''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''यङ्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम्''' |

Line 216:

पुनः प्रश्नः उदेति— '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच्‌-प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङः लुक्‌ प्रति नैमित्तकः; अच्‌ इति उक्तं चेत्‌ तादृशाः अन्ये अपि नैमित्तकप्रत्ययाः सन्ति वा येषां माध्यमेन '''न धातुलोप आर्धधातुके''' (१.१.४) द्वारा गुणनिषेधः सिध्येत ? यथा अनीयर्‍अनीयर् अथवा अन्ये कृत्‌-प्रत्ययाः, यया रीत्या अच्‌-प्रत्ययः नैमित्तकः इति कारणतः लोलुव भवति न तु लोलव, एवमेव लू + यङ्‌ + अनीयर्‌अनीयर् → लोलुवनीयं न तु लोलवनीयम्‌ इति वा ? इति चेत्‌, नैव | '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच्‌ इत्येव उक्तं यतोहि अच्‌-प्रत्ययः एव नैमित्तकः | अन्यः न कोऽपि प्रत्ययो वर्तते यः यङः लुक्‌ प्रति नैमित्तकः स्यात्‌ | लू + यङ्‌ + अनीयर्‌अनीयर् → लोलवनीयम्‌ |

Line 264:

'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्‍ज्वर्, त्वर्‍त्वर्, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |

Line 484:
पठ्‌ → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |

एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‍तुर्, भस्‌ |

Line 492:

'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर्‌शर् परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर्‌शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |

Line 500:

एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर्‍स्फुर् |

Line 526:

वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर्‍वर् वृष्‌ → व वृष्‌

कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर्‍कर् कृष्‌ → क कृष्‌ → च कृष्‌

हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर्‍हर् हृष्‌ → ह हृष्‌ → ज हृष्‌

Line 536:
ऋकारान्तधातवः—

भृ → भृ भृ → भर्‍भर् भृ → भ भृ → ब भृ

हृ → हृ हृ → हर्‍हर् हृ → ह हृ → ज हृ

कृ → कृ कृ → कर्‍कर् कृ → क कृ → च कृ

तॄ → तॄ तॄ → तर्‍तर् तॄ → त तॄ

Line 562:

कृ → कृ कृ → कर्‍कर् कृ → क कृ → च कृ

खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌
Line 570:
ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌

घृ → घृ घृ → घर्‌घर् घृ → झ घृ → ज घृ

हृ → हृ हृ → हर्‍हर् हृ → ह हृ → ज हृ

हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌
Line 578:

'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये |अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च''' '''संहितायाम्‌''' |

Line 634:

अधुना '''अभ्यासे चर्च''' (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्‌ अतः अङ्गकार्यं न स्यात्‌ इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु '''अभ्यासे चर्च''' (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम्‌ अस्ति असिद्धत्वम्‌; असिद्धत्वम्‌ अपेक्षते, तदर्थं तत्र स्थापितम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) असिद्धमपि न भवति कदाचित्‌ | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम्‌ असिद्धम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु '''अभ्यासे चर्च''' (८.४.५४) केवलम्‌ अनुवृत्तिवशात्‌ उक्तस्थाने अस्ति | '''झलां जश्झशि''' (८.४.५३) इत्यस्मात्‌ '''जश्‌''' इति अनुवर्तते प्रकृतसूत्रे | अपि च '''अभ्यासे चर्च''' (८.४.५४) इति सूत्रात्‌ '''चर्‌चर्''' इत्यस्य अनुवृत्तिः भवति '''खरि च''' (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत्‌ '''अभ्यासे चर्च''' (८.४.५४) अङ्गकार्यमेव यद्यपि '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति |

Line 775:

अनेन सूत्रेण रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र्‍र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—

Line 789:
ॠकारान्तधातूनां यङ्लुगन्तधातुः

तॄ → तॄ तॄ → तर्‍तर् तॄ → ततॄ → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः

एवमेव—
Line 811:

अत्र प्रश्नः उदेति यत्‌ किमर्थं '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशः न स्यात्‌ ? तातॄ → '''ॠत इद्धातोः''' (७.१.१००) → ताति → '''उरण्‌ रपरः''' (१.१.५१) → तातिर्‍तातिर् इति किमर्थं न स्यात्‌ ? यद्यपि अङ्गकार्यमस्ति, यङ्लुक् अथवा अन्यं प्रत्ययं निमितीकृत्य नास्ति किल ? किन्तु तथापि अङ्गकार्यम्‌ इति तु अस्ति | अत्र यङः लुक्‌ जातम्‌ इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन इदं कार्यं निषिद्धम्‌ |

Line 893:

४. चर्‌चर्, फल्‌ इति द्वयोः धात्वोः यङ्लुगन्तधातुः

'''चरफलोश्च''' (७.४.८७) = चर्‌चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‍चर्, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |

'''उत्परस्यातः''' (७.४.८८) = चर्‌चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |

चर्‌चर्चर्‌चर् चर्‌चर् → च चर्‌चर्चञ्चर्‌→चञ्चर्→ चञ्चुर्‌‍चञ्चुर् ति यङ्लुगन्तधातुः

फल् → फल् फल् → प फल् → पम्फल्‌ → पम्फुल्‌ इति यङ्लुगन्तधातुः
Line 1,007:

अनेन रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र्‍र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—

नृत्‌ → नृत्‌ नृत्‌ → न नृत्‌ → नरीनृत्‌, नरिनृत्‌, नर्नृत्‌ इति यङ्लुगन्तधातवः
Line 1,400:
नेनी + ति → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → नेने + ति

चर्कृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → चर्कर्‍चर्कर् + ति

लेलिख्‌ + ति → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः → लेलेख्‌ + ति
page_and_link_managers, Administrators
5,094

edits