7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions
7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI (view source)
Revision as of 02:35, 8 June 2021
, 2 years agono edit summary
No edit summary |
Gargi Dixit (talk | contribs) No edit summary |

Line 146:
'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम्''' '''संहितायाम्''' |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
Line 184 ⟶ 182:
'''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत् तस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस् च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ''' |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
Line 194:
दाधा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव यथा दादा इत्यस्य; लोट्-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम् | अन्यच्च इतोऽपि एकं कार्यम् अस्ति—
'''दधस्तथोश्च''' (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्-धातोः बशो भष् स्यात् तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्-सन्धिकार्यम् एव, अष्टमाध्याये च | झष्-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्, भ्, घ्, ढ्, ध् | बश्-प्रत्याहारे ब्, ग्, ड्, द् इत्येते वर्णाः | भष्-प्रत्याहारे भ्, घ्, ढ्, ध् इत्येते वर्णाः | तश्च थ् च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''एकाचो बशो भष् झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यस्मात् '''बशो''', '''भष्''', '''झषन्तस्य''', '''स्ध्वोः''' इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''झषन्तस्य दधः बशः भष्''' '''स्ध्वोः तथोः च''' |
Line 223 ⟶ 225:

'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, '''ज्या''', वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |
Line 467 ⟶ 471:
४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वम् | पापॄ + अति → पापुर् + अति → पापुरति

अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
▲उस्-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |

Line 496 ⟶ 497:
१) अङ्गकार्यम्

हलन्तधातवः पञ्च श्रेणीषु विभज्यन्ते—
Line 514 ⟶ 518:
सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि | तदा पृथक्तया क्रमेण अनिदित्-धाततूनां, सम्प्रसारणि-
▲धाततूनाम्, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |

Line 528 ⟶ 531:

हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५); तदा सन्धिकार्यम् | लेलिख् + तः → लेलिक्तः | मोमुद् + तः → मोमुत्तः | वरीवृष् + तः → वरीवृष्टः |
Line 540 ⟶ 543:

'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्-सार्वधातुकप्रत्यये परे | न अव्ययपदम्, अभ्यस्तस्य षष्ठ्यन्तम्, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात् '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |
Line 637 ⟶ 643:

श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च |

अनेन श्तिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणम् |
Line 668 ⟶ 680:

धेयं यत् अस्मिन् सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ् | वेञ्-धातोः स्थाने लिट्-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; '''ग्रहि ज्या वयि''' इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्-लकारे | लिट्-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्-धातोः सम्प्रसारणं प्राप्यते वच्यादौ ('''वचिस्वपियजादीनां किति''' ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम् इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात् सम्प्रसारणं न कुत्रापि भवति | वेञ् → वे → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वा वा → वावा |
Line 693 ⟶ 708:

'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मः धातोः पदस्य अन्ते नः''' |
Line 743 ⟶ 761:

'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति''' |▼
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे |▼

'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''विड्वनोरनुनासिकस्यात्''' (६.४.४१) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' |
Line 794 ⟶ 820:
'''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन '''अतो हेः''' (६.४.१०५) इति सूत्रस्य दृष्ट्या '''हन्तेर्जः''' (६.४.३६) इति सूत्रेण यत् कार्यं जातं, तत् कार्यम् असिद्धम् अस्ति अतः '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या हन्-धातोः स्थाने ज-आदेशः न जातः | तस्मात् अङ्गम् अदन्तं नास्ति, अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक् न भवति |
हन् + हि → ज + हि → जहि▼
हन् + हि → ज + हि → जहि
▲</font
अनेन सर्वेषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तचिन्तनं परिसमाप्तम् |

Swarup - August 2018
[https://static.miraheze.org/samskritavyakaranamwiki/e/e4/%E0%A5%A6%E0%A5%AE_-_%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%B2%E0%A5%81%E0%A4%97%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%82%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%87%E0%A4%B7%E0%A5%81_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF.pdf ०८_-_यङ्लुगन्तधातूनां_सार्वधातुकलकारेषु_तिङन्तरूपाणि.pdf] (file size: 111 KB)