7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

no edit summary
(added spacing)
No edit summary
Line 405:
 
शॄ → शाशॄ
 
 
 
Line 473 ⟶ 474:
 
 
 
<font size="4"></font>
 
 
<font size="4"></font>
 
अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—
 
 
<font size="4"></font>
 
उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
 
 
<font size="4"></font><font size="4"></font>
Line 490 ⟶ 494:
 
'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |
 
 
<font size="4"></font><font size="4"></font>
 
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
<font size="4"></font><font size="4"></font>
 
अनेन अजन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु चिन्तनं समाप्तम्‌ |
 
 
<font size="4"></font><font size="4"></font>
 
<u>हलन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि</u>
 
 
<font size="4"></font><font size="4"></font>
Line 542 ⟶ 550:
 
सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि | तदा पृथक्तया क्रमेण अनिदित्‌-धाततूनां, सम्प्रसारणि-
 
 
<font size="4"></font>
Line 548 ⟶ 557:
 
धाततूनाम्‌, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |
 
 
 
<font size="4"></font><font size="4"></font>
Line 556 ⟶ 567:
 
२) लघूपधधातुः इति चेत्‌ अङ्गकार्यं साधनीयं, तदा सन्धिकार्यं, प्रकृति-प्रत्यययोः मेलनं च | अत्र अङ्गकार्यं किमिति प्रदर्श्यते—
 
 
 
<font size="4"></font><font size="4"></font>
 
हलादिषु पित्सु = गुणः, '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन; तदा सन्धिकार्यम्‌ | लिख्‌ → लेलिख्‌ + ति → लेलेख्‌ + ति → लेलेक्ति | मुद्‌ → मोमुद्‌ + ति → मोमोद्‌ + ति → मोमोत्ति | वृष्‌ → वरीवृष्‌ + ति → वरीवर्ष्‌ + ति → वरीवर्ष्टि |
 
 
<font size="4"></font>
 
अजादिषु पित्सु = गुणनिषेधः, '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यनेन | लेलिख्‌ + ईति → लेलिखीति | मोमुद्‌ + ईति → मोमुदीति | वरीवृष्‌ + ईति → वरीवृषीति |
 
 
<font size="4"></font>
 
हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५); तदा सन्धिकार्यम्‌ | लेलिख्‌ + तः → लेलिक्तः | मोमुद्‌ + तः → मोमुत्तः | वरीवृष्‌ + तः → वरीवृष्टः |
 
 
<font size="4"></font>
 
अजादिषु अपित्सु = गुणनिषेधः, '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | लेलिख्‌ + अति → लेलिखति | मोमुद्‌ + अति → मोमुदति | वरीवृष्‌ + अति → वरीवृषति |
 
 
<font size="4"></font><font size="4"></font>
Line 587 ⟶ 600:
 
'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्‌-सार्वधातुकप्रत्यये परे | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |
 
 
<font size="4"></font><font size="4"></font>
 
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' |
 
 
 
 
एतदाधारेण यथानिर्दिष्टम्‌ अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
 
 
 
<font size="4"></font><font size="4"></font>
Line 697 ⟶ 714:
 
 
<font size="4"></font>
 
'''ऊदुपधाया गोहः''' (६.४.८९) = गोहोऽङ्गस्य उपधायाः ऊकारादेशो भवति अजादौ प्रत्यये परे | गुह उपधाया ऊत्‌ स्याद्‌ गुणहेतावजादौ प्रत्यये | अजादौ प्रत्यये परे यत्र गुह्‌-धातोः उपधागुणो भवति, तत्र तस्य गोह्‌-धातुरूप्यङ्गस्य ओकारस्य ऊकारादेशो भवति | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गोहः अङ्गस्य उपधायाः ऊत्‌ अचि''' |
 
<font size="4"></font>
 
 
<font size="4"></font>
Line 722 ⟶ 739:
 
हम्म्‌ → जंहम्म्‌
 
 
 
Line 727 ⟶ 745:
 
'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |
 
 
<font size="4"></font>
 
'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अनुनासिकान्तस्य''' '''अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः''' |
 
 
<font size="4"></font>
Line 753 ⟶ 773:
 
'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्‌, ङिति सप्तम्यन्तम्‌, च अव्ययम्‌, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्‌''' |
 
 
<font size="4"></font><font size="4"></font>
Line 793 ⟶ 814:
 
धेयं यत्‌ अस्मिन्‌ सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ्‌ | वेञ्‌-धातोः स्थाने लिट्‌-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्‌-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; '''ग्रहि ज्या वयि''' इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्‌-लकारे | लिट्‌-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्‌-धातोः सम्प्रसारणं प्राप्यते वच्यादौ ('''वचिस्वपियजादीनां किति''' ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम्‌ इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात्‌ सम्प्रसारणं न कुत्रापि भवति | वेञ्‌ → वे → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वा वा → वावा |
 
 
<font size="4"></font><font size="4"></font>
Line 807 ⟶ 829:
 
 
<font size="4"></font>
 
२) '''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | त्रयः धातवः |
 
 
<font size="4"></font>
 
३) '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | अवशिष्ट-धातवः | उपर्युक्तद्वाभ्यां सूत्राभ्यां ये नव धातवः कथिताः, तान्‌ धातून्‌ अतिरिच्य अवशिष्टानाम्‌ अनुनासिकान्तानाम्‌ अनेन सूत्रेण उपधादीर्घो भवति |
 
 
<font size="4"></font>
Line 830 ⟶ 853:
 
 
<font size="4"></font><font size="4"></font>
 
मकारान्तानाम्‌ अपदत्वे सति, म्‌-स्थाने नकारः—
 
 
<font size="4"></font><font size="4"></font>
Line 839 ⟶ 862:
 
 
<font size="4"></font><font size="4"></font>
 
एषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि वक्तव्यानि—
Line 894 ⟶ 916:
 
 
<font size="4"></font>
 
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |
Line 901 ⟶ 922:
 
'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |
 
 
<font size="4"></font><font size="4"></font>
Line 919 ⟶ 941:
 
 
<font size="4"></font><font size="4"></font>
 
'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |
 
 
<font size="4"></font><font size="4"></font>
Line 930 ⟶ 952:
 
लोटि—
 
 
 
 
केषुचित्‌ स्थलेषु '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन अभीयकार्यप्रसङ्गवशात्‌ '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम्‌ असिद्धम्‌ इति कारणतः हि-प्रत्ययस्य लुक्‌ न भवति | अस्य उदाहरणम्‌ उपदिष्ट-हन्‌-धातोः प्रसङ्गे लभ्यते |
 
 
<font size="4"></font>
Line 942 ⟶ 966:
 
 
<font size="4"></font><font size="4"></font>
 
'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |
Line 949 ⟶ 972:
 
हन्‌ + हि → ज + हि
 
 
<font size="4"></font><font size="4"></font>
Line 957 ⟶ 981:
 
'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |
 
 
<font size="4"></font><font size="4"></font>
Line 963 ⟶ 988:
 
 
<font size="4"></font><font size="4"></font>
 
'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌ हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |
 
 
<font size="4"></font><font size="4"></font>
 
'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अतो हेः''' (६.४.१०५) इति सूत्रस्य दृष्ट्या '''हन्तेर्जः''' (६.४.३६) इति सूत्रेण यत्‌ कार्यं जातं, तत्‌ कार्यम्‌ असिद्धम्‌ अस्ति अतः '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या हन्‌-धातोः स्थाने ज-आदेशः न जातः | तस्मात्‌ अङ्गम्‌ अदन्तं नास्ति, अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ न भवति |
teachers
247

edits