7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 511:
 
 
<font size="4"></font><font size="4"></font>
 
यथासामान्यम् अत्र द्विस्तरीयकार्यम्—
Line 600 ⟶ 599:
 
'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्‌-सार्वधातुकप्रत्यये परे | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |
 
 
 
Line 716:
 
'''ऊदुपधाया गोहः''' (६.४.८९) = गोहोऽङ्गस्य उपधायाः ऊकारादेशो भवति अजादौ प्रत्यये परे | गुह उपधाया ऊत्‌ स्याद्‌ गुणहेतावजादौ प्रत्यये | अजादौ प्रत्यये परे यत्र गुह्‌-धातोः उपधागुणो भवति, तत्र तस्य गोह्‌-धातुरूप्यङ्गस्य ओकारस्य ऊकारादेशो भवति | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गोहः अङ्गस्य उपधायाः ऊत्‌ अचि''' |
 
 
<font size="4"></font>
 
 
 
Line 723 ⟶ 725:
 
३) अनिदित्‌-धातवः
 
 
 
<font size="4"></font><font size="4"></font>
Line 747 ⟶ 751:
 
 
 
<font size="4"></font>
 
 
'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अनुनासिकान्तस्य''' '''अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः''' |
 
 
<font size="4"></font>
 
<font size="4"></font>
Line 769 ⟶ 773:
 
अनेन श्तिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणम्‌ |
 
 
<font size="4"></font><font size="4"></font>
Line 775 ⟶ 780:
 
 
<font size="4"></font><font size="4"></font>
 
ग्रह्‌ → जाग्रह्‌
Line 806 ⟶ 810:
 
भ्रस्ज पाके → भ्रस्ज्‌ → बाभ्रस्ज्
 
 
 
<font size="4"></font><font size="4"></font>
Line 814 ⟶ 820:
 
धेयं यत्‌ अस्मिन्‌ सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ्‌ | वेञ्‌-धातोः स्थाने लिट्‌-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्‌-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; '''ग्रहि ज्या वयि''' इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्‌-लकारे | लिट्‌-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्‌-धातोः सम्प्रसारणं प्राप्यते वच्यादौ ('''वचिस्वपियजादीनां किति''' ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम्‌ इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात्‌ सम्प्रसारणं न कुत्रापि भवति | वेञ्‌ → वे → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वा वा → वावा |
 
 
 
Line 819 ⟶ 826:
 
५) अनुनासिकान्त-धातवः
 
 
<font size="4"></font><font size="4"></font>
Line 864 ⟶ 872:
 
एषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि वक्तव्यानि—
 
 
 
<font size="4"></font><font size="4"></font>
Line 943 ⟶ 953:
 
'''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्‌ङित्‌-प्रत्यये परे | क्विश्च झल्‌ तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''नोपधायाः''' (६.४.७) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''क्विझलोः क्ङिति''' इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः''' '''क्विझलोः क्ङिति''' |
 
 
 
Line 974 ⟶ 985:
 
 
<font size="4"></font><font size="4"></font>
 
अधुना अङ्गम्‌ अदन्तं जातम्‌ अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ विधीयते |
Line 983 ⟶ 993:
 
 
<font size="4"></font><font size="4"></font>
 
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |
teachers
247

edits