7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
m (Protected "09 - यङन्तधातवः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 32:
 
<big>पुनस्स्मरणत्वेन वक्तव्यं—यङन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम्‌ आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्‌, णिच्‌, यङ्‌ इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्‌') विधीयते सः आर्धधातुकसंज्ञकः चेत्‌; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्‌-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्‌ | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम्‌ आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे विशिष्टकार्यं नास्ति यतोहि सर्वे यङन्तधातवः अदन्ताः | आत्मनेपदिनश्च | यङन्तेभ्यः शप्‌ विधीयते अतः भ्वादिगणे आत्मनेपदिधातुभ्यः रूपाणि यथा भवन्ति, तथैव अत्रापि |</big>
 
 
 
<big>यङन्त्-प्रक्रिया अनिडादिषु अन्यतमा | यङ्‌-प्रत्ययः वलादिः नास्ति, अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्य वशात्‌ इडागमस्य अवसरः न भवति | प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङ्लुक्‌, यङ्‌ च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः | एतावता प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङ्लुक्‌ इत्येते समाप्ताः; सम्प्रति यङन्तप्रक्रिया | यङ्लुक्‌ प्रथमं कारितं यतोहि तस्मिन्‌ यङ्‌-निमित्तीकृत्य अङ्गकार्यं नास्ति | यङि अङ्गकार्यस्य बाहुल्यम्‌ इति कारणेन अधिकं जाटिल्यम्‌ |</big>
Line 79 ⟶ 81:
<big><br /></big>
 
<big>अत्र प्रश्नः उदेति यत्‌ गत्यर्थकधातवः के | प्रायः ३५० गत्यर्थकधातवः सन्ति | ये ये धातवः गमनार्थे सन्ति, ते सर्वे गत्यर्थकाः | अत्र धेयं यत्‌ केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः | अनेन '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः | अपरस्मिन्‌ प्रसङ्गे '''गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च''' (३.४.७२) इत्यनेन गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः धातुभ्यः क्त-प्रत्ययः कर्त्रर्थे अपि विधीयते | अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक्‌ उक्ताः इत्यस्मात्‌ गत्यर्थे सकर्मकधातूनामेव ग्रहण्म्‌ग्रहणम्‌ | अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे क्त-प्रत्ययो भवति | बालकः ग्रामं गतः | अत्र भ्वादौ धावु गतिशुद्धयोः इति अकर्मक-धाव्-धातोः अकर्मकत्वात्‌ एव कर्त्रर्थे क्त-प्रत्ययो भवति | किन्तु प्रकृते, '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम्‌ |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,269

edits