7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 371:
<big><br /></big>
 
<big>यथा भू + य → भू भू य | यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन्‌ द्विवारम्‌ उच्चारणं जातंजातम्‌ अतः तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |</big>
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
<big>यथा भू + य → भू भू य | द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | अत्र 'भू' इत्यस्य द्वित्वं कृतं; द्वयोः 'भू'-भागयोः समुदायः 'भू भू' अतः 'भू भू' इत्यस्य एव अभ्यस्तसंज्ञा न तु  'भू भू य' इत्यस्य | तथैव सर्वत्र | यस्य द्विवारंद्विवारम्‌ उच्चारणं जातं, तस्य द्वित्वकृतसमुदायः एव अभ्यस्तसंज्ञकः |</big>
 
 
Line 421:
 
 
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितं; इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषतः द्वित्वार्थं दत्तौ । परन्तु द्वावपि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वित्वविषये प्रयोज्यौ भवितुम्‌ अर्हतः ।</big>
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं कृत्वा |  </big>
 
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं कृत्वा |  </big>
 
 
 
Line 427 ⟶ 430:
 
 
<big>द्वितीयः सिद्धान्तः एवम्‌ अस्ति—भाष्यकारः प्रतिपादयति यत्‌ उपदिष्टरूपैः मनसि बुद्धिः जायते | प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित्‌ परिचितरूपं प्रविष्टं भवति—धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति | तस्य बुद्धेः महत्त्वम्‌ अस्ति; यावच्छक्यं बुद्धिम्‌ अनुसृत्य प्रक्रिया साधनीया | यथा पठ्‌ + य इति स्थले पठ्‌ इति बुद्धिः अस्ति; स च 'पठ‌'-धातुः अर्थवान्‌ | अतः यावत्‌ शक्यं तस्य विभागः न करणीयः | बुद्धिसिद्धान्तम्‌ अनुसृत्य पठ्‌ य → 'पठ्‌ पठ्‌ य' इति द्वित्वं कार्यं न तु 'प प ठ्य्' | किमर्थम्‌ इति चेत्‌, ‘प' इति भागः बुद्धिः नास्ति, अर्थवान्‌ नास्ति | अत्र प्रश्नः उदेति यत्‌ तथा अस्ति चेत्‌ बुद्धिम्‌ अनुसृत्य अट्‌ य → 'अट्‌ अट्‌ य' इति रीत्या द्वित्वं करणीयं न तु 'अ ट्य ट्य' | तर्हि किमर्थंकिमर्थम्‌ 'अट्‌ अट्‌ य' इति रीत्या  द्वित्वं न करणीयम्‌ ? यतोहि तथा क्रियते चेत्, इष्टं रूपं न सिध्यति | अतः बुद्धिंबुद्धिम्‌ अनुसृत्य कुर्मः चेत्‌ कुत्रचित्‌ नियमस्य पालनं कर्तुं शक्नुमः कुत्रचित्‌ कर्तुं न शक्नुमः | तथापि विष्णुकान्थः पाण्डेयः नाम्ना जयपुर -विश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत्‌ अनेन नियमेन द्वित्वं करणीयम्‌ |</big>