7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions
7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH (view source)
Revision as of 17:33, 27 January 2022
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 889:
<big><br /></big>
<big>सिद्धान्तकौमुद्याम् 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्' इति वृत्तिः | तत् कथम् इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद् 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम् | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत् ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम् | सामानाधिकरण्यं वर्तते चेत्, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात् | एवञ्च '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात् | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्-धातुः ? 'कारणम्' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्-धातोः द्विर्वचनात् प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम् अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत् अभ्यस्तसंज्ञायाः यः
<big><br /></big>
|