7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,291:
 
<big>धेयं यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यनेन गॄ-धातोः लत्वे सति '''हलि च''' (८.२.७७) इत्यनेन उपधायाम्‌ इकः दीर्घो न भवति यतोहि अनेन सूत्रेण रेफान्तानां वकारान्तानाम्‌ एव धातूनाम्‌ उपधा-दीर्घो भवति | प्रकृतौ यद्यपि गॄ-धातुः रेफान्तः जातः, तथापि सम्प्रति लकारान्तः अस्ति अतः '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिर्नास्ति |</big>
 
 
<big>प्रश्नः उदेति यत्‌ ग्रो यङि (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतः सार्वधातुकप्रक्रियाम्‌ अतिरिच्य सर्वत्र औपदेशिक-आतिदेशिकधातुसम्बद्धप्रक्रिया समाना | केवलम्‌ एकस्मिन्नेव स्थले औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति | येषां धातूनां विकरणं नोक्तं, तेषां सर्वेषां विकरणप्रत्ययः शप्‌ एव—भ्वादौ, अदादौ, जुहोत्यादौ, चुरादौ, अपि च सर्वेषां आतिदेशिकदातूनां कृते | अन्ततो गत्वा विकरणप्रत्ययाय एतत्‌ सर्वं कृतम्‌ | सम्पूर्णधातुपाठः दश धातुगणम्‌ अधिकृत्य साधितं; सम्पूर्णरीत्या विकरणप्रत्ययानां कृते | धातुगणनिमित्तकविकरणप्रत्ययं त्यक्त्वा औपदेशिक-आतिदेशिकधात्वोः मध्ये कोऽपि भेदः नास्ति | आहत्य यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते तत्र 'औपदेशिक'-धातवः भवन्ति; अन्यत्र आवश्यकतायाः अभावे कुत्रापि 'औपदेशिक'-नामकधातुः न भवति | अन्यत्र धातुमात्रम्‌ |</big>
 
 
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि आतिदेशिकधातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च औपदेशिकधातुः समाप्तः |  </big>
 
 
<big>एवं सति कथं वा '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | '''ग्रो यङि''' (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य्' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → '''ग्रो यङि''' (८.२.२०), '''सन्यङोः''' (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |</big>
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणाम्‌ वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, हलि च (८.२.७७) अपि तथा |</big>
 
<big><br /></big>
Line 1,456 ⟶ 1,471:
<big>एवमेव—</big>
 
<big>पत्‌ + यङ्‌ →</big>
 
<big>पद्‌ + यङ्‌ →</big>
 
<big><br /></big>
Line 1,478 ⟶ 1,493:
<big><br /></big>
 
<big>यथादृष्टं पूर्वं, '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे | अदुपध-अनुनासिकान्त-धातूनां द्वित्वाभ्यासकार्ये सति एदादृषीएतादृशी स्थितिः उत्पद्यते | यथा गम्‌ → जगम्‌ | अत्र अङ्गम्‌ अनुनासिकान्तम्‌, अभ्यासश्च अदन्तः | एवमेव तन्‌ → ततन्‌, यम्‌ → ययम्‌, रम्‌ → ररम्‌, कण्‌ → चकण्‌</big>
 
<big><br /></big>