7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,575:
<big><br /></big>
 
<big>'''चरफलोश्च''' (७.४.८७) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‌, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वःतयोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
 
<big>'''उत्परस्यातः''' (७.४.८८) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits