7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,297:
<big>प्रश्नः उदेति यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत्‌ औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |</big>
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतः सार्वधातुकप्रक्रियाम्‌ अतिरिच्य सर्वत्र औपदेशिक-आतिदेशिकधातुसम्बद्धप्रक्रिया समाना | केवलम्‌ एकस्मिन्नेव स्थले औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति | येषां धातूनां विकरणं नोक्तं, तेषां सर्वेषां विकरणप्रत्ययः शप्‌ एव—भ्वादौ, अदादौ, जुहोत्यादौ, चुरादौ, अपि च सर्वेषां आतिदेशिकदातूनां कृते | अन्ततो गत्वा विकरणप्रत्ययाय एतत्‌ सर्वं कृतम्‌ | सम्पूर्णधातुपाठः दश धातुगणम्‌ अधिकृत्य साधितं; सम्पूर्णरीत्या विकरणप्रत्ययानां कृते | धातुगणनिमित्तकविकरणप्रत्ययं त्यक्त्वा औपदेशिक-आतिदेशिकधात्वोः मध्ये कोऽपि भेदः नास्ति | आहत्य यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते तत्र 'औपदेशिक'-धातवः भवन्ति; अन्यत्र आवश्यकतायाः अभावे कुत्रापि 'औपदेशिक'-नामकधातुः न भवति | अन्यत्र धातुमात्रम्‌ |</big>
 
 
<big>(२) '''भावे''' (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्‌-प्रत्ययः सामान्यः, स्त्रियां च क्तिन्‌ | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्‌-प्रत्ययः, क्तिन्‌-प्रत्ययः च न विधीयेते, स्थाने '''अ प्रत्ययात्‌''' (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन्‌ सूत्रे साक्षात्‌ प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम्‌ अस्ति— प्रत्ययात्‌ धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम्‌ | तदन्तविधिना 'प्रत्ययात्‌ धातोः’ इत्युक्ते प्रत्ययान्तात्‌ धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम्‌ इच्छा), चिकीर्षा (कर्तुम्‌ इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्‌-प्रत्ययः न वा क्तिन्‌-प्रत्ययः भवति | इति प्रायः इदम्‌ एकम्‌ एव सूत्रम्‌ अष्टाध्याय्यां यस्मिन्‌ प्रत्ययान्तधातवः साक्षात्‌ उक्ताः |</big>
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि आतिदेशिकधातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च औपदेशिकधातुः समाप्तः |  </big>
 
 
 
<big>(३) लिट्‌-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययः विधीयते '''कास्प्रत्ययादाममन्त्रे लिटि''' (३.३.१३५), कास्येनाच आम्‌ वक्तव्यः इति सूत्रेण वार्तिकेन च | एताभ्यां कास्‌-धातोः च अनेकाच्‌-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययविधानम्‌ | अत्र किन्तु साक्षात्‌ प्रत्ययान्तधातवः साक्षात्‌ नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |  </big>
 
 
 
<big>अनयोः द्वयोः (व्युत्पत्ति विषये, '''अ प्रत्ययात्‌''' (३.३.१)) चेति स्थले भेदो नास्ति कुत्रचित्‌ | एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |</big>
 
 
 
<big>तर्हि सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्‌ ? अत्र दृष्टिद्वयं वर्तते | एकदृष्ट्या अत्रापि भेदो वर्तते यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां च किमपि विभागीकरणं नास्ति, सर्वे धातवः समानाः | अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९), '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५), '''अदिप्रभृतिभ्यः शपः''' (२.४.७२), '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५)  इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति |</big>
 
 
 
<big>परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायांम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः |</big>
 
 
 
<big>आहत्य प्रक्रियार्थम्‌ 'औपदेशिकधातुः', 'आतिदेशिकधातुः' इति नामकरणं मास्तु | बालानां कृते आरम्भे नामकरणम्‌ अपेक्षितं प्रदर्शनार्थं यत्‌ केचन धातवः एवमेव सन्ति; अन्ये धातवः निष्पन्नाः | अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति | एकस्मिन्‌ सूत्रे '''अ प्रत्ययात्‌''' (३.३.१०२) यत्र प्रक्रियाभेदो वर्तते, तत्र 'प्रत्ययान्तधातुः' इत्येव पाणिनेः नामकरणं पर्याप्तम्‌ च, उपयोगि च अतः उचितमेव |   </big>
 
 
 
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि आतिदेशिकधातुसज्ञाधातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च औपदेशिकधातुःधातुः समाप्तः |  </big>
 
 
 
Line 1,307 ⟶ 1,332:
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणांस्थितसूत्राणाम्‌ वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
<big><br /></big>
 
 
 
<big>पुनः प्रश्नः उदेति यत्‌ अस्तु, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रम्‌ अस्ति; परन्तु सूत्रे निमित्तं तु यङ्‌-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात्‌ यत्‌ अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम्‌ अस्ति परन्तु वस्तुतः अङ्गकार्यम्‌ | यथा '''अभ्यासे चर्च''' (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम्‌ अनुवृत्त्यार्थम्‌, | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत्‌ सूत्रं त्रिपाद्याम्‌ अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम्‌ असिद्धिकार्यं भवति; स्वयम्‌ असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु '''ग्रो यङि''' (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिः | '''ग्रो यङि''' (८.२.२०) पूर्वत्रिपादिसूत्रं, '''हलि च''' (८.२.७७) परत्रिपादिसूत्रम्‌ अतः '''ग्रो यङि''' (८.२.२०) प्रति, '''हलि च''' (८.२.७७) इति सूत्रम्‌ असिद्धम्‌ | '''ग्रो यङि''' (८.२.२०), '''हलि च''' (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्‌-प्रत्यये परे '''हलि च''' (८.२.७७) इत्यस्य कार्यं न स्यात्‌ | लत्वं भवति चेत्‌, दीर्घत्वं न भवति |</big>
 
 
 
<big>'''ग्रो यङि''' (८.२.२०) इत्यस्मिन्‌ 'यङि' इति प्रत्ययरूपेण न द्रष्टव्यम्‌, ‘यङ्‌-प्रत्ययस्य यकारः' इति द्रष्टव्यम्‌ | यया रीत्या '''तिप्यनस्तेः''' (८.२.७३), '''सिपि धातो रुर्वा''' (८.२.७३) इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं; प्रत्ययः उक्तः प्रदर्शनर्थं यत्‌ अपरेषु प्रत्ययेषु इदं कार्यं न स्यात्‌ | तथैव '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ अपि | अस्मिन्‌ सूत्रे 'यङि' यदि न उच्यते, कस्मिन्‌ अपि हलि लत्वं भविष्यति; तस्य व्यावृत्त्यर्थं 'यङि' इति उक्तम्‌ | अन्येषु हलादिषु प्रत्ययेषु न स्यात्‌, एतदार्थं 'यङि' इति दत्तम्‌ |</big>
 
 
 
<big>अपि च सूत्रस्य क्रमं दृष्त्वा अपि अर्थदृष्ट्या वर्णकार्यम्‌ | '''ग्रो यङि''' (८.२.२०) इत्यस्य अनन्तरम्‌ अस्ति '''अचि विभाषा''' (८.२.२१), रो लत्वं भवति चिकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम्‌ | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम्‌ | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |</big>
 
 
 
<big>इति अजन्तधातूनां यङन्तधातु-सिद्धिपाठः समाप्तः |</big>