7---ArdhadhAtukaprakaraNam/10---yangantadhAtavaH-ii: Difference between revisions

no edit summary
No edit summary
No edit summary

(15 intermediate revisions by 2 users not shown)
Line 8:

|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/302_yanganta-dhAtavaH---%E0%A4%95%E0%A5%83%E0%A4%AA%E0%A5%8D%E2%80%8C_aniditaH---%E0%A4%B5%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%B0%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E2%80%8C-%E0%A4%A6%E0%A4%82%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%AD%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C_%2B_nuk-iti-anusvArasya-upalakShaNam_2022-03-22.mp3 yanganta-dhAtavaH---कृप्‌_+_aniditaH---वञ्च्‌-स्रंस्‌-ध्वंस्‌-भ्रंस्‌-स्कन्द्‌-दंश्‌-भञ्ज्‌_+_nuk-iti-anusvArasya-upalakShaNam_2022-03-22]

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/303_yanganta-dhAtavaH---aniditaH---%E0%A4%A6%E0%A4%82%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%AD%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C_%2B_adanta-udanta-abhyAsavantaH_%2B_RudantAH_%2B_%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_2022-03-29.mp3 yanganta-dhAtavaH---aniditaH---दंश्‌-भञ्ज्‌_+_adanta-udanta-abhyAsavantaH_+_RudantAH_+_क्रुञ्च्‌_2022-03-29]

|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/304_yanganta-dhAtavaH---%E0%A4%A4%E0%A5%83%E0%A4%AE%E0%A5%8D%E0%A4%AB%E0%A5%8D%E2%80%8C-%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A5%8D%E2%80%8C_dhAtvAdeshAH_%2B_samprasAraNinaH_%2B_anekAcaH_%2B_ajAdayaH_2022-04-05.mp3 yanganta-dhAtavaH---तृम्फ्‌-क्रुञ्च्‌-हम्म्‌_dhAtvAdeshAH_+_samprasAraNinaH_+_anekAcaH_+_ajAdayaH_2022-04-05]

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/305_yanganta-dhAtavaH---ajAdayaH--%E0%A4%85%E0%A4%9F%E0%A5%8D%E2%80%8C-%E0%A4%8B-%E0%A4%85%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%8A%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%81_%2B_dasha-lakArAH_%2B_dvitvacintanam_2022-04-12.mp3 yanganta-dhAtavaH---ajAdayaH--अट्‌-ऋ-अश्‌-ऊर्णु_+_dasha-lakArAH_+_dvitvacintanam_2022-04-12]

|'''2019 वर्गः'''
Line 206 ⟶ 212:

'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |

Line 222 ⟶ 228:

वञ्च्‌ +यङ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → वच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → व व च्य → '''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' (७.४.८४) इत्यनेन अभ्यासस्य नीगागमः यङि परे → वनीवच्य इति यङन्तधातुः → वनीवच्यते

Line 228 ⟶ 234:
एवमेव—

स्रंस्‌ + यङ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) → द्वित्वाभ्यासकार्यम्‌ → '''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' (७.४.८४)

ध्वंस्‌ + यङ्‌ →
Line 260 ⟶ 266:

दंश्‌ + यङ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → दश्‌ + य → द्वित्वाभ्यासकार्यम्‌ → द द श्य → '''जपजभदहदशभञ्जपशां च''' (७.४.८६) इत्यनेन अभ्यासस्य नुक्‌-आगमः यङि परे → दंदश्य इति यङन्तधातुः → दंदश्यते

Line 274 ⟶ 280:

'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य अपि उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङलुकि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |

प्रश्नः उदेति यत्‌ किमर्थं सूत्रे दंश्‌-धातोः अनुस्वारः न प्रदर्शितः यदि तस्य लोपः तु भवति एव '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेण | अनयोः द्वयोः धात्वोः (दंश्‌, भञ्ज्‌) भेदः अत्र कः ? कोपि भेदः न दृश्यते यतोहि द्वयोः अपि आरम्भे एव नकारलोपो भवति | तर्हि सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम्‌ ? यङ्लुकि भेदः अस्ति | यङ्लुकि अपि द्वयोः धात्वोः प्रक्रिया तु समाना एव, केवलम्‌ आरम्भे 'दश्‌' इत्येव अस्ति न तु 'दंश्‌', सूत्रस्य 'दश्‌' इति ज्ञापकत्वात्‌ | यङ्लुकि '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रस्य प्रसक्तिर्नास्ति, अतः यङ्लुकि द्वयोः धात्वोः रूपभेदः तिष्ठति (दन्दशीति, बम्भञ्जीति), किन्तु यङि शास्त्रविहीतनकारलोपकत्वात्‌ रूपभेदो न तिष्ठति (दन्दश्यते, बम्भज्यते) यतोहि तत्र भञ्ज्‌ धातोः अपि नकारलोपो भवति |

Line 285 ⟶ 295:

नुगतोऽनुनासिकान्तस्य ।। नुकि यंयम्यते रंरम्यतरंरम्यते इति रूपाऽसिद्धिः ।। नुकि सति यंयम्यते रंरम्यतरंरम्यते इति रूपं न सिद्ध्यति।। अनुस्वारागमवचनात्तु सिद्धम् ।। (अनुस्वारागमवचनात्सिद्धमेतत्) । अनुस्वारागमो वक्तव्यः । एवमपीदमेव रूपं स्यात् ‐ यय्यँम्यते, (इदं न स्यात् यंयम्यते) ।। पदान्तवच्च ।। पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्येति ।। (नुगतोऽनुनासिकान्तस्य) ।।

Line 308 ⟶ 318:

चञ्च्‌ + यङ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → चच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → च च च्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः यङि परे → चाचच्य इति यङन्तधातुः → चाचच्यते

Line 353 ⟶ 363:

लुञ्च्‌ + यङ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → लुच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → लु लु च्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → लोलुच्य इति यङन्तधातुः → लोलुच्यते

Line 365 ⟶ 375:

'''रीगृदुपधस्य च''' (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | '''रीगृत्वत इति वक्तव्यम्‌''' इति वार्तिकेन ऋकारवतामपि धातूनाम्‌ अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च |

तृम्फ्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → तृफ्‌ + य → द्वित्वाभ्यासकार्यम्‌ → त तृ फ्य → '''रीगृदुपधस्य च''' (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌-आगमः यङि परे → तरीतृफ्‌ इति यङन्तधातुः → तरीतृफ्यते

Line 383 ⟶ 393:
'''रीगृदुपधस्य च''' (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः''' |

अत्र प्रश्नः उदेति यत्‌ यद्यपि उपदेशावस्थायां ऋदुपधधातवः न सन्ति, किन्तु यङि परे नकारलोपानन्तरं ऋदुपधधातवः भवन्ति । अतः अत्र '''रीगृदुपधस्य च''' (७.४.९०) इति सूत्रेण एव साक्षात्‌ रीक्‌-आगमो भवति, अथवा '''रीगृत्वत इति वक्तव्यम्‌''' इति वार्तिकेन एव वक्तव्यं भवति ? अनेन वार्तिकेन ऋकारवतामपि धातूनाम्‌ अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | वस्तुतस्तु जानीमः यत्‌ औपदेशिकधातुसंज्ञा च आतिदेशिकधातुसंज्ञा चेत्यनयोः बाध्यबाधकभावो नास्ति । अतः तृम्फ्‌ + यङ्‌ → ’त तृ फ्य” इति स्थितौ ’ततृफ्‌’ इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति । अस्य बलेन ऋदुपधधातुः भवति, यस्मात्‌ '''रीगृदुपधस्य च''' (७.४.९०) इति सूत्रेण एव रीक्‌-आगमो भवति । तृम्फ्‌, दृम्फ्‌, सृम्भ्‌, तृंह्‌ इति चतुर्णामपि धातूनां कृते एतादृशी व्यवस्था अस्ति ।

तर्हि '''रीगृत्वत इति वक्तव्यम्‌''' इति वार्तिकस्य आवश्यकता कुत्र भवति ? प्रच्छ, भ्रस्ज, व्रश्च, इत्येषां त्रयाणां धातूनां सम्प्रसारणानन्तरमपि ऋदुपधधातवः न भवन्ति । परन्तु रीक्‌-आगमः आवश्यकः । एतेषु ऋकारो जायते, किन्तु ऋदुपधधातवः न भवन्ति । अतः एषां कृते वार्तिकम्‌ अपेक्षितम्‌ ।

६. क्रुञ्च्‌-धातोः यङन्तधातु-सिद्धिः
Line 389 ⟶ 404:

क्रुञ्च्‌-धातुः ञोपधधातुः, न तु नोपधधातुः, अतः तस्य ञकारः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन लोपो न भवति | अतः तस्य साधारणयङ्‌-सम्बद्धाभ्यासकार्ये '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति |

क्रुञ्च्‌ + यङ्‌ → क्रु क्रु ञ्च्य → चो क्रु ञ्च्य → चोक्रुञ्च्य इति यङन्तधातुः → चोक्रुञ्च्यते

अञ्च्, कुञ्च्, ग्लुञ्च्‌, चञ्च्‌, तञ्च्‌, त्वञ्च्‌, म्रुञ्च्‌, म्लुञ्च्‌, लुञ्च्‌, वञ्च्‌ इत्येते सर्वे धातवः नोपधधातवः । परन्तु क्रुञ्च्‌-धातुः तथा नास्ति अपितु ञोपधधातुः एव । कथं ज्ञायते यत्‌ क्रुञ्च्‌-धातुः ञोपधधातुः, न तु नोपधधातुः ? '''परेश्च घाङ्कयोः''' (८.२.२२) इति सूत्रस्य भाष्ये ज्ञापकं वर्तते यत्‌ एवमस्ति । अतः किति ङिति प्रत्यये परे उपधालोपो न भवति । एतादृशौ द्वौ इदितौ धातू वर्तेते यत्र उपधायाम्‌ अनुनासिकवर्णः अस्ति चेदपि नकारो नस्ति इति कारणतः किति ङिति प्रत्यये परे तस्य लोपो न भवति । एकः अस्ति क्रुञ्च्‌-धातुः; अन्यः अस्ति हम्म्‌-धातुः । हम्म्‌-धातोः उपधा-मकारस्य अनन्तरं यः मकारः वर्तते, सः तु झल्‌-प्रत्याहारे नास्ति; अनेन ज्ञायते यत्‌ मूले नकारो नासीत्‌ । नो चेत्‌ नकारस्य स्थाने अनुस्वारः, तस्य च स्थाने मकारः अभविष्यत्‌ । किन्तु झल्‌-अभावे न भवति अतः मूले उपधामकारः एव ।

Line 401 ⟶ 420:

हम्म्‌-धातुः मोपधधातुः, न तु नोपधधातुः, अतः तस्य मकारः '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन लोपो न भवति | अतः द्वित्वाभ्यासकार्यानन्तरं अनुनासिकान्तधातुं मत्वा '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि |

हम्म्‌ + यङ्‌ → ह हम्म्‌ म्म्य → जं हम्म्‌ म्म्य → जंहम्म्य इति यङन्तधातुः → जंहम्म्यते

Line 471 ⟶ 490:

प्रच्छ्‌ + यङ्‌ → '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यनेन सम्प्रसारणम्‌ → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन पूर्वरूपादेशः → द्वित्वाभ्यासकार्यञ्च → पपृच्छ्‌ +पृ च्छ्य → '''रीगृत्वत इति वक्तव्यम्‌''' इति वार्तिकेन अभ्यासस्य रीक्‌-आगमः → परीपृच्छ्‌य इति यङन्तधातुः → परीपृच्छ्‌यते

प्रच्छ्‌ + यङ्‌ → पृच्छ्‌ + य → प पृच्छ्‌पृ च्छ्यपरीपृच्छ्‌परी पृ च्छ्य → परीपृच्छ्‌य → परीपृच्छ्‌यते

व्रश्च्‌ + यङ्‌ → वृश्च्‌ + य → व वृश्च्‌वृ श्च्यवरीवृश्च्‌वरी वृ श्च्य → वरीवृश्च्य → वरीवृश्च्यते

भ्रस्ज्‌ + यङ्‌ → भृस्ज्‌ + य → ब भृस्ज्‌भृ स्ज्यबरीभृस्ज्‌बरी भृ स्ज्यबरीभृज्ज्‌बरी भृ ज्ज्य → बरीभृज्ज्य → बरीभृज्ज्यते

Line 525 ⟶ 544:
ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + यङ्‌ → द्वित्वम्‌ → ऊर्णू नू → 'णु' इत्यस्य अभ्याससंज्ञा (यस्य द्वित्वं, तस्य अभ्याससंज्ञा) → '''हलादि शेषः''' इत्यस्य किमपि कार्यं नास्ति → '''गुणो यङ्लुकोः''' (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते

प्रश्नः उदेति, किमर्थं णत्वं न भवति द्वित्वसमये । अत्र सिद्धान्तकौमुद्याम्‌ उच्यते— "पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् ।"

तर्हि मूलधातुः ’ऊर्नु’ इति अस्ति, तस्य णत्वं '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यनेन । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । तर्हि '''अकृतव्य़ूहाः पाणिनीयाः''' इत्यनेन न भवति यतोहि णत्वस्य निमित्तं रेफः निशिष्यमाणो नास्ति । अपि तु द्वित्वावसरे ’ऊर्नू + यङ्‌’ इति स्थितौ युगपत्‌ '''रषाभ्यां नो णः समानपदे''' (८.४.१), '''सन्यङोः''' (६.१.९) इत्यनयोः प्रसक्तिः; '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति शास्त्रम्‌ असिद्धम्‌ । अनेन ’नू’ इत्यव भवति अभ्यासः, ’नू’ इत्यस्य एव द्वित्वम्‌ । द्विद्वानन्तरमेव '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यनेन णत्वम्‌ । ऊर्नू + यङ्‌ → द्वित्वम्‌ → ऊ र्नू नू → '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यनेन णत्वम्‌ → ऊर्णू नू य → '''गुणो यङ्लुकोः''' (७.४.८२) → ऊर्णो नू य → ऊर्णोनूयते ।

ऋ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन ऋ-धातोः ऋकारस्य गुणादेशो भवति यङि परे (सामान्य-अङ्गकार्यम्‌) → अर्‌ + य → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यस्य साहाय्येन, '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य → प्रथमः एकाच्‌-भागः ‘अ’; द्वितीयः एकाच्‌-भागः 'र्य' → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन अचः पराः संयोगादयः नदराः द्विर्न भवन्ति— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' → अ + र्य + य इति स्यात्‌ → परन्तु '''यकारपररेफस्य न द्वित्वनिषेधः, अरार्यते इति भाष्योदाहरणात्‌''' इति सिद्धान्त्कौमुदीवाक्यं; महाभाष्यग्रन्थे '''सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌''' इति वार्त्तिकावसरे अरार्यते इति रूपम्‌ उदाहृतम्‌; अनेन प्रमाणं स्वीकृतं यत्‌ अत्र '''न न्द्राः संयोगादयः''' (६.१.३) इत्यस्य प्रवृत्तिर्न भवति; रेफस्य इह द्वित्वनिषेधो नास्ति → अ + र्य + र्य → '''हलादिः शेषः''' (७.४.६०) → अ + र + र्य → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → अरार्य इति धातुः → अरार्य +शप्‌ + ते → अरार्यते
Line 537 ⟶ 560:
संयोगादिऋकारान्तधातूनां प्रसङेऽपि इदं कार्यं दृष्टम्‌ अस्माभिः—

स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म +स्म स्मर्‌ + यर्य → सामान्याभ्यासकार्यम्‌ → स +स्म स्मर्‌ +यर्य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ +सास्म र्य → सास्मर्यते

page_and_link_managers, Administrators
5,251

edits