7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions
7---ArdhadhAtukaprakaraNam/11---dvitvam (view source)
Revision as of 03:02, 9 May 2021
, 3 years ago→11 - द्वित्वम्
(Added first part to the page) |
|||
Line 3:
{| class="wikitable"
|<big>द्वित्वप्रसङ्गे पाणिनेः प्रधानतया द्वे सूत्रे वर्तेते—'''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य'''<nowiki> (६.१.२)—ययोः आधारेण द्वित्वप्रक्रिया बोध्या | किन्तु कथं द्वित्वं प्रवर्तनीयम् अस्ति इत्यस्मिन् विषये सर्वेषां मतं समानं नास्ति | अत्र चिन्तनविधिद्वयम् उपस्थाप्यते | प्रथमविधिः मातृभिः दीक्षितपुष्पाभिः पाठ्यते; अस्मिन् विधौ एकाच्-धातूनं प्रक्रिया पृथक्, अनेकाच्-धातूनां प्रक्रिया पृथक् | द्वितीयचिन्तनविधौ सर्वेषां धातूनां द्वित्वपक्रिया समाना |</nowiki></big>
<big>अत्र प्रसक्तसूत्राणि दीयन्ते—</big>
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''प्रथमस्य एकाचः द्वे''' |</big>
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big>
<big>अभ्यासः अभ्यस्तम् इति द्वे संज्ञे—</big>
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big>
<big>अधस्तन-उपस्थापनद्वये यङन्तधातूनाम् उदाहरणानि दीयन्ते, अतः इदं सूत्रमपि साहाय्यकम्—</big>
|