7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 468:
 
<big>वि + चि + ल्यप्‌ →</big>
 
 
<big>'''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, अथवा ह्रस्व-ऋकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''ह्रस्वस्य पिति कृति तुक्‌''' |</big>