11B - ल्यप्-प्रत्ययः
ल्यप्-प्रत्ययः
धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत् आरम्भे तिङ्-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम् अवलोकयाम— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् | (धातुतः विहितः नास्ति चेत्, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्, तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम् | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत् चेत्, किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्; कृत् शित् अस्ति चेदेव सार्वधातुकः | कृत्-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शधैन् इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच् च | अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात् क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्-पत्ययः अपि अस्ति |
अस्य महत्त्वम् अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्-प्रसङ्गे, कृत्-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्, कर्तरि शप् (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम् |
आर्धधातुकत्वात् इडागमचिन्तनमपेक्षितम् | परन्तु ल्यप्-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक् (कर्मणि यक्, यासुट् (आशीर्लिङ्-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत् यकारः यतोहि वल्-प्रत्याहारे नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |
आर्धधातुकस्येड्वलादेः (७.२.३५)
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
चतुर्दश वर्गाः
यत्र यत्र कृत्-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
ल्यप्-प्रत्ययः
समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७)
समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) = यस्मिन् समासे पूर्वपदं नञ्-भिन्न-अव्ययं भवति, तस्मिन् धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् | न नञ् अनञ्, अनञ् पूर्वं यस्मिन् स अनञ्पूर्वः, तस्मिन् | अनञ् इत्यनेन पर्युदासप्रतिषेधः | नञ्-भिन्नं नञ्-सदृशं पदम्, इत्युक्ते अव्ययं स्यात् किन्तु नञ् इति अव्ययं न स्यात् | समासे सप्तम्यन्तम्, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ठ्यन्तं, ल्यप् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— समासे अनञ्पूर्वे क्त्वः ल्यप् |
ल्यप्-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित् अतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन ल्यप् इति प्रत्यये कित्त्वम् अध्यारोपितो भवति | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
जानीमः यत् यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम् उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्-भिन्नम् अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |
अपि च यदि तच्च अव्ययं नञ् इति निषेधवाचकम् अव्ययमस्ति (’अ’ अथवा ’अन्’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |
वेदे च विशेषः वर्तते—
क्त्वापिच्छन्दसि (७.१.३८)
क्त्वापिच्छन्दसि (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्-प्रत्ययः भवति |
वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |
वेदे उपसर्गे सति ल्यप्-प्रत्ययः, यथा—उद्धृत्य जुहोति |
वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान् देवान् गतः |
ल्यप्-प्रत्ययस्य विधान-प्रक्रिया
ल्यप्-प्रत्यये लशक्वतद्धिते इत्यनेन लकारस्य इत्-सज्ञा, हलन्त्यम् इत्यनेन पकारस्य इत्-सज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |
ल्यप्-प्रत्ययस्य स्वभावः
यथोक्तं ल्यप्-प्रत्ययस्य कित्त्वं भवति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात् त्रीणि विशिष्ट-कार्याणि—
१) गुणनिषेधः
क्क्ङिति च (१.१.५)
क्क्ङिति च (१.१.५) इत्यनेन कित्-प्रत्यये ङित्-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |
वि + नी + ल्यप् → क्क्ङिति च (१.१.५) इत्यनेन कित्-प्रत्यये परे गुणनिषेधः → विनीय
२) अनिदितां धातूनाम् उपधायां नकारलोपः
अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति |
वि + ध्वंस् + ल्यप् → वि + ध्वस् + य → विध्वस्य
नि + बन्ध् + ल्यप् → नि + बध् + य → निबध्य
निर् + मन्थ् + ल्यप् → निर् + मथ् + य → निर्मथ्य
३) सम्प्रसारणि-धातूनां सम्प्रसारणम्
सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
ल्यप्-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातवः
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं हलन्तधातवः
३) णिजन्तधातवः
४) सन्-प्रत्ययान्ताः, यङ्-प्रत्ययान्ताः, क्यच्-प्रत्ययान्ताः, क्यङ्-प्रत्ययान्ताः, क्यष्-प्रत्ययान्ताः धातवः
अवधेयम्— अग्रे गत्वा सर्वत्र प्रक्रियायां क्त्वा प्रत्ययः विहितो भवति, अनन्तरमेव अनञ्पूर्वे समासे सति, ल्यपि परे समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इति सूत्रेण क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विधीयते । सौकर्यार्थं प्रक्रियासु न प्रदर्श्यते, किन्तु तथा अस्ति सर्वत्र इति बोध्यम् ।
अन्यच्च सर्वत्र मनसि भवेत् यत् ल्यप् इत्यस्मात् अनुबन्धलोपानन्तरं ’य’ अवशिष्यते ।
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातूनां ल्यप्-विधान-प्रक्रिया
आकारान्तधातवः एजन्तधातवः च
सामान्य-आकारान्तधातूनां ल्यपि परे किमपि कार्यं नास्ति ।
यथा—
प्र + दा + ल्यप् → प्रदाय
नि + धा + ल्यप् → निधाय
वि + मा + ल्यप् → विमाय
एजन्तधातवः
जानीमः यत् आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण सर्वे एजन्तधातवः आकारान्ताः भवन्ति एव, शित्-प्रत्ययः परे नास्ति चेत् । ल्यप् प्रत्ययः शित् नास्ति, अतः ल्यपि परे एजन्तानां धातूनाम् आत्वं भवति । अतः सामान्य-एजन्तधातूनाम् अपि ल्यपि परे किमपि कार्यं नास्ति ।
यथा—
वि + धे + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + धा + य → विधाय
वि + ग्लै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + ग्ला + य → विग्लाय
वि + म्लै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + म्ला + य → विम्लाय
अभि + ध्यै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → अभि + ध्या + य → अभिध्याय
आदेच उपदेशेऽशिति (६.१.४५)
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
विशेष आकारान्ताः च एजन्ताः च धातवः
सम्प्रसारणि-धातवः
- वेञ्-धातुः
वेञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।
प्र + वेञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + वा + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रवाय
एवमेव—
उप + वेञ् + ल्यप् →
सम्प्रसारणं नाम किम् इति चेत्—
इग्यणः सम्प्रसारणम् (१.१.४५)
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
वचिस्वपियजादीनां किति (६.१.१५)
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
ल्यपि च (६.१.४१)
ल्यपि च (६.१.४१) = वेञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, वेञः (६.१.४०) इत्यस्मात् वेञः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— ल्यपि च वेञः न सम्प्रसारणम् ।
- व्येञ्-धातुः
व्येञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु व्यश्च (६.१.४३) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।
प्र + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → व्यश्च (६.१.४३) इत्यनेन ल्यपि परे व्येञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रव्याय
व्यश्च (६.१.४३)
व्यश्च (६.१.४३) = व्येञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— व्यः च ल्यपि न सम्प्रसारणम् ।
व्येञ्-धातोः वैकल्पिकं सम्प्रसारणम्
परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति ।
सम्प्रसारणे सति—
परि + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व् + इ + आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व् + इ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७)
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८)
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
हलः (६.४.२)
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
सम्प्रसारण-विपक्षे—
परि + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय
विभाषा परेः (६.१.४४)
विभाषा परेः (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत् विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम् । मातृभिः उक्तं यत् अत्र ’न’ इत्यस्य अनुवृत्तिः अस्ति अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधुः । एतदपि ताभिः उक्तं यत् सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र तत्र विकल्पेन भवति इत्येतादृशः दोषः अनेकेषु स्थलेषु वर्तते । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः, व्यश्च (६.१.४३) इत्यस्मात् व्यः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्—परेः व्यः विभाषा ल्यपि न सम्प्रसारणम् ।
- ह्वेञ्-धातुः
ह्वेञ्-धातुः सम्प्रसारणी अस्ति । अत्र किमपि निषेधकार्यं नास्ति ।
आ + ह्वेञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → आ + ह्वा + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → आ + ह् + उ + आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → आ + ह् + उ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → आ + ह् + ऊ + य → आहूय
- ज्या धातुः
ज्या-धातुः सम्प्रसारणी अस्ति | ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणं भवेत् | परन्तु ज्यश्च (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं न भवति |
प्र + ज्या + ल्यप् → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → ज्यश्च (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं निषिद्धम् → प्रज्याय
एवमेव—
उप + ज्या + ल्यप् →
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६)
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
ज्यश्च (६.१.४२)
ज्यश्च (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ज्यः च ल्यपि न सम्प्रसारणम् |
ल्यपि परे इकारादेशः
- मेङ्-धातुः
मयतेदिरन्यतरस्याम् (६.४.७०) इत्यनेन मेङ् प्राणिदाने इति धातोः विकल्पेन इकारादेशः भवति ल्यप्-प्रत्यये परे |
विधानपक्षे—
अप + मेङ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → अप + मा + य → मयतेरिदन्यतरस्याम् (६.४.७०) इत्यनेन मेङ्-धातोः इकारादेशः ल्यपि परे → अप + मि + य → ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → अपि + मि + तुक् + य → अपि + मि + त् + य → अपमित्य
विधान-अपक्षे—
अप + मेङ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → अप + मा + य → अपमाय
मयतेरिदन्यतरस्याम् (६.४.७०)
मयतेरिदन्यतरस्याम् (६.४.७०) = मेङ्-धातोः विकल्पेन इकारादेशः भवति ल्यपि प्रत्यये परे | सिद्धान्तकौमुद्यां मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि | काशिकायां मयतेरिकारादेशो वा भवति ल्यपि परतः | मयतेः षष्ठ्यन्तं, इत् प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं (विभक्तिप्रतिरूपकमव्ययम्), त्रिपदमिदं सूत्रम् | न ल्यपि (६.४.६९) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मयतेः इत् ल्यपि अन्यतरस्याम् |
ह्रस्वस्य पिति कृति तुक् (६.१.७१)
ह्रस्वस्य पिति कृति तुक् (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ह्रस्वस्य पिति कृति तुक् |
घु-मा-स्था-गा-पा-जहाति-सां धातूनाम् ईकारादेशः (न भवति)
साधारणतया हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे, एषां धातूनाम् आकारस्य ईत्वं भवति घुमास्थागापाजहातिसां हलि (६.४.६६) इति सूत्रेण | परन्तु न ल्यपि (६.४.६९) इत्यनेन इदं कार्यं बाधितं भवति |
प्र + दा + ल्यप् → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन आकारस्य स्थाने ईकारादेशः हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे → न ल्यपि (६.४.६९) इत्यनेन घु-संज्ञकधातोः आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे → प्रदाय
एवमेव—
प्र + धा + ल्यप् →
प्र + मा + ल्यप् →
प्र + स्था + ल्यप् →
प्र + गा + ल्यप् →
प्र + पा + ल्यप् →
प्र + हा + ल्यप् →
अव + सा + ल्यप् →
घुमास्थागापाजहातिसां हलि (६.४.६६)
घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि क्ङिति आर्धधातुके |
न ल्यपि (६.४.६९)
न ल्यपि (६.४.६९) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे | काशिकायां ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तद् न भवति | सिद्धान्तकौमुद्यां ल्यपि परे घुमास्थादेरीत्वं न | न अव्ययम्, ल्यपि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्मात् घु-मा-स्था-गा-पा-जहाति-साम् इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् अङ्गस्य ईत् न ल्यपि |
इकारान्तधातवः
सामान्य-इकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति सूत्रेण |
यथा—
वि + जि + ल्यप् → ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → वि + जि + तुक् + य → वि + जि + त् + य → विजित्य
एवमेव—
वि + चि + ल्यप् →
ह्रस्वस्य पिति कृति तुक् (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ह्रस्वस्य पिति कृति तुक् |
सम्प्रसारणि-धातवः
- श्वि-धातुः
श्वि-धातुः सम्प्रसारणी अस्ति | ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवति |
उत् + श्वि + ल्यप् → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → उत् + श् + उ + इ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत् + श् + उ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत् + शू + य → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम् → उच् + शूय → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम् → उच्छूय / उच्शूय
सम्प्रसारणाच्च (६.१.१०८)
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
हलः (६.४.२)
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
स्तोः श्चुना श्चुः (८.४.४०)
स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स् च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श् च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श् च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम् | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |
छत्वसन्धिः
शश्छोऽटि (८.४.६३)
शश्छोऽटि (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम् | शः षष्ठ्यन्तं, छः प्रथमान्तम्, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् झयः च अन्यतरस्त्याम् चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात् पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्' | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अट् प्रत्याहारे सर्वे स्वराः, ह्, य्, व्, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— पदान्तात् झयः शः छः अटि संहितायम् अन्यतरस्याम् |
धेयं यत् शश्छोऽटि त्रिपादी सूत्रम् अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम् इत्यादिकं करणीयम् | सामान्यतया चर्त्वम् अन्तिमं फलम् अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम् |
तत् + शिवः → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद् + शिवः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम् → तज् + शिवः → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच् + शिवः → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम् → तच्छिवः / तच्शिवः
छत्वममीति वाच्यम्
छत्वममीति वाच्यम् इति वार्तिकेन इदं कार्यं न केवलम् अटि परे अपि तु अमि परेऽपि | तत् + श्लोकेन → तच्छ्लोकेन |
इकारान्त-धातूनाम् आत्वम्
- डुमिञ्-धातुः
मीञ्, डुमिञ्, दीङ् च धातूनाम् उपदेशावस्थायाम् आत्वं भवति ल्यपि परे, मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इति सूत्रेण |
प्र + मि + ल्यप् → मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यनेन डुमिञ्-धातोः उपदेशावस्थायाम् आत्वम् → प्र + मा + य → प्रमाय
एवमेव—
नि + मि + ल्यप् →
मीनातिमिनोतिदीङां ल्यपि च (६.१.५०)
मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ्, स्वादौ मिञ्, दिवादौ दीङ् एषां धातूनाम् आकार-अन्तादेशो भवति ल्यपि अथवा एज्-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम् एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ् च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् आत्, एचः, उपदेशे, अशिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—उपदेशे मीनातिमिनोतिदीङाम् ल्यपि च आत् एचः (एज्-निमित्ते प्रत्यये) अशिति |
क्षि-धातोः दीर्घादेशः
क्षियः (६.४.५९) इत्यनेन क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे |
प्र + क्षि + ल्यप् → क्षियः (६.४.५९) इत्यनेन क्षि-धातोः दीर्घादेशः ल्यपि परे → प्र + क्षी + य → प्रक्षीय
एवमेव—
उप + क्षि + ल्यप् →
क्षियः (६.४.५९) = क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे | सिद्धान्तकौमुद्यां क्षियो ल्यपि दीर्घः स्यात् | क्षियः प्रथमान्तम्, एकपदमिदं सूत्रम् | ल्यपि लघुपूर्वात् (६.४.५६) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः, युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— क्षियः अङ्गस्य दीर्घः ल्यपि |
ईकारान्तधातवः
सामान्य-ईकारान्त-धातूनां किमपि कार्यं नास्ति | ईकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |
यथा—
वि + नी + ल्यप् → वि + नी + य → विनीय
एवमेव—
वि + भी + ल्यप् →
ली-धातोः विकल्पेन आत्वम्
विभाषा लीयतेः (६.१.५१) इत्यनेन ली-धातोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे |
आत्व-पक्षे—
वि + लीङ् + ल्यप् → विभाषा लीयतेः (६.१.५१) इत्यनेन ली-धातोः आत्वादेशः ल्यपि परे → वि + ला + य → विलाय
अत्व-विपक्षे—
वि + लीङ् + ल्यप् → वि + ली + य → विलीय
एवमेव—
वि + ली + ल्यप् →
विभाषा लीयतेः (६.१.५१) = लीङ्-श्लेषणे च ली-श्लेषणे द्वयोः धात्वोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे उपदेशावस्थायाम् | ’एचः विषये’ इत्युक्ते यत्र तादृशः प्रत्ययः परः अस्ति यः ईकारस्य गुणादेशकारणं स्यात्, यथा कोऽपि शित्-प्रत्ययः | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् आत्, एचः, उपदेशे इत्यनयोः अनुवृत्तिः | मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लीयतेः आत् एचः (एज्विषये, एच्-निमित्ते) ल्यपि उपदेशे विभाषा |
ईकारान्त-धातूनाम् आत्वम्
- दीङ्, मीञ्-धातू
दीङ्, मीञ्, डुमिञ् च धातूनाम् उपदेशावस्थायाम् आत्वं भवति ल्यपि परे, मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इति सूत्रेण |
उप + दीङ् + ल्यप् → मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यनेन दीङ्-धातोः उपदेशावस्थायाम् आत्वम् → उप + दा + य → उपदाय
एवमेव—
प्र + मीञ् + ल्यप् →
मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ्, स्वादौ मिञ्, दिवादौ दीङ् एषां धातूनाम् आकार-अन्तादेशो भवति ल्यपि अथवा एज्-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम् एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ् च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् आत्, एचः, उपदेशे, अशिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—उपदेशे मीनातिमिनोतिदीङाम् ल्यपि च आत् एचः (एज्-निमित्ते प्रत्यये) अशिति |
उकारान्तधातवः
सामान्य-उकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति सूत्रेण |
यथा—
आ + हु + ल्यप् → ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → आ + हु + तुक् + य → आ + हु + त् + य → आहुत्य
एवमेव—
प्र + द्रु + ल्यप् →
ह्रस्वस्य पिति कृति तुक् (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-तिप् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ट्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ह्रस्वस्य पिति कृति तुक् |
वेदे यु-प्लु धात्वोः दीर्घत्वं ल्यपि
वेदस्य विषये यु-प्लु इति द्वयोः धात्वोः दीर्घादेशः भवति ल्यपि परे, युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) इति सूत्रेण | दान्त्यनुपूर्वं विवूय | यत्रा नो दक्षिणा परिप्लूय |
युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) = यु-प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति | यु-प्लुवोः षष्ट्यन्तं, दीर्घः प्रथमान्तं, छन्दसि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | ल्यपि लघुपूर्वात् (६.४.५६) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— युप्लुवोः अङ्गयोः दीर्घः ल्यपि छन्दसि |
ऊकारान्तधातवः
सामान्य-ऊकारान्त-धातूनां किमपि कार्यं नास्ति | ऊकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |
यथा—
वि + धू + ल्यप् → वि + धू + य → विधूय
एवमेव—
सम् + भू + ल्यप् →
ब्रू-धातोः वच्-आदेशः
सर्वेषु आर्धधातुक-प्रत्ययेषु परेषु ब्रू-धातोः वच्-आदेशः भवति |
यथा—
प्र + ब्रू + ल्यप् → ब्रुवो वचिः (२.४.५३) इत्यनेन आर्धधातुकप्रत्यये परे ब्रू-धातोः वच्-आदेशः → प्र + वच् + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → प्र + उ अ च् + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → प्र + उच् + य → प्रोच्य
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
ऋकारान्तधातवः
सामान्य-ऋकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति सूत्रेण |
यथा—
वि + हृ + ल्यप् → ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → वि + हृ + तुक् + य → वि + हृ + त् + य → विहृत्य
एवमेव—
प्र + हृ + ल्यप् →
उप + कृ + ल्यप् →
आ + वृ + ल्यप् →
ह्रस्वस्य पिति कृति तुक् (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-तिप् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ट्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ह्रस्वस्य पिति कृति तुक् |
ॠकरान्तधातवः
दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे, ॠत इद्धातोः (७.१.१००) इति सूत्रेण | तदा उरण् रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | अन्ते हलि च (८.२.७७) इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे |
यथा—
उत् + तॄ + ल्यप् → ॠत इद्धातोः (७.१.१००) इत्यनेन दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे → उत् + ति + य → उरण् रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति → उत् + तिर् + य → हलि च (८.२.७७) इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे → उत् + तीर् + य → उत्तीर्य
एवमेव—
वि + जॄ + ल्यप् →
वि + झॄ + ल्यप् →
वि + कॄ + ल्यप् →
सम् + गॄ + ल्यप् →
आ + स्तॄ + ल्यप् →
वि + शॄ + ल्यप् →
वि + दॄ + ल्यप् →
वि + नॄ + ल्यप् →
सम् + ॠ + ल्यप् →
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि |