11B - ल्यप्-प्रत्ययः

7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
ध्वनिमुद्रणानि
2024 वर्गः
१) lyap-pratyayaH---paricayaH_2024-01-23
२) lyap-pratyayaH---AkArAnta-ejantAH-ca-samprasAraNi-dhAtavaH_2024-01-30
३) lyap-pratyayaH---AkArAnta-ejantAH--dhAtavaH_+_ikArAnta-dhAtavaH_2024-02-06
४) lyap-pratyayaH---ikArAnta-dhAtavaH---shvi-dhAtuH_+_Chatva-sandhiH_+_mi-dhAtuH_2024-02-13
५) lyap-pratyayaH---i-ii-u-U-Ru-RukArAnta-dhAtavaH_2024-02-20
६) lyap-pratyayaH---RukArAnta-dhAtavaH_+_halantadhAtavaH---dhAtvAdeshaH--अस्‌-चक्ष्‌-अज्‌-कृप्‌-जन्‌-सन्‌-खन्‌_2024-02-27
७) lyap-pratyayaH---halantadhAtavaH---sAmAnyAH-ca-vishiShTAH-ca_+_जन्‌-सन्‌-खन्‌_+_anunAsikAnta-dhAtavaH_2024-03-05
८) lyap-pratyayaH---anunAsikAnta-dhAtavaH_+_samprasAraNi-halantadhAtavaH_2024-03-19
९) lyap-pratyayaH---anidit-dhAtavaH_+_skand-syand-dhAtU_+_NijantadhAtavaH_2024-03-26
१०) lyap-pratyayaH---anidit-dhAtavaH_+_NijantadhAtavaH_2024-04-02
११) lyap-pratyayaH---NijantadhAtavaH_2024-04-09


ल्यप्‌-प्रत्ययः



धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति सामान्यतया निश्चितम्‌ | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात्‌ क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्‌-पत्ययः अपि अस्ति |


अस्य महत्त्वम्‌ अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्‌-प्रसङ्गे, कृत्‌-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्‌, कर्तरि शप्‌ (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्‌-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम्‌ |


आर्धधातुकत्वात्‌ इडागमचिन्तनमपेक्षितम्‌ | परन्तु ल्यप्‌-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक्‌ (कर्मणि यक्‌, यासुट्‌ (आशीर्लिङ्‌-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत्‌ यकारः यतोहि वल्‌-प्रत्याहारे नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |


आर्धधातुकस्येड्वलादेः (७.२.३५)

आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


चतुर्दश वर्गाः

यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—


१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |


ल्यप्‌-प्रत्ययः


समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७)

समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासप्रतिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ठ्यन्तं, ल्यप्‌ प्रथमान्तम्, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— समासे अनञ्पूर्वे क्त्वः ल्यप्‌  |



ल्यप्‌-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित्‌ अतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन ल्यप्‌ इति प्रत्यये कित्त्वम्‌ अध्यारोपितो भवति | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण आदेशः स्थानिवत्‌ भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |


जानीमः यत्‌ यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम्‌ उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्‌-भिन्नम्‌ अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |


अपि च यदि तच्च अव्ययं नञ्‌ इति निषेधवाचकम्‌ अव्ययमस्ति (’अ’ अथवा ’अन्‌’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्‌-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |


वेदे च विशेषः वर्तते—

क्त्वापिच्छन्दसि (७.१.३८)

क्त्वापिच्छन्दसि (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्‌-प्रत्ययः भवति |



वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |

वेदे उपसर्गे सति ल्यप्‌-प्रत्ययः, यथा—उद्धृत्य जुहोति |


वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान्‌ देवान्‌ गतः |


ल्यप्‌-प्रत्ययस्य विधान-प्रक्रिया

ल्यप्‌-प्रत्यये लशक्वतद्धिते इत्यनेन लकारस्य इत्‌-सज्ञा, हलन्त्यम्‌ इत्यनेन पकारस्य इत्‌-सज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |


ल्यप्‌-प्रत्ययस्य स्वभावः

यथोक्तं ल्यप्‌-प्रत्ययस्य कित्त्वं भवति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात्‌ त्रीणि विशिष्ट-कार्याणि—


१) गुणनिषेधः
क्क्ङिति च (१.१.५)

क्क्ङिति च (१.१.५) इत्यनेन कित्‌-प्रत्यये ङित्‌-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |


वि + नी + ल्यप्‌ → क्क्ङिति च (१.१.५) इत्यनेन कित्‌-प्रत्यये परे गुणनिषेधः → विनीय


२) अनिदितां धातूनाम्‌ उपधायां नकारलोपः

अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |


वि + ध्वंस्‌ + ल्यप्‌ → वि + ध्वस्‌ + य → विध्वस्य

नि + बन्ध्‌ + ल्यप्‌ → नि + बध्‌ + य → निबध्य

निर्‌ + मन्थ्‌ + ल्यप्‌ → निर्‌ + मथ्‌ + य → निर्मथ्य


३) सम्प्रसारणि-धातूनां सम्प्रसारणम्‌

सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |


ल्यप्‌-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्‌



१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ अजन्तधातवः

२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं हलन्तधातवः

३) णिजन्तधातवः

४) सन्‌-प्रत्ययान्ताः, यङ्‌-प्रत्ययान्ताः, क्यच्‌-प्रत्ययान्ताः, क्यङ्‌-प्रत्ययान्ताः,  क्यष्‌-प्रत्ययान्ताः धातवः



अवधेयम्‌— अग्रे गत्वा सर्वत्र प्रक्रियायां क्त्वा प्रत्ययः विहितो भवति, अनन्तरमेव अनञ्पूर्वे समासे सति, ल्यपि परे समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इति सूत्रेण क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः विधीयते । सौकर्यार्थं प्रक्रियासु न प्रदर्श्यते, किन्तु तथा अस्ति सर्वत्र इति बोध्यम्‌ ।


अन्यच्च सर्वत्र मनसि भवेत्‌ यत्‌ ल्यप्‌ इत्यस्मात्‌ अनुबन्धलोपानन्तरं ’य’ अवशिष्यते ।


१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ अजन्तधातूनां ल्यप्‌-विधान-प्रक्रिया

आकारान्तधातवः एजन्तधातवः च

सामान्य-आकारान्तधातूनां ल्यपि परे किमपि कार्यं नास्ति ।


यथा—

प्र + दा + ल्यप्‌ → प्रदाय

नि + धा + ल्यप्‌ → निधाय

वि + मा + ल्यप्‌ → विमाय


एजन्तधातवः



जानीमः यत्‌ आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण सर्वे एजन्तधातवः आकारान्ताः भवन्ति एव, शित्‌-प्रत्ययः परे नास्ति चेत्‌ । ल्यप्‌ प्रत्ययः शित्‌ नास्ति, अतः ल्यपि परे एजन्तानां धातूनाम्‌ आत्वं भवति । अतः सामान्य-एजन्तधातूनाम्‌ अपि ल्यपि परे किमपि कार्यं नास्ति ।



यथा—

वि + धे + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) → वि + धा + य → विधाय

वि + ग्लै + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) → वि + ग्ला + य → विग्लाय

वि + म्लै + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) → वि + म्ला + य → विम्लाय

अभि + ध्यै + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) → अभि + ध्या + य → अभिध्याय


आदेच उपदेशेऽशिति (६.१.४५)

आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


विशेष आकारान्ताः च एजन्ताः च धातवः

सम्प्रसारणि-धातवः


-   वेञ्‌-धातुः

वेञ्‌-धातुः सम्प्रसारणी अस्ति । ल्यप्‌-प्रत्ययः यतः कित्‌ अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत्‌ । परन्तु ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्‌-धातोः सम्प्रसारणं न भवति ।


प्र + वेञ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → प्र + वा + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्‌-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रवाय


एवमेव—

उप + वेञ्‌ + ल्यप्‌ →


सम्प्रसारणं नाम किम्‌ इति चेत्‌—

इग्यणः सम्प्रसारणम्‌ (१.१.४५)

इग्यणः सम्प्रसारणम्‌ (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— यणः इक्‌ सम्प्रसारणम्‌ |


वचिस्वपियजादीनां किति (६.१.१५)

वचिस्वपियजादीनां किति (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— वचिस्वपियजादीनां सम्प्रसारणं किति |


ल्यपि च (६.१.४१)

ल्यपि च (६.१.४१) = वेञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात्‌ सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः, वेञः (६.१.४०) इत्यस्मात्‌ वेञः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— ल्यपि च वेञः न सम्प्रसारणम्


-   व्येञ्‌-धातुः

व्येञ्‌-धातुः सम्प्रसारणी अस्ति । ल्यप्‌-प्रत्ययः यतः कित्‌ अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत्‌ । परन्तु व्यश्च (६.१.४३) इत्यनेन ल्यपि परे वेञ्‌-धातोः सम्प्रसारणं न भवति ।


प्र + व्येञ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → प्र + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → व्यश्च (६.१.४३) इत्यनेन ल्यपि परे व्येञ्‌-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रव्याय


व्यश्च (६.१.४३)

व्यश्च (६.१.४३) = व्येञ्‌-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात्‌ सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌— व्यः च ल्यपि न सम्प्रसारणम्


व्येञ्‌-धातोः वैकल्पिकं सम्प्रसारणम्‌


परि-उपसर्गपूर्वक-व्येञ्‌-धातोः ल्यपि परे विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति ।


सम्प्रसारणे सति—

परि + व्येञ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व्‌ + इ + आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व्‌ + इ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय


न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७)

न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— न सम्प्रसारणे सम्प्रसारणम्‌ |


सम्प्रसारणाच्च (६.१.१०८)

सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात्‌ पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |


हलः (६.४.२)

हलः (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात्‌ सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |


सम्प्रसारण-विपक्षे—

परि + व्येञ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय


विभाषा परेः (६.१.४४)

विभाषा परेः (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्‌-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत्‌ विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम्‌ । मातृभिः उक्तं यत्‌ अत्र ’न’ इत्यस्य अनुवृत्तिः अस्ति अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधुः । एतदपि ताभिः उक्तं यत्‌ सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित्‌ सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र तत्र विकल्पेन भवति इत्येतादृशः दोषः अनेकेषु स्थलेषु वर्तते । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात्‌ सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः, व्यश्च (६.१.४३) इत्यस्मात्‌ व्यः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्‌—परेः व्यः विभाषा ल्यपि न सम्प्रसारणम्


-   ह्वेञ्‌-धातुः

ह्वेञ्‌-धातुः सम्प्रसारणी अस्ति । अत्र किमपि निषेधकार्यं नास्ति ।


आ + ह्वेञ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → आ + ह्वा + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → आ + ह्‌ + उ + आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → आ + ह्‌ + उ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → आ + ह्‌ + ऊ + य → आहूय


-   ज्या धातुः

ज्या-धातुः सम्प्रसारणी अस्ति | ल्यप्‌-प्रत्ययः यतः कित्‌ अस्ति, अतः ल्यपि परे ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणं भवेत्‌ | परन्तु ज्यश्च (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं न भवति |


प्र + ज्या + ल्यप्‌ → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → ज्यश्च (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रज्याय


एवमेव—

उप + ज्या + ल्यप्‌ →


ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६)

ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात्‌ किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌ |


ज्यश्च (६.१.४२)

ज्यश्च (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात्‌ सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ज्यः च ल्यपि न सम्प्रसारणम् |


ल्यपि परे इकारादेशः


-   मेङ्‌-धातुः

मयतेरिदन्यतरस्याम्‌ (६.४.७०) इत्यनेन मेङ्‌ प्राणिदाने इति धातोः विकल्पेन इकारादेशः भवति ल्यप्‌-प्रत्यये परे |


विधानपक्षे—

अप + मेङ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → अप + मा + य → मयतेरिदन्यतरस्याम् (६.४.७०) इत्यनेन मेङ्‌-धातोः इकारादेशः ल्यपि परे → अप + मि + य → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → अपि + मि + तुक्‌ + य → अपि + मि + त्‌ + य → अपमित्य


विधान-अपक्षे—

अप + मेङ्‌ + ल्यप्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम्‌ → अप + मा + य → अपमाय


मयतेरिदन्यतरस्याम् (६.४.७०)

मयतेरिदन्यतरस्याम् (६.४.७०) =  मेङ्‌-धातोः विकल्पेन इकारादेशः भवति ल्यपि प्रत्यये परे | सिद्धान्तकौमुद्यां मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि | काशिकायां  मयतेरिकारादेशो वा भवति ल्यपि परतः | मयतेः षष्ठ्यन्तं, इत् प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं (विभक्तिप्रतिरूपकमव्ययम्‌), त्रिपदमिदं सूत्रम्‌ | न ल्यपि (६.४.६९) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— मयतेः इत् ल्यपि अन्यतरस्याम्‌ |


ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१)

ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— ह्रस्वस्य पिति कृति तुक्‌ |


घु-मा-स्था-गा-पा-जहाति-सां धातूनाम्‌ ईकारादेशः (न भवति)

साधारणतया हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे, एषां धातूनाम् आकारस्य ईत्वं भवति घुमास्थागापाजहातिसां हलि (६.४.६६) इति सूत्रेण | परन्तु न ल्यपि (६.४.६९) इत्यनेन इदं कार्यं बाधितं भवति |


प्र + दा + ल्यप्‌ → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन आकारस्य स्थाने ईकारादेशः हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे → न ल्यपि (६.४.६९) इत्यनेन घु-संज्ञकधातोः आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे → प्रदाय


एवमेव—

प्र + धा + ल्यप्‌ →

प्र + मा + ल्यप्‌ →

प्र + स्था + ल्यप्‌ →

प्र + गा + ल्यप्‌ →

प्र + पा + ल्यप्‌ →

प्र + हा + ल्यप्‌ →

अव + सा + ल्यप्‌ →


घुमास्थागापाजहातिसां हलि (६.४.६६)

घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात्‌ आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात्‌ ईत्‌ इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य ईत्‌ हलि क्ङिति आर्धधातुके |


न ल्यपि (६.४.६९)

न ल्यपि (६.४.६९) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे | काशिकायां ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तद् न भवति | सिद्धान्तकौमुद्यां ल्यपि परे घुमास्थादेरीत्वं न | न अव्ययम्, ल्यपि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्मात्‌ घु-मा-स्था-गा-पा-जहाति-साम् इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात्‌ ईत्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम्‌ अङ्गस्य ईत्‌ न ल्यपि |


इकारान्तधातवः

सामान्य-इकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इति सूत्रेण |


यथा—

वि + जि + ल्यप्‌ → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → वि + जि + तुक्‌ + य → वि + जि + त्‌ + य → विजित्य


एवमेव—

वि + चि + ल्यप्‌ →


ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— ह्रस्वस्य पिति कृति तुक्‌ |


सम्प्रसारणि-धातवः


-   श्वि-धातुः

श्वि-धातुः सम्प्रसारणी अस्ति | ल्यप्‌-प्रत्ययः यतः कित्‌ अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवति |


उत्‌ + श्वि + ल्यप्‌ → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम्‌ → उत्‌ + श्‌ + उ + इ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत्‌ + श्‌ + उ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत्‌ + शू + य → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम्‌ → उच्‌ + शूय → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → उच्छूय / उच्शूय


सम्प्रसारणाच्च (६.१.१०८)

सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात्‌ पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |


हलः (६.४.२)

हलः (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात्‌ सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |


स्तोः श्चुना श्चुः (८.४.४०)

स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |


छत्वसन्धिः


शश्छोऽटि (८.४.६३)

शश्छोऽटि (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ झयःअन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌ |


धेयं यत्‌ शश्छोऽटि त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |


तत्‌ + शिवः → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः


छत्वममीति वाच्यम्‌

छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |


इकारान्त-धातूनाम्‌ आत्वम्‌


-   डुमिञ्‌-धातुः

मीञ्‌, डुमिञ्‌, दीङ्‌ च धातूनाम्‌ उपदेशावस्थायाम्‌ आत्वं भवति ल्यपि परे, मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इति सूत्रेण |  


प्र + मि + ल्यप्‌ → मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यनेन डुमिञ्‌-धातोः उपदेशावस्थायाम्‌ आत्वम्‌ → प्र + मा + य → प्रमाय


एवमेव—

नि + मि + ल्यप्‌ →


मीनातिमिनोतिदीङां ल्यपि च (६.१.५०)

मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ्‌, स्वादौ मिञ्‌, दिवादौ दीङ्‌ एषां धातूनाम्‌ आकार-अन्तादेशो भवति ल्यपि अथवा एज्‌-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम्‌ एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ्‌ च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्, एचः, उपदेशे, अशिति इत्येषाम्‌ अनुवृत्तिः |  अनुवृत्ति-सहितसूत्रंउपदेशे मीनातिमिनोतिदीङाम्‌ ल्यपि च आत् एचः (एज्‌-निमित्ते प्रत्यये) अशिति |


क्षि-धातोः दीर्घादेशः


क्षियः (६.४.५९) इत्यनेन क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे |


प्र + क्षि + ल्यप्‌ → क्षियः (६.४.५९) इत्यनेन क्षि-धातोः दीर्घादेशः ल्यपि परे → प्र + क्षी + य → प्रक्षीय


एवमेव—

उप + क्षि + ल्यप्‌ →


क्षियः (६.४.५९) = क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे | सिद्धान्तकौमुद्यां क्षियो ल्यपि दीर्घः स्यात् | क्षियः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | ल्यपि लघुपूर्वात् (६.४.५६) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः, युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— क्षियः अङ्गस्य दीर्घः ल्यपि |


ईकारान्तधातवः


सामान्य-ईकारान्त-धातूनां किमपि कार्यं नास्ति | ईकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |


यथा—

वि + नी + ल्यप्‌ → वि + नी + य → विनीय


एवमेव—

वि + भी + ल्यप्‌ →


ली-धातोः विकल्पेन आत्वम्‌


विभाषा लीयतेः (६.१.५१) इत्यनेन ली-धातोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे |


आत्व-पक्षे—

वि + लीङ्‌ + ल्यप्‌ → विभाषा लीयतेः (६.१.५१) इत्यनेन ली-धातोः आत्वादेशः ल्यपि परे → वि + ला + य → विलाय


अत्व-विपक्षे—

वि + लीङ्‌ + ल्यप्‌ → वि + ली + य → विलीय


एवमेव—

वि + ली + ल्यप्‌ →


विभाषा लीयतेः (६.१.५१) = लीङ्‌-श्लेषणे च ली-श्लेषणे द्वयोः धात्वोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे उपदेशावस्थायाम्‌ | ’एचः विषये’ इत्युक्ते यत्र तादृशः प्रत्ययः परः अस्ति यः ईकारस्य गुणादेशकारणं स्यात्‌, यथा कोऽपि शित्‌-प्रत्ययः | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्, एचः, उपदेशे इत्येषाम्‌ अनुवृत्तिः | मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लीयतेः आत् एचः (एज्विषये, एच्‌-निमित्ते) ल्यपि उपदेशे विभाषा |


ईकारान्त-धातूनाम्‌ आत्वम्‌


-   दीङ्‌, मीञ्‌-धातू


दीङ्‌, मीञ्‌, डुमिञ्‌ च धातूनाम्‌ उपदेशावस्थायाम्‌ आत्वं भवति ल्यपि परे, मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इति सूत्रेण |  


उप + दीङ्‌ + ल्यप्‌ → मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यनेन दीङ्‌-धातोः उपदेशावस्थायाम्‌ आत्वम्‌ → उप + दा + य → उपदाय


एवमेव—

प्र + मीञ्‌ + ल्यप्‌ →


मीनातिमिनोतिदीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ्‌, स्वादौ मिञ्‌, दिवादौ दीङ्‌ एषां धातूनाम्‌ आकार-अन्तादेशो भवति ल्यपि अथवा एज्‌-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम्‌ एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ्‌ च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्, एचः, उपदेशे, अशिति इत्येषाम्‌ अनुवृत्तिः |  अनुवृत्ति-सहितसूत्रं—उपदेशे मीनातिमिनोतिदीङाम्‌ ल्यपि च आत् एचः (एज्‌-निमित्ते प्रत्यये) अशिति |


उकारान्तधातवः


सामान्य-उकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इति सूत्रेण |


यथा—

आ + हु + ल्यप्‌ → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → आ + हु + तुक्‌ + य → आ + हु + त्‌ + य → आहुत्य


एवमेव—

प्र + द्रु + ल्यप्‌ →


ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-तिप्‌ अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— ह्रस्वस्य पिति कृति तुक्‌ |


वेदे यु-प्लु धात्वोः दीर्घत्वं ल्यपि


वेदस्य विषये यु-प्लु इति द्वयोः धात्वोः दीर्घादेशः भवति ल्यपि परे, युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) इति सूत्रेण | दान्त्यनुपूर्वं वियूय | यत्रा नो दक्षिणा परिप्लूय |


युप्लुवोर्दीर्घश्छन्दसि (६.४.५८) = यु-प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति | यु-प्लुवोः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, छन्दसि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | ल्यपि लघुपूर्वात् (६.४.५६) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— युप्लुवोः अङ्गयोः दीर्घः ल्यपि छन्दसि |


ऊकारान्तधातवः


सामान्य-ऊकारान्त-धातूनां किमपि कार्यं नास्ति | ऊकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |


यथा—

वि + धू + ल्यप्‌ → वि + धू + य → विधूय


एवमेव—

सम्‌ + भू + ल्यप्‌ →


ब्रू-धातोः वच्‌-आदेशः


सर्वेषु आर्धधातुक-प्रत्ययेषु परेषु ब्रू-धातोः वच्‌-आदेशः भवति |



यथा—

प्र + ब्रू + ल्यप्‌ → ब्रुवो वचिः (२.४.५३) इत्यनेन आर्धधातुकप्रत्यये परे ब्रू-धातोः वच्‌-आदेशः → प्र + वच्‌ + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → प्र + उ अ च्‌ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → प्र + उच्‌ + य → प्रोच्य


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


वचिस्वपियजादीनां किति (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— वचिस्वपियजादीनां सम्प्रसारणं किति |


सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात्‌ पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |


ऋकारान्तधातवः


सामान्य-ऋकारान्तधातूनां ल्यपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इति सूत्रेण |


यथा—

वि + हृ + ल्यप्‌ → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → वि + हृ + तुक्‌ + य → वि + हृ + त्‌ + य → विहृत्य


एवमेव—

प्र + हृ + ल्यप्‌ →

उप + कृ + ल्यप्‌ →

आ + वृ + ल्यप्‌ →


ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत्‌ अपि भवेत्‌, पित्‌ अपि भवेत्‌ | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्‌-पित्‌-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्‌-तिप्‌ अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत्‌ तुगागमः न भवति | आ + लू + ल्यप्‌ = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— ह्रस्वस्य पिति कृति तुक्‌ |


ॠकरान्तधातवः


दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे, ॠत इद्धातोः (७.१.१००) इति सूत्रेण | तदा उरण्‌ रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | अन्ते हलि च (८.२.७७) इत्यनेन रेफान्तानां धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे |


यथा—

उत्‌ + तॄ + ल्यप्‌ → ॠत इद्धातोः (७.१.१००) इत्यनेन दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे → उत्‌ + ति + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति → उत्‌ + तिर्‌ + य → हलि च (८.२.७७) इत्यनेन रेफान्तानां धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे → उत्‌ + तीर्‌ + य → उत्तीर्य


एवमेव—

वि + जॄ + ल्यप्‌ →

वि + झॄ + ल्यप्‌ →

वि + कॄ + ल्यप्‌ →

सम्‌ + गॄ + ल्यप्‌ →

आ + स्तॄ + ल्यप्‌ →

वि + शॄ + ल्यप्‌ →

वि + दॄ + ल्यप्‌ →

वि + नॄ + ल्यप्‌ →

सम्‌ + ॠ + ल्यप्‌ →


ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |


उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |


हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धातोः उपधायाः इकः दीर्घः हलि |


२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातूनां ल्यप्‌-विधान-प्रक्रिया


भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातूनां ल्यप्‌-विधान-प्रक्रियायां मूले विभागद्वयं वर्तते—सामान्यहलन्तधातवः, विशिष्टहलन्तधातवः च ।


सामान्यहलन्तधातवः


सामान्यहलन्तधातूनां क्षेत्रे किमपि कार्यं न भवति । येषां उपधायाम्‌ इक्‌-प्रत्याहारस्थवर्णः अस्ति, तेषां गुणकार्यं प्रसक्तम्‌ अस्ति पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रेण, तदा क्क्ङिति च (१.१.५) इत्यनेन कित्‌-प्रत्यये ल्यपि परे गुणनिषेधः वृद्धिनिषेधश्च भवति |  


यथा—

प्र + पठ्‌ + ल्यप्‌ → प्रपठ्य

वि + भिद्‌ + ल्यप्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → विभिद्य

वि + लिख्‌ + ल्यप्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → विलिख्य


एवमेव—

प्र + पच्‌ + ल्यप्‌ →

प्र + मिल्‌ + ल्यप्‌ →

प्र + वृध्‌ + ल्यप्‌ →

प्र + बुध्‌ + ल्यप्‌ →

प्र + मिद्‌ + ल्यप्‌ →

प्र + स्खल्‌ + ल्यप्‌ →

प्र + बुक्क्‌ + ल्यप्‌ →

प्र + शुध्‌ + ल्यप्‌ →

प्र + कृष्‌ + ल्यप्‌ →

प्र + चित्‌ + ल्यप्‌ →

प्र + शीक्‌ + ल्यप्‌ →


विशिष्टहलन्तधातवः


एषां कृते विविधकार्याणि भवन्ति, धातुम्‌ अनुसृत्य धातुश्रेणीम्‌ अनुसृत्य च—


-   अस्‌-धातुः


अस्‌-धातोः भू-आदेशः भवति सर्वेषु आर्धधातुकेषु प्रत्ययेषु परेषु, अस्तेर्भूः (२.४.५२) इति सूत्रेण |


सम्‌ + अस्‌ + ल्यप्‌ → अस्तेर्भूः (२.४.५२) इत्यनेन आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशः → सम्‌ + भू + य → सम्भूय


अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्तेः भूः आर्धधातुके |


-   चक्ष्‌-धातुः


चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |


एकवारं ख्याञ्‌—

वि + चक्ष्‌ + ल्यप्‌ → चक्षिङः ख्याञ्‌ (२.४.५४) इत्यनेन चक्षिङः ख्याञादेशः आर्धधातुके → भाष्यकारस्य वक्तव्येन आदेशः 'ख्या' न अपि तु 'ख्शा' → वि + ख्शा + य → ख्शाञः शस्य यो वा वक्तव्यः इति वार्तिकेन शकारस्य विकल्पेन यकारादेशः → वि + ख्या + य → विख्याय


अपरस्मिन्‌ पक्षे ख्शाञ्‌—  

वि + चक्ष्‌ + ल्यप्‌ → चक्षिङः ख्याञ्‌ (२.४.५४) इत्यनेन चक्षिङः ख्याञादेशः आर्धधातुके → भाष्यकारस्य वक्तव्येन आदेशः 'ख्या' न अपि तु 'ख्शा' → वि + ख्शा + य → खरि च (८.४.५५) इत्यनेन झलः खरि परे चर्त्वादेशः → वि + क्शा + य → विक्शाय


चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |


खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् ‌|


-   अज्‌-धातुः


अज्‌-धातोः वी इति आदेशः भवति आर्धधातुक-प्रत्यये परे, घञ्‌ च अप्‌ च वर्जयित्वा, अजेर्व्यघञपोः (२.४.५६) इति सूरेण |


सम्‌ + अज्‌ + ल्यप्‌ → अजेर्व्यघञपोः (२.४.५६) इत्यनेन अज्‌-धातोः वी आदेशः आर्धधातुक-प्रत्यये परे → सम्‌ + वी + य → मोऽनुस्वारः (८.३.२३) इत्यनेन पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः हलि परे → संवीय


अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजेः वी आर्धधातुके अघञपोः |


मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलि सर्वेषाम्‌ (८.३.२२) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |


-   कृप्‌-धातुः


कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |


प्र + कृप्‌ + ल्यप्‌ → प्र + कॢप्‌ + य → प्रकॢप्य


कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |


जन्‌, सन्‌, खन्‌ इति धातवः


ये विभाषा (६.४.४३) इत्यनेन जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे |


आत्वपक्षे—

प्र + जन्‌ + ल्यप्‌ → ये विभाषा (६.४.४३) इत्यनेन नकारस्य आत्वम्‌ → प्र + जा + य → प्रजाय


आत्वापक्षे—

प्र + जन्‌ + ल्यप्‌ → प्र + जन्‌ + य → प्रजन्य


एवमेव—

प्र + सन्‌ + ल्यप्‌ →

प्र + खन्‌ + ल्यप्‌ →


ये विभाषा (६.४.४३) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | जनसनखनां सञ्झलोः (६.४.४२) इत्यस्मात्‌ जनसनखनाम्‌ इत्यस्य अनुवृत्तिः | विड्वनोरनुनासिकस्यात्‌ (६.४.४१) इत्यस्मात्‌ आत् इत्यस्य अनुवृत्तिः | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा |


अनुनासिकान्त-धातवः


अनुनासिकान्त-अनुदात्तोपदेश-धातूनां, वन्‌-धातोः, अनुनासिकान्त-तनोत्यादि-धातूनां च ल्यपि परे अनुनासिकलोपो भवति वा ल्यपि (६.४.३८) इति सूत्रेण | अस्मिन्‌ सूत्रे यः विकल्पः विधीयते तस्य नाम ’व्यवस्थितविभाषा’, यस्य अर्थः अयं यत्‌ ये पञ्चदश धातवः अस्मिन्‌ सूत्रे उक्ताः, तेषु ये मकारान्ताः तेषां ’वा’ अनुनासिकलोपः, अवशिष्टानां च धातूनां नित्यम्‌ अनुनासिकलोपः |


वा ल्यपि (६.४.३८) इति सूत्रेण ये पञ्चदश धातवः उक्ताः, तेषु अनुदात्तोपदेशः (अनिट्‌) मकारान्तः धातवः चत्वारः—गम्‌, नम्‌, ‌यम्‌, रम्‌ इति |


चत्वारः मकारान्तधातवः


अनुनासिकलोपपक्षे—

आ + गम्‌ + ल्यप्‌ → वा ल्यपि (६.४.३८) इत्यनेन अनुनासिकलोपः वा ल्यपि → आ + ग + य → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-अकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → आ + ग + तुक्‌ + य → आ + ग + त्‌ + य → आगत्य


अनुनासिकलोपविपक्षे—

आ + गम्‌ + ल्यप्‌ → आ + गम्‌ + य → आगम्य


एवमेव—

प्र + नम्‌ + ल्यप्‌ →

प्र + यम्‌ + ल्यप्‌ →

प्र + रम्‌ + ल्यप्‌ →


अवशिष्टाः एकादश धातवः


अवाशिष्टाः एकादश धातवः सन्ति— वन्‌, हन्‌, मन्‌, तन्‌, क्षिण्‌, क्षण्‌, ऋण्‌, तृण्‌, घृण्‌, वन्‌, मन्‌ इति |


प्र + वन्‌ + ल्यप्‌  → प्र + वन्‌ + य → वा ल्यपि (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्र + व + य → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्व-अकारान्त-धातोः तुक्‌-आगमः भवति पिति कृति परे → प्र + व + तुक्‌ + य → प्र + व + त्‌ + य → प्रवत्य


एवमेव—

आ + हन्‌ + ल्यप्‌ →

प्र + मन्‌ + ल्यप्‌ →

प्र + तनु + ल्यप्‌ →

प्र + क्षिणु + ल्यप्‌ →

प्र + क्षणु + ल्यप्‌ →

सम्‌ + ऋणु + ल्यप्‌ →

प्र + तृणु + ल्यप्‌ →

प्र + घृणु + ल्यप्‌ →

प्र + वनु + ल्यप्‌ →

प्र + मनु + ल्यप्‌ →


वा ल्यपि (६.४.३८) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो वा भवति ल्यपि परे | सिद्धान्तकौमुद्याम्‌ अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि | अस्मिन्‌ सूत्रे यः विकल्पः विधीयते तस्य नाम ’व्यवस्थितविभाषा’, यस्य अर्थः अयं यत्‌ ये पञ्चदश धातवः अस्मिन्‌ सूत्रे उक्ताः, तेषु ये मकारान्ताः तेषां ’वा’ अनुनासिकलोपः, अवशिष्टानां च धातूनां नित्यम्‌ अनुनासिकलोपः | ल्यपि सप्तम्यन्तं, च अवययं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम, अनुनासिक, लोपः इत्येषाम्‌ अनुवृत्तिः | एषां पदानामपि अत्र पदविभागः च विभक्तिश्च सूच्यते—अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः वा ल्यपि |


अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम्‌ अन्ते स्थितस्य अनुनासिकस्य लोपो भवति ल्यपि परे; स च अनुनासिकवर्णः मकारः अस्ति चेत्‌ तस्य लोपः वैकल्पिकः, मकारः नास्ति चेत्‌ तस्य लोपः नित्यः |


यः धातुः ऋकारादिः, तस्मात्‌ पूर्वं तादृशः उपसर्गः अस्ति यस्य अन्ते अकारः अस्ति चेत्‌, द्वयोः वर्णयोः स्थाने एकः वृद्धेः एकादेशः भवति उपसर्गादृति धातौ (६.१.९१) इति सूत्रेण |


यथा—

प्र + ऋणु + ल्यप्‌ → प्र + ऋण्‌ + य → वा ल्यपि (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्र + ऋ + य → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यनेन ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे प्र + ऋ + ‌त्‌ + य → उपसर्गादृति धातौ (६.१.९१) इत्यनेन अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः → प्रा + ‌त्‌ + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → प्रार्‌ + ‌त्‌ + य → प्रार्त्य


प्रक्रियायाः सूत्राणां बलाबलचिन्तनम्‌— वा ल्यपि (६.४.३८), उपसर्गादृति धातौ (६.१.९१) इयनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये वा ल्यपि (६.४.३८) परसूत्रम्‌, अङ्गकार्यञ्च अतः तस्य प्राप्तिः | तदा ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१), उपसर्गादृति धातौ (६.१.९१) इत्यनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये उपसर्गादृति धातौ (६.१.९१) परसूत्रं, नित्यसूत्रं च, किन्तु अन्तरङ्गत्वात्‌ ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यस्य प्राप्तिः | उपसर्गादृति धातौ (६.१.९१) इत्यस्य कृते बहिरङ्गत्वम्‌ अस्ति—निमित्तत्वात्‌ उपसर्गः अपेक्षितः यः भिन्नपदम्‌ अस्ति | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७१) इत्यस्मिन्‌ प्रत्ययः निमित्तम्‌ अस्ति—प्रत्ययः भिन्नपदं नास्ति किन्तु उपसर्गः पदमस्ति, अतः उपसर्गादृति धातौ (६.१.९१) इत्यस्य बहिरङ्गत्वात्‌ अनन्तरं प्राप्तिः तस्य |



उपसर्गादृति धातौ (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्‌, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | आद्गुणः (६.१.८७) इत्यस्मात्‌ आत् इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८८) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४) इत्यस्य अधिकारः | यस्मिन् विधिस्तदादावल्ग्रहणे इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः |


सम्प्रसारणि-हलन्तधातवः


वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण वच्यादि इति एकादशानां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे । ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इति सूत्रेण ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |


हलन्तानां सम्प्रसारणिनां धातूनां सम्प्रसारणम्‌—

प्र + वच्‌ + ल्यप्‌ → प्र + उच्‌ + य → प्रोच्य

प्र + स्वप्‌ + ल्यप्‌ → प्र + सुप्‌ + य → प्रसुप्य

प्र + यज्‌ + ल्यप्‌ → प्र + इज्‌ + य → प्रेज्य


एवमेव—

प्र + वप्‌ + ल्यप्‌ →

प्र + वह्‌ + ल्यप्‌ →

प्र + वस्‌ + ल्यप्‌ →

प्र + वद्‌ + ल्यप्‌ →

प्र + ग्रह्‌ + ल्यप्‌ →

प्र + व्यध्‌ + ल्यप्‌ →

प्र + वश्‌ + ल्यप्‌ →

प्र + व्यच्‌ + ल्यप्‌ →

प्र + व्रश्च्‌ + ल्यप्‌ →

प्र + प्रच्छ्‌ + ल्यप्‌ →

प्र + भ्रस्ज्‌ + ल्यप्‌ →


सम्प्रसारणं नाम किम्‌ इति चेत्‌—

इग्यणः सम्प्रसारणम्‌ (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— यणः इक्‌ सम्प्रसारणम्‌ |


सम्प्रसारण-विधायके द्वे सूत्रे—

वचिस्वपियजादीनां किति (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— वचिस्वपियजादीनां सम्प्रसारणं किति |


ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | काशिकायां ग्रह उपादाने , ज्या वयोहानौ, वेञो वयिः, व्यध ताडने, वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च सम्प्रसारणं भवति । ग्रहिश्च ज्याश्च वयिश्च व्यधिश्च वष्टिश्च विचतिश्च वृश्चतिश्च पृच्छतिश्च भृज्जतिश्च तेषामितरेतरद्वन्द्बो ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतयः तेषां ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम्‌ । ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ । ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात्‌ किति इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहितसूत्रम्‌— ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां सम्प्रसारणं किति ङिति च |


अनिदितः धातवः


येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे, अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेण |


यथा—

प्र + मन्थ्‌ + ल्यप्‌ → प्र + मथ्‌ + य → प्रमथ्य

प्र + स्रंस्‌ + ल्यप्‌ → प्र + स्रस्‌ + य → प्रस्रस्य

प्र + ध्वंस्‌ + ल्यप्‌ → प्र + ध्वस्‌ + य → प्रध्वस्य


केचन धातवः एकस्मात्‌ अधिक-धातुगणेषु सन्ति, तदनुसृत्य च मूलधातुरूपे इत्‌-सज्ञकवर्णाः भिन्नाः भवितुमर्हन्ति । उदाहरणार्थं त्रयः मन्थ्‌-रूपि-धातवः सन्ति ।  एकः मन्थ्‌-धातुः (मन्थँ) भ्वादिगणे अस्ति, अन्यः मन्थ्‌-धातुः (मन्थँ) क्र्यादिगणे अस्ति; एतौ द्वौ धातू अनिदितौ स्तः । अतः तयोः ल्यपि परे रूपम्‌ उपरि प्रदर्शितम्‌—प्रमथ्य । तृतीयः मन्थ्‌-धातुः (मथिँ) अपि भ्वादिगणे अस्ति किन्तु अयं धातुः इदित्‌ अस्ति, अतः तस्य ल्यपि परे रूपम्‌ अस्ति ’प्रमन्थ्य’ ।


अधः मूलधातुरूपम्‌ अनुसृत्य ल्यपि परे रूपं कल्पनीयम्‌—


प्र + भ्रंस्‌ (भ्रन्सुँ) + ल्यप्‌ →

प्र + भ्रंश्‌ (भ्रन्शुँ) + ल्यप्‌ →

प्र + स्रम्भ्‌ (स्रन्भुँ) + ल्यप्‌ →

प्र + ग्रन्थ्‌ (ग्रन्थँ, ग्रथिँ) + ल्यप्‌ →

प्र + श्रन्थ्‌ (श्रन्थँ, श्रथिँ) + ल्यप्‌ →

प्र + कुन्थ्‌ (कुन्थँ, कुथिँ) + ल्यप्‌ →

प्र + शुन्ध्‌ (शुन्धँ) + ल्यप्‌ →

प्र + कुञ्च्‌ (कुन्चँ) + ल्यप्‌ →

प्र + क्रुञ्च्‌ (क्रुन्चँ) + ल्यप्‌ →

प्र + लुञ्च्‌ (लुन्चँ) + ल्यप्‌ →

प्र + म्रुञ्च्‌ (म्रुन्चुँ) + ल्यप्‌ →

प्र + म्लुञ्च्‌ (म्लुन्चुँ) + ल्यप्‌ →

प्र + ग्लुञ्च्‌ (ग्लुन्चुँ) + ल्यप्‌ →

प्र + वञ्च्‌ (वन्चुँ) + ल्यप्‌ →

प्र + चञ्च्‌ (चन्चुँ) + ल्यप्‌ →

प्र + त्वञ्च्‌ (त्वन्चुँ) + ल्यप्‌ →

प्र + तञ्च्‌ (तन्चुँ, तन्चूँ) + ल्यप्‌ →

प्र + श्रम्भ्‌ (श्रन्भुँ) + ल्यप्‌ →

प्र + दम्भ्‌ (दन्भुँ) + ल्यप्‌ →

प्र + सृम्भ्‌ (षृन्भुँ) + ल्यप्‌ →

प्र + शंस्‌ (शन्सुँ, शसिँ) + ल्यप्‌ →

प्र + कुंस्‌ (कुसिँ) + ल्यप्‌ →

प्र + रञ्ज्‌ (रन्जँ) + ल्यप्‌ →

प्र + भञ्ज्‌ (भन्जोँ, भजिँ) + ल्यप्‌ →

प्र + भन्द्‌ (भदिँ) + ल्यप्‌ →

सम्‌ + अञ्च्‌ (अन्चुँ, अचिँ) + ल्यप्‌ →

सम्‌ + अञ्ज्‌ (अन्जूँ, अजिँ) + ल्यप्‌ →

सम्‌ + उन्द्‌ (उन्दीँ) + ल्यप्‌ →

सम्‌ + इन्ध्‌ (ञिइन्धीँ) + ल्यप्‌ →

प्र + त्रुम्प्‌ (त्रुन्पँ) + ल्यप्‌ →

प्र + त्रुम्फ्‌ (त्रुन्फँ) + ल्यप्‌ →

प्र + तृम्फ्‌ (तृन्फँ) + ल्यप्‌ →

प्र + तुम्फ्‌ (तुन्फँ) + ल्यप्‌ →

प्र + दृम्फ्‌ (दृन्फँ) + ल्यप्‌ →

प्र + गुम्फ्‌ (गुन्फँ) + ल्यप्‌ →

सम्‌ + उम्भ्‌ (उन्भँ) + ल्यप्‌ →

प्र + शुम्भ्‌ (शुन्भँ) + ल्यप्‌ →

प्र + तुम्प्‌ (तुन्पँ) + ल्यप्‌ →

प्र + तृंह्‌ (तृन्हूँ) + ल्यप्‌ →

प्र + बुन्द्‌ (उँबुन्दिँर्) + ल्यप्‌ →

प्र + सञ्ज्‌ (षन्जँ) + ल्यप्‌ →

प्र + स्वञ्ज्‌ (ष्वन्जँ) + ल्यप्‌ →

प्र + दंश्‌ (दन्शँ, दशिँ) + ल्यप्‌ →



अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |


विशेषः—स्कन्द्‌ स्यन्द्‌ इति धातू


स्कन्दिँर् (गतिशोषणयोः) च स्यन्दूँ (प्रस्रवणे) चेति भ्वादिगणीय-धातू अनिदितौ स्तः | स्कन्दिँर् इरित्‌ न तु इदित्‌, अतः किति ङिति प्रत्यये परे अनयोः द्वयोः धात्वोः नकारलोपः भवति स्म अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेन | किन्तु क्त्वि स्कन्दिस्यन्दोः (६.४.३१) इति सूत्रेण इदं कार्यं निषिध्यते | वस्तुतस्तु अनेन सूत्रेण क्त्वा-प्रत्यये परे नकारलोपः निषिध्यते, तदा स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः भवति |  


प्र + स्कन्द्‌ + ल्यप्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधा-नकारस्य लोपः भवति किति ङिति प्रत्यये परे → क्त्वि स्कन्दिस्यन्दोः (६.४.३१) इत्यनेन स्कन्द्-धातोः उपधा-नकार-लोपः न भवति क्त्वा-प्रत्यये परे → स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः → प्र + स्कन्द्‌+ य → प्रस्कन्द्य


एवमेव—

प्र + स्यन्द्‌ + ल्यप्‌ →



क्त्वि स्कन्दिस्यन्दोः (६.४.३१) = स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति क्त्वा-प्रत्यये परे | एतौ द्वौ धातू अनिदितौ अपि च क्त्वा-प्रत्ययः कित्‌, अतः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनयोः धात्वोः क्त्वा-प्रत्यये परे नकारलोपः जायते स्म | तदा प्रकृतसूत्रेण इदं कार्यं निषिध्यते | स्कन्दिश्च स्यन्द्‌ च तयोरितरेतरद्वन्द्वः स्कन्दिस्यन्दौ, तयोः स्कन्दिस्यन्दोः | क्त्वि इति क्त्वा-शब्दस्य सप्तम्यन्तं रूपं, स्कन्दिस्यन्दोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ नलोपः इत्यस्य अनुवृत्तिः | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः |  नाञ्चेः पूजायाम् (६.४.३०) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— स्कन्दिस्यन्दोः अङ्गयोः उपधायाः नलोपः क्त्वि न |


३) णिजन्तधातूनां ल्यप्‌-विधान-प्रक्रिया


णिच्‌-प्रत्ययः द्विविधः—स्वार्थिकः णिच्‌-प्रत्ययः, प्रेरणार्थकः णिच्‌-प्रत्ययः च | चुरादिगणे यः णिच्‌-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’स्वार्थे’ भवति | हेतुमति च (३.१.२६) इति सूत्रेण यः णिच्‌-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’प्रेरणार्थे’ भवति | उभयत्र—स्वार्थे च प्रेरणार्थे च—’णिजन्त-धातुः’ इत्युच्यते |


यथा—


स्वार्थे—

चुर्‌ + णिच्‌ → चोरि

कथ्‌ + णिच्‌ → कथि

गण्‌ + णिच्‌ → गणि

चिन्त्‌ + णिच्‌ → चिन्ति

भक्ष्‌ + णिच्‌ → भक्षि


प्रेरणार्थे—

पठ्‌ + णिच्‌ → पाठि

लिख्‌ + णिच्‌ → लेखि

गम्‌ + णिच्‌ → गमि

कृ + णिच्‌ → कारि

श्रु + णिच्‌ → श्रावि


णिजन्तधातौ णिच्‌-प्रत्ययात्‌ पूर्वं हल्‌-वर्णः अस्ति चेत्‌ अपि च तस्मात्‌ हल्‌-वर्णात्‌ पूर्वं लघु-अच्‌-वर्णः अस्ति चेत्‌, तर्हि ल्यपि परे णेः स्थाने अय्‌-आदेशः भवति ल्यपि लघुपूर्वात्‌ (६.४.५६) इति सूत्रेण |  ल्यपि लघुपूर्वात्‌ (६.४.५६) इत्यनेन लघु-अच्‌-वर्णात्‌ णेः अय्‌-आदेशो भवति ल्यपि परे |


णिचः पूर्वं लघुस्वरः, अतः ल्यपि अयादेशः—

प्र + कटि + ल्यप्‌ → ल्यपि लघुपूर्वात्‌ (६.४.५६) ‍इत्यनेन लघु-अच्‌-वर्णात्‌ णेः अय्‌-आदेशः ल्यपि परे → प्र + कट्‌ + अय्‌ + य → प्रकटय्य

निर्‌ + गमि + ल्यप्‌ → निर्‌ + गम्‌ + अय्‌ + य → निर्गमय्य

वि + रचि + ल्यप्‌ → वि + रच्‌ + अय्‌ + य → विरचय्य


एवमेव—

प्र + शमि + ल्यप्‌ →

सम्‌ + दमि + ल्यप्‌ →

प्र + कथि + ल्यप्‌ →

वि + गणि + ल्यप्‌ →


ल्यपि लघुपूर्वात्‌ (६.४.५६) = लघु-अच्‌-वर्णात्‌ णेः अय्‌-आदेशो भवति ल्यपि परे | णेरनिटि (६.४.५१) इत्यस्य अपवादः | लघुः पूर्वः यस्मात्‌ सः लघुपूर्वः, तस्मात्‌ लघुपूर्वात्‌ | ल्यपि सप्तम्यन्तं, लघुपूर्वात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | णेरनिटि (६.४.५१) इत्यस्मात्‌ णेः इत्यस्य अनुवृत्तिः | अयामन्ताल्वाय्येत्न्विष्णुषु  (६.४.५५) इत्यस्मात्‌ अय्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अङ्गस्य लघुपूर्वात्‌ णेः अय्‌ ल्यपि |


णिचः पूर्वं लघुस्वरः नास्ति चेत्‌ ल्यपि अयादेशः न भवति


प्र + ताडि + ल्यप्‌ → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → प्र + ताड्‌ + य → प्रताड्य


एवमेव—

प्र + चोरि + ल्यप्‌ →

उप + नि + मन्त्रि + ल्यप्‌ →


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


आप्‌-धातोः विकल्पेन अयादेशः


‌णिजन्त-आप्‌-धातोः यद्यपि लघु-स्वरः नास्ति, तथापि तस्य ल्यपि परे णेः विकल्पेन अयादेशः भवति विभाषापः (६.४.५७) इति सूत्रेण |


अय्‌-आदेश-पक्षे—

प्र + आपि + ल्यप्‌ → विभाषापः (६.४.५७) इत्यनेन → प्र + आप्‌ + अय्‌ + य → प्रापय्य


अय्‌-आदेश-विपक्षे—

प्र + आपि + ल्यप्‌ → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → प्र + आप्‌ + य → प्राप्य


विभाषापः (६.४.५७) = णिजन्त-आप्‌-धातोः णेः अय्‌-आदेशः विकलेन भवति ल्यपि परे | सिद्धान्तकौमुद्याम्‌ आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि | विभाषा प्रथमान्तम्‌, आपः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | णेरनिटि (६.४.५१) इत्यस्मात्‌ णेः इत्यस्य अनुवृत्तिः | अयामन्ताल्वाय्येत्न्विष्णुषु  (६.४.५५) इत्यस्मात्‌ अय्‌ इत्यस्य अनुवृत्तिः | ल्यपि लघुपूर्वात्‌ (६.४.५६) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अङ्गस्य आपः णेः अय्‌ ल्यपि विभाषा |


णेरनिटि (६.४.५१) इत्यस्य व्यवहारः—चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्‌


चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


णिच्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्‌, प्रेरणार्थे यदा द्वितीयः णिच्‌-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन्‌ धातौ णिच्‌ केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु णेरनिटि (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम्‌ |


चुर् → पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच्‌ → चोरि स्वार्थे → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → णेरनिटि (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे


४) सन्‌-प्रत्ययान्तानां ल्यप्‌-विधान-प्रक्रिया


सन्नन्तधातूनाम्‌ अन्ते सदा ह्रस्वः अकारः भवति—नाम एते धातवः सर्वे अदन्ताः । ल्यप्‌-प्रत्ययः आर्धधातुकः, अतः ल्यपि परे एषां सर्वेषां सन्नन्त-धातूनाम्‌ अकारस्य लोपः भवति अतो लोपः (६.४.४८) इति सूत्रेण ।


यथा—

आ + जिगमिष + ल्यप्‌ → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → आजिगमिष्य


एवमेव—

प्र + पिपतिष + ल्यप्‌ →


अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |


अभ्यासः


एषां धातूनां ल्यबन्तरूपाणि कल्पनीयानि—


सम्‌ + अकि + ल्यप्‌ →

सम्‌ + ऋजि + ल्यप्‌ →

सम्‌ + ग्रुचु (ग्रुच्‌) + ल्यप्‌ →

वि + तनु (तन्‌) + ल्यप्‌ →

सम्‌ + दिवु (दिव्‌) + ल्यप्‌ →