7---ArdhadhAtukaprakaraNam/12---iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 156:
<big><br /></big>
 
<big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज्‌ अनुदात्तश्च तत आर्धधातुकस्येड्‌ न | यस्मिन्‌ धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच्‌ | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्‌, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | एकाचः पञ्चम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अनुदात्तात्‌ पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''नेड्‌ वशि कृति''' (७.२.८) इत्यस्मात्‌ '''न''', '''इट्‌''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे एकाचः अनुदात्तात्‌ धातोः अङ्गात्‌ न इत्‌इट्''' |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits