7---ArdhadhAtukaprakaraNam/12---iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
 
=== <big>12 - इड्‌व्यवस्था</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2019 वर्गः</big>
|-
|<big>'''2019 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/195-b_iD-vyavasthA---paricayaH-1_2019-06-30.mp3 iD-vyavasthA---paricayaH-1_2019-06-30]  </big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/196_iD-vyavasthA---paricayaH-2_%2B_ajantadhAtUnAm-iDvyavasthA_2019-07-07.mp3 iD-vyavasthA---paricayaH-2_+_ajantadhAtUnAm-iDvyavasthA_2019-07-07]</big>
|}-
|<big>'''2015 वर्गः'''</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2015 वर्गः</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/65_iDAgama-paricayaH-1_2015-11-18.mp3 iDAgama-paricayaH-1_2015-11-18]
|-
|२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/66_iDAgama-paricayaH-2_2015-11-25.mp3 iDAgama-paricayaH-2_2015-11-25]</big>
|}
 
 
<big>इट्‌ नाम किम्‌ | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात्‌ यत्‌ तिङन्तेषु कृदन्तेषु च कुत्रचित्‌ इकारः श्रूयते कुत्रचित्‌ न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम्‌ इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम्‌ इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्‌-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्‌व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट्‌ इत्युच्यते | सेट्‌ = इटा सह | ('''तेन सहेति तुल्ययोगे''' २.२.२८ इत्यनेन तुल्ययोग-बहुव्रीहिसमासः | एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम्‌ अस्ति; प्रधानं न 'स', न वा 'इट्‌', अपि तु 'धातुः' |) यत्र इडागमस्य अनुकूलता नास्ति, तत्र धातुः अनिट्‌ इत्युच्यते | अनिट्‌ = न इट्‌ यस्य सः | नञ्तत्पुरुषगर्भ-बहुव्रीहिः | सामान्यतया धातुः सेट्‌ अस्ति चेत्‌ अपि च तस्मात्‌ यः प्रत्ययः विहितः अस्ति सः अपि सेट्‌ अस्ति चेत्‌, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम्‌ इडागमः भवितुम्‌ अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्‌, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्‌ |</big>
teachers
752

edits