7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary

(46 intermediate revisions by 2 users not shown)
Line 32:

|१४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/333_luT-lakAraH---luT-vishiShTa-iD-AgamaH_%2B_sAmAnya-ArdhadhAtuka-prakriyA-atidesha-sUtrANi_2022-10-25.mp3 luT-lakAraH---luT-vishiShTa-iD-AgamaH_+_sAmAnya-ArdhadhAtuka-prakriyA-atidesha-sUtrANi_2022-10-25]

|१५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/334_luT-lakAraH---atidesha-sUtrANi-%E0%A4%B5%E0%A4%BF%E0%A4%9C%20%E0%A4%87%E0%A4%9F%E0%A5%8D%E2%80%8C%20_%2B_%20%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8B%E0%A4%83_%2B_sAmAnya-angakAryam--igantadhAtavaH_2022-11-01.mp3 luT-lakAraH---atidesha-sUtrANi-विज इट्‌ _+_ विभाषोर्णोः_+_sAmAnya-angakAryam--igantadhAtavaH_2022-11-01]

|१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/335_luT-lakAraH---sAmAnyam-angakAryam_%2B_AkArAnta-dhAtUnAM-luT-lakAraH_2022-11-08.mp3 luT-lakAraH---sAmAnyam-angakAryam_+_AkArAnta-dhAtUnAM-luT-lakAraH_2022-11-08]

|१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/336_luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15.mp3 luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15]

|१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/337_luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_%2B_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22.mp3 luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_+_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22]

|'''2019 वर्गः'''
Line 62 ⟶ 70:

=== '''अनद्यतनकालः''' ===

गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |

एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌ |

=== '''अनद्यतने लुट्‌''' (३.३.१५) ===
'''अनद्यतने लुट्‌''' (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्‌-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''भविष्यति गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः; भविष्यत्‌-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनद्यतने भविष्यति धातोः लुट्‌''' '''प्रत्ययः परश्च''' |

=== '''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) ===

'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) = दुःखार्थे लुट्‌-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |

'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) = दुःखार्थे लुट्‌-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |

लुटः व्यवहारः कुत्र

=== '''लुटः व्यवहारः कुत्र ?''' ===
'''अनद्यतने लुट्‌''' (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—

Line 100 ⟶ 110:

'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम्‌ | सूत्रे नोक्तं, किन्तु  '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम्‌ इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्‌-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन्‌ अस्ति तदानीं तस्मिन्‌ कर्तरि गम्‌-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम्‌ इति उच्यते | अत्र वक्तव्यं यत्‌ '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम्‌ 'अद्य विरामः' इत्युक्तम्‌ | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम्‌ उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्‌, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम्‌ अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम्‌ | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम्‌ उद्युक्तः |

Line 111 ⟶ 121:

आहत्य 'अनद्यतन' इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा | परञ्च लोके तद्विहायो‍पि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्‌ | अनेन च लङि मासात्‌ पूर्वम्‌ अपठत्‌ इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते,यत्र "ह्यः एव पठितवान्‌" इति अनुभूयते | एवमेव लुटि भविष्यत्कालेऽपि |

=== '''लृटः व्यवहारः कुत्र ?''' ===

लृटः व्यवहारः कुत्र ?

Line 123 ⟶ 132:

लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लृट्‌लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति |

Line 133 ⟶ 142:

अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |

सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—

[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]

'''पञ्च उपाङ्गानि'''

पञ्च उपाङ्गानि

Line 161 ⟶ 174:

==== '''१) प्रत्ययादेशः''' ====

Line 175 ⟶ 187:
लुट्‌ → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्‌-संज्ञा; '''हलन्त्यम्‌''' (१.३.३) इत्यनेन टकारस्य इत्‌-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोः लोपः → ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इति द्वाभ्यां सूत्राभ्याम्‌ अष्टादश मूलतिङ्‌प्रत्ययाः विधीयन्ते |

=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) =====
'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट्‌ च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः''' |

Line 183 ⟶ 195:
प्रथमपुरुषे '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) इत्यनेन परस्मैपदे तिप्‌ → डा, तस्‌ → रौ, झि → रस्‌; आत्मनेपदे त → डा, आताम्‌ → रौ, झ → रस्‌ |

=====  '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) =====
'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्‌-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस्‌ इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस्‌ | आत्मनेपदे त-स्थाने डा, आताम्‌-स्थाने रौ, झ-स्थाने रस्‌ | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' |

======  '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) ======
'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल्‌ अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत्‌ डकारः इत्संज्ञकः इत्यतः 'डा' इति कथम्‌ अनेकाल्‌ उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति '''नानुबन्धकृतमनेकाल्त्वम्‌''' (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात्‌ डा इति अनेकाल्‌ न स्यात्‌ | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत्‌ '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम्‌''' | '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेन'''—तात्पर्यम्‌ एवं यत्‌ यावत्‌ तिपः स्थाने 'डा' नागच्छेत्‌ तावत्‌ तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्‌, '''चुटू''' (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप्‌ → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात्‌ अनुबन्धत्वं नास्ति, तस्माच्च '''नानुबन्धकृतमनेकाल्त्वम्‌''' (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |

Line 293 ⟶ 305:

===== '''परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः''' =====

तास्‌ + ति → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), ति-स्थाने डा-आदेशः → तास्‌ + डा → '''चुटू''' (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास्‌ + आ → '''टेः''' (६.४.१४३) इत्यनेन तास्‌-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात्‌ किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्‌, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम्‌ इति कृत्वा डित्त्वसामर्थ्यात्‌ '''टेः''' (६.४.१४३) इत्यनेन तास्‌-प्रत्ययस्य टि-भागलोपः → त्‌ + आ → ता

======  '''टेः''' (६.४.१४३) ======
'''टेः''' (६.४.१४३) = भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति ।

Line 312 ⟶ 323:
तास्‌ + तस्‌ → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) → तास्‌ + रौ → '''रि च''' (७.४.५१) इत्यनेन तास्‌-प्रत्ययस्य सकारलोपः → तारौ

======  '''रि च''' (७.४.५१) ======

'''रि च''' (७.४.५१) = तास्‌-प्रत्ययस्य सकारास्य लोपो भवति रेफादौ प्रत्यये परे | रि सप्तम्यन्तं, च अव्ययदं, द्विपदमिदं सूत्रम्‌ | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात्‌ '''तासः''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तासः अङ्गस्य रि लोपः''' |

Line 324 ⟶ 334:
तास्‌ + सि → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन सकारलोपः → तासि

======  '''तासस्त्योर्लोपः''' (७.४.५०) ======

'''तासस्त्योर्लोपः''' (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सः स्यार्द्धधातुके''' (७.४.४९) इत्यस्मात्‌ '''सि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तास्-अस्त्योः अङ्गस्य लोपः सि''' |

Line 348 ⟶ 357:

===== '''आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः''' =====

Line 366 ⟶ 374:
तास्‌ + थास्‌ → '''थासः से''' (३.४.८०) इत्यनेन टित्‌-लकारस्य थास्‌-स्थाने से-आदेशः → तास् + से → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन तास्-प्रत्ययस्य सकारलोपः सकारे परे → तासे

====== '''थासः से''' (३.४.८०) ======

'''थासः से''' (३.४.८०) = टित्‌-लकारस्य थास्‌-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यस्मात्‌ '''टितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''टितः लस्य थासः से''' |

Line 374 ⟶ 381:
तास्‌ + आथाम्‌ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे

======  '''टित आत्मनेपदानां टेरे''' (३.४.७९) ======
'''टित आत्मनेपदानां टेरे''' (३.४.७९) = टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्‌, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्‌, ए लुप्तप्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''टितः लस्य आत्मनेपदानां टेः ए''' |

Line 382 ⟶ 389:
तास्‌ + ध्वम्‌ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास्‌ + ध्वे → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → ताध्वे

====== <br'''धि />च''' (८.२.२५) ======

'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |

Line 390 ⟶ 396:
तास्‌ + इ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम्‌ → तास्‌ + ए → '''ह एति''' (७.४.५२) इत्यनेन सकारस्थाने हकारादेशः → ताहे

======  '''ह एति''' (७.४.५२) ======

'''ह एति''' (७.४.५२) = तासस्त्योः सकारस्य हकारादशो भवति एति परे | हः प्रथमान्तम्‌, एति सप्तमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |

Line 402 ⟶ 407:
तास्‌ + महि → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम्‌ → तास्महे

=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः =====

प्रश्नः भवति यत्‌ '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्‌, '''हलन्त्यम्‌''' (१.३.३) इत्यनेन तास्‌ इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्‌—
Line 430 ⟶ 438:

=====  '''परस्मैपदे सिद्धतिङ्प्रत्ययाः''' =====

परस्मैपदे सिद्धतिङ्प्रत्ययाः
{| class="wikitable"

Line 453 ⟶ 460:
|तास्मः

===== '''आत्मनेपदे सिद्धतिङ्प्रत्ययाः''' =====

आत्मनेपदे सिद्धतिङ्प्रत्ययाः
{| class="wikitable"

Line 484 ⟶ 490:

===== '''परस्मैपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्''' =====
{| class="wikitable"

Line 509 ⟶ 515:

===== '''आत्मनेपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्''' =====
{| class="wikitable"

Line 532 ⟶ 538:

=====  '''उदाहरणार्थं दा-धातुः''' =====

उदाहरणार्थं दा-धातुः

====== '''परस्मैपदे''' ======
{| class="wikitable"

Line 562 ⟶ 566:

====== '''आत्मनेपदे''' ======
{| class="wikitable"

Line 591 ⟶ 595:

==== '''२) धात्वादेशः''' ====

'''अस्तेर्भूः''' (२.४.५२) | भविता |

===== '''अस्तेर्भूः''' (२.४.५२) =====

'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अदादौ स्थितस्य अस-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तेः भूः आर्धधातुके''' |

=====  '''ब्रुवो वचिः''' (२.४.५३) =====

'''ब्रुवो वचिः''' (२.४.५३) | वक्ता |

Line 610 ⟶ 611:

===== '''चक्षिङ्-धातुः''' =====

'''चक्षिङः ख्याञ्‌''' (२.४.५४) | ख्याता | क्शाता |

Line 620:
'''चक्षिङः ख्याञ्‌''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चक्षिङः ख्याञ्‌''' '''आर्धधातुके''' |

=====  '''अजेर्व्यघञपोः''' (२.४.५६) =====

'''अजेर्व्यघञपोः''' (२.४.५६) | अज्‌ → वेता |

Line 628 ⟶ 627:
'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |

'''एजन्ताः''' =====

'''आदेच उपदेशेऽशिति''' (६.१.४५) | ध्यै → ध्याता

Line 640 ⟶ 638:
यथा— ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे - वा, छो → छा |

'''भ्रस्ज्''' =====

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |

======  '''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) ======

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः; अपि च रम्‌ इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम्‌ इत्यस्मिन्‌ अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्‌, अन्यतरस्यां सप्त्यम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— '''भ्रस्जो रोपधयोः रम्‌ अन्यतरस्याम्‌ आर्धधातुके''' |

Line 658 ⟶ 654:
भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा

=====  '''मीञ्‌, दीङ्‌''' =====

====== '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) ======
'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) | मीञ्‌ → मा → प्रमाता | मिञ्‌ → मा → माता | दीङ्‌ → दा → उपदाता |

Line 666 ⟶ 663:
'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन '''अशिति''' इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |

=====  '''लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)''' =====

====== '''विभाषा लीयतेः''' (६.१.५१) ======
'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |

=====  '''गुहू (संवरणे)''' =====

====== '''ऊदुपधाया गोहः''' (६.४.८९) ======
'''ऊदुपधाया गोहः''' (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्‌-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात्‌ गुणहेतौ अजादौ प्रत्यये | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''गोहः अङ्गस्य उपधायाः ऊत्‌ अचि''' |

Line 698 ⟶ 699:
'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |

===== '''कृपेश्च अवकल्कने''' (विचारं करोति, चिन्तनं करोति) | =====
'''कृपेश्च अवकल्कने''' (विचारं करोति, चिन्तनं करोति) |

======  '''कृपो रो लः''' (८.२.१८) ======
'''कृपो रो लः''' (८.२.१८) | कृप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → कर्प्‌ → कल्प्‌ → कल्पिता आत्मनेपदे / परस्मैपदे '''तासि च क्लृपः''' (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |

Line 720 ⟶ 721:

==== '''३) इडागमः''' ====

Line 730:
अग्रे प्रत्येकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत्प्रत्यये सम्बद्धाः | तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते—

=====  '''तासि च क्लृपः''' (७.२.६०) =====

'''तासि च क्लृपः''' (७.२.६०) = कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तास्‌ च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम्‌ आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्‌, तास्‌ इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां '''लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात्''' | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | '''गमेरिट्‌ परस्मैपदेषु''' (७.२.५८) इत्यस्मात्‌ '''परस्मैपदेषु''' इत्यस्य अनुवृत्तिः | '''न वृद्भ्यश्चतुर्भ्यः''' (७.२.५९) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन '''सेऽसिचि कृतचृतच्छृदतृदनृतः''' (७.२.५७) इत्यस्मात्‌ '''से''' इत्यस्य सप्तम्यन्तस्य अनुकर्षणम्‌ | अनुवृत्ति-सहितसूर्त्रं— '''क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च''' |

Line 738 ⟶ 737:
अत्र प्रश्नः उदेति अस्मिन्‌ '''तासि च क्लृपः''' (७.२.६०) इति सूत्रे '''तासि''' इति पदस्य का आवश्यकता ? अपि च अनुवृत्तिसहितसूत्रे '''से''' इत्यस्य का आवश्यकता ? '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्‌, तास्‌ इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति, इत्युक्तम्‌; अन्यत्र कृप्‌-धातुः आत्मनेपदी | अतः पुनः 'तासि से' इति वदनस्य का आवश्याता ? उत्तरमेवं यत्‌ '''तासि च क्लृपः''' (७.२.६०) इति सूत्रं सप्तमाध्याये; तस्य च अर्थपूर्तिः न भवितुम्‌ अर्हति '''लुटि च क्लृपः''' (१.३.९३) इति प्रथमाध्यस्थसूत्रेण | अष्टाध्याय्याम्‌ अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण च | अत्र तादृशः अवसरः नास्ति अतः साक्षात्‌ वदनस्यावश्यकता |

=====  '''तीषसहलुभरुषरिषः''' (७.२.४८) =====

'''तीषसहलुभरुषरिषः''' (७.२.४८) = दिवादिगणे इष्‌-धातुः, सह्‌, लुभ्‌, रुष्‌, रिष्‌ इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ |

Line 760 ⟶ 758:

==== '''४) अतिदेशः''' ====

Line 790 ⟶ 787:
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि एषां त्रयाणामपि कार्यं भवति | ततः अग्रे अस्मिन्‌ लकारे विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम्‌ अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्‌’ इत्युक्तौ प्रतययम्‌ अवलम्ब्य न तु धातुमवलम्ब्य |)

=====  '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) =====

'''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— '''गाङ्कुटादिभ्यः अञ्णित्‌ ङित्''' |

Line 810 ⟶ 806:
प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम्‌ ? णिच्‌ णित्‌ इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात्‌ ङित्त्वात्‌ च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक्‌ कित्‌, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ्‌ च ङित्‌ |

======  '''कुटादयः धातवः''' ======

कुटादयः धातवः तेषां लुट्‌-लकाररूपाणि च अत्र प्रदर्श्यन्ते—

Line 934 ⟶ 929:
'''गाङ्‌ लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम्‌ आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |

=====  '''विज इट्‌ (१.२.२)''' =====
'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्''' '''‌'''|

Line 944 ⟶ 939:
उद्‌ + विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता

=====  '''विभाषोर्णोः (१.२.३)''' =====

'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विज इट्‌''' (१.२.२) इत्यस्मात्‌ '''इट्‌''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''ऊर्णोः इट्‌ ङित् विभाषा''' |

Line 988 ⟶ 982:

=== '''सामान्यम्‌ अङ्गकार्यम्''' ===

Line 996 ⟶ 989:

==== इगन्तधावः'''इगन्तधातवः''' ====
नी + लुट्‌ → नी + तास्‌ + तिप्‌ → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता

नी + लुट्‌ → नी + तास्‌ +तिप्‌ → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता

अग्रे गत्वा सर्वत्र सिद्धतिङ्‌-प्रत्ययः प्रदर्श्यते
Line 1,004 ⟶ 996:
हु + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → होता

कृ + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → कर्ता

Line 1,026 ⟶ 1,018:

==== '''लघूपधधातवः''' ====

लिख्‌ → लिख्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) → लेख्‌ + इता → लेखिता

Line 1,034 ⟶ 1,025:
वृष्‌ →

क्लृप्‌ → अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट्‌, किन्तु '''तासि च क्लृपः''' (७.२.६०) इति सूत्रेण कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तासः इडागमो न भवति | (कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन तासि परे अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति |) तर्हि 'क्लृप्‌ + इता’ अपि भवति, 'क्लृप्‌ + ता’ अपि भवति; उभयत्र गुणकार्यम्‌ | कल्पिता/कल्प्ता |

Line 1,042 ⟶ 1,033:

===== '''मृज्‌-धातोः वृद्धिः''' =====

Line 1,084 ⟶ 1,074:

नू + इता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्रसक्तिः → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → तास्‌-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → नू + इता → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ्‌ उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → नुव्‌ + इता → नुविता

Line 1,090 ⟶ 1,080:
धू + इता →

गु + इताता →

कु + इताता →

Line 1,120 ⟶ 1,110:
उद्विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणप्रसक्तिः → '''विज इट्‌''' (१.२.२) इत्यनेन तुदादिगणीय-विज्‌-धातुतः सर्वे विधीयमानाः से‌ट्‌-प्रत्ययाः ङिद्वत्‌ → तास्‌-प्रत्ययः अत्र इडादिः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता

=== '''इदं वर्गीकरणम्‌ अनुसृत्य''' '''लुट्‌-लकारस्य रूपसिद्धिः चिन्तनीया''' ===

सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्‌-लकारस्य रूपसिद्धिः इदं वर्गीकरणम्‌ अनुसृत्य चिन्तनीयम्‌—‌‌

Line 1,148 ⟶ 1,137:

==== '''१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः''' ====

आकारान्ताः च एजन्ताः च धातवः

===== '''आकारान्ताः च एजन्ताः च धातवः''' =====
सामान्याः आकारान्तधातवः

====== '''सामान्याः आकारान्तधातवः''' ======

Line 1,219 ⟶ 1,206:

====== '''दरिद्रा-धातुः''' ======

Line 1,235 ⟶ 1,221:

====== '''एजन्तधातवः''' ======

Line 1,253 ⟶ 1,238:

===== '''इकारान्तधातवः''' =====

====== '''सामान्याः इकारान्तधातवः''' ======

Line 1,273 ⟶ 1,256:

====== '''श्रि, श्वि इति धातू''' ======

Line 1,287 ⟶ 1,269:

====== '''डुमिञ्‌ प्रेक्षणे''' ======

Line 1,295 ⟶ 1,276:

डुमिञ्‌ + ता → मि + ता → ''''''सार्वधातुकार्धधातुकयोः'''''' (७.३.८४) इत्यनेन गुणप्रसक्तिः '''→ मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + ता → माता

Line 1,301 ⟶ 1,282:

===== '''ईकारान्तधातवः''' =====

====== '''सामान्याः ईकारान्तधातवः''' ======

Line 1,321 ⟶ 1,300:

====== '''डीङ्‌, शीङ्‌ इति धातू''' ======

Line 1,335 ⟶ 1,313:

====== '''दीधी, वेवी''' ======

Line 1,355 ⟶ 1,332:

====== '''मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू''' ======

Line 1,363 ⟶ 1,339:

(प्र +) मीञ्‌ + ता → मी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + ता → प्रमाता

(उप +) दीङ्‌ + ता → दी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप + दा + ता → उपदाता

====== '''लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू''' ======

Line 1,381 ⟶ 1,356:
ली → ले → ला → विलाता | आत्वाभावे विलेता |

उकारान्तधातवः

===== '''उकारान्तधातवः''' =====

====== '''सामान्याः उकारान्तधातवः''' ======

Line 1,401 ⟶ 1,374:

====== '''षट्‌ सेटः उकारान्तधातवः''' ======

Line 1,417 ⟶ 1,389:

====== '''उकारान्ताः कुटादिधातवः''' ======

Line 1,451 ⟶ 1,422:

====== '''ऊर्णु-धातुः''' ======

Line 1,473 ⟶ 1,443:

===== '''ऊकारान्तधातवः''' =====

====== '''सामान्याः ऊकारान्तधातवः''' ======

Line 1,515 ⟶ 1,483:

====== '''कुटादिधातवः''' ======

Line 1,543 ⟶ 1,510:

====== '''ब्रू-धातोः वच्‌ इति धात्वादेशः''' ======

Line 1,555 ⟶ 1,521:

===== '''ऋकारान्तधातवः''' =====

====== '''सामान्याः ऋकारान्तधातवः''' ======

Line 1,575 ⟶ 1,539:

====== '''वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ''' ======

======  '''वॄतो वा (७.२.३८)''' ======
'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |

Line 1,591 ⟶ 1,554:

====== '''स्वृ-धातुः वेट्‌''' ======

Line 1,607 ⟶ 1,569:

===== '''ॠकारान्तधातवः''' =====

Line 1,625 ⟶ 1,586:

इति सर्वेषाम्‌ अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |

==== '''२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः''' ====

Line 1,671 ⟶ 1,631:

===== '''सेट्‍ इदुपधधातवः''' =====

Line 1,683 ⟶ 1,642:

====== '''कुटादिगणीयः सेट्‌ इदुपधधातुः एकः एव— डिप्‌-धातुः''' ======

Line 1,703 ⟶ 1,661:

====== '''विज्‌-धातुः''' ======

Line 1,717 ⟶ 1,674:

===== '''सेट्‍ उदुपधधातवः''' =====

Line 1,731 ⟶ 1,687:

====== '''कुटादिगणीयाः सेट्‌-उदुपधधातवः''' ======

Line 1,815 ⟶ 1,770:

=====  '''सेट्‍ ऋदुपधधातवः''' =====

सेट्‍ ऋदुपधधातवः

Line 1,830 ⟶ 1,783:

====== '''कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्‌, भृड्‌''' ======

Line 1,842 ⟶ 1,794:
भृड्‌ + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता

कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः

====== '''कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः''' ======

Line 1,860 ⟶ 1,811:

====== '''ग्रह्‌-धातुः''' ======

'''ग्रहोऽलिटि दीर्घः''' (७.२.३७) = एकाच्‌-ग्रहेः विहितस्य इटः दीर्घः स्यात्‌ न तु लिटि ।

Line 1,876 ⟶ 1,826:

====== '''चक्ष्‌-धातुः''' ======

Line 1,906 ⟶ 1,855:

====== '''अज्‌-धातुः''' ======

Line 1,926 ⟶ 1,874:

इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |

==== '''३) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः''' ====

हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम्‌ | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वक-कुष्‌-धातुः | सम्प्रति एतेषां सर्वेषां लुट्‌-लकारान्तरूपं साधयिष्यामः | धेयं यत्‌ तास्‌-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्‌-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम्‌ अस्ति |

कवर्गान्तधातवः

===== '''कवर्गान्तधातवः''' =====

धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्‌, '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |

======  '''एक एव एकाच्‌ कवर्गान्तधातुः शक्''' ======

एक एव एकाच्‌ कवर्गान्तधातुः अनिट्‌ अस्ति—

Line 1,958 ⟶ 1,903:

===== '''चवर्गान्तधातवः''' =====

====== '''एकाच्‌-चकारान्तधातवः - षड्‌ धातवः अनिटः''' ======

Line 1,992 ⟶ 1,935:

====== '''वेट्‌-चकारान्तधातवः—तञ्चू, व्रश्च्‌''' ======

Line 2,026 ⟶ 1,968:

====== '''व्रश्च-धातुः''' ======

इडादिपक्षे—
Line 2,042 ⟶ 1,983:

प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | व्रस्च्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → व्रच्‌ + ता |

Line 2,060 ⟶ 2,001:

====== '''व्यच्‌-धातुः''' ======

व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ '''व्यचेः कुटादित्वमनसीति वक्तव्यम्‌''' इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच्‌ + इता → व्यचिता |

===== '''छकारान्तधातुः''' =====

एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |

Line 2,074 ⟶ 2,013:
'''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌

'''प्रच्छ्''' ======

प्रच्छ्‌ + ता → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → प्रश्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → प्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → प्रष्टा

Line 2,084 ⟶ 2,022:

===== '''जकारान्तधातवः''' =====

====== '''एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः''' ======

एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति '''चोः कुः''' (८.२.३०) च '''खरि च''' (८.४.५५) चेति सूत्राभ्याम्‌ |
Line 2,119 ⟶ 2,055:

'''विशिष्ट-अनिट्‌-जकारान्तधातवः'''

Line 2,131 ⟶ 2,067:

====== '''मस्ज्‌-धातुः''' ======

Line 2,163 ⟶ 2,098:

====== '''सृज्‌-धातुः''' ======

Line 2,189 ⟶ 2,123:

====== '''भ्रस्ज्‌-धातुः''' ======

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |
Line 2,208 ⟶ 2,141:
भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा

======  '''अज् - धातुः''' ======

अज्‌ + लुट्‌ → वेता |

'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |

======  '''तुदादिगणीय-विज्‌-धातुः''' ======
'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्‌''' |

Line 2,226 ⟶ 2,158:

====== '''यज्‌-धातुः - सन्धिविशेषः''' ======

Line 2,237 ⟶ 2,168:

====== '''वे‌ट्‌-धातवः - अञ्जू, मृजू''' ======

Line 2,257 ⟶ 2,187:

====== '''मृज्‌-धातुः''' ======

'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
Line 2,280 ⟶ 2,209:

==== '''तवर्गान्तधातवः''' ====

=====  '''‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः''' =====
‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |

=====  '''एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः''' =====

एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''खरि च''' (८.४.५५) इति सूत्रेण |

Line 2,322 ⟶ 2,249:

====== '''दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌''' ======

क्लिद्-धातुः

Line 2,348 ⟶ 2,274:
स्यन्द्‌ + ता →

=====  '''एकाच्‌-धकारान्तधातवः - १० धातवः''' =====

एकाच्‌-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश्‌ झशि''' (८.४.५३) इति सूत्राभ्याम्‌ |

Line 2,392 ⟶ 2,317:

====== '''द्वौ धकारान्तौ वेटौ धातू - सिध्‌, रध्‌''' ======

सिध्‌-धातुः

Line 2,424 ⟶ 2,348:
रध्‌ + ता →

=====  '''एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्''' =====

एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |

एकाच्‌-धकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |