7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions
7---ArdhadhAtukaprakaraNam/16---luT-lakAraH (view source)
Revision as of 23:43, 7 May 2024
, 12 days agono edit summary
No edit summary |
No edit summary |

(37 intermediate revisions by 2 users not shown) | |||
Line 38:

|१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/336_luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15.mp3 luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15]

|१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/337_luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_%2B_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22.mp3 luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_+_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22]

|'''2019 वर्गः'''
Line 68 ⟶ 70:

गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन् अनद्यतनम् | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं, तदा लृट्-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |
Line 74 ⟶ 76:
एकस्मिन् तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत्, प्रातःकालस्य षड्वादनात् सयङ्कालपर्यन्तम् दिनस्य प्रहराः | उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्वादनात् नववादनपर्यन्तम् | अतः अद्यतनकालः इत्यस्मिन् आहत्य षड्प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रेः नववादनपर्यनम् |
=== '''अनद्यतने लुट्''' (३.३.१५) ===
Line 85 ⟶ 88:
=== '''लुटः व्यवहारः कुत्र ?''' ===
'''अनद्यतने लुट्''' (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—
Line 107 ⟶ 110:
'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम् | सूत्रे नोक्तं, किन्तु '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम् इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता
Line 120 ⟶ 123:
आहत्य 'अनद्यतन' इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा | परञ्च लोके तद्विहायोपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् | अनेन च लङि मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते,यत्र "ह्यः एव पठितवान्" इति अनुभूयते | एवमेव लुटि भविष्यत्कालेऽपि |
=== '''लृटः व्यवहारः कुत्र ?''' ===
Line 129 ⟶ 132:
लृट् भवति कुत्र ? काशिकायाम् ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति | विग्रहवाक्यम् अस्ति 'अविद्यमानः अद्यतनः यस्मिन् सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्, विग्रहवाक्यम् अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति | अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्, एवम् अनद्यतनकालः अस्ति चेत्, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्, तदानीं सः केवलम् अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे)
Line 139 ⟶ 142:
अतः वयम् अनुमानं कृत्वा भावयामः यत् अर्थः एतादृशः स्यात् | नो चेत् अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वम्" | किन्तु तथा सूत्रकारस्य आशयः न स्यात् | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्, पुनः भविष्यत्सामान्ये लृट्-लकारः इति कथं वा 'सामान्यम्' वदेम ? अपि च भविष्यत्सामान्ये लृट्-लकारः, अनद्यतने भविष्यत् लुट्-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम् अत्र नास्ति | नाम "भवान् आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम् अनन्तरम् इति नार्थः | अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्-लकारस्य | लृट्-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति सर्वम्" इति स्वीक्रियते चेत्, लुट्-लकारः एव सामान्यं भवति | किन्तु लुट्-लकारः एव विशिष्टः | प्रत्येकं भाषायाम् एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम् | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्-लकारः, अनद्यतनभविष्यति लुट्-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत् ह्यः जातं तदर्थं लङ्-लकारः, यत् श्वः जायमानमस्ति तदर्थं लुट्-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |
सारांशत्वेन अस्माकं शुकवनम् महोदयः एतत् कोष्ठकं निर्मितवान्—
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]

Line 165 ⟶ 174:

==== '''१) प्रत्ययादेशः''' ====

Line 177 ⟶ 186:
लुट् → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्-संज्ञा; '''हलन्त्यम्''' (१.३.३) इत्यनेन टकारस्य इत्-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोः लोपः → ल् → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते |
=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) =====
Line 184 ⟶ 194:
प्रथमपुरुषे '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) इत्यनेन परस्मैपदे तिप् → डा, तस् → रौ, झि → रस्; आत्मनेपदे त → डा, आताम् → रौ, झ → रस् |
=====  '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) =====
'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस् | आत्मनेपदे त-स्थाने डा, आताम्-स्थाने रौ, झ-स्थाने रस् | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' |
======  '''अनेकाल्शित् सर्वस्य''' (१.१.५५) ======
Line 293 ⟶ 305:

===== '''परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः''' =====

तास् + ति → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), ति-स्थाने डा-आदेशः → तास् + डा → '''चुटू''' (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
======  '''टेः''' (६.४.१४३) ======
Line 344 ⟶ 357:

===== '''आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः''' =====

Line 367 ⟶ 380:
तास् + आथाम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे
======  '''टित आत्मनेपदानां टेरे''' (३.४.७९) ======
Line 375 ⟶ 389:
तास् + ध्वम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास् + ध्वे → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → ताध्वे

'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रात्सस्य''' (८.२.२४) इत्यस्मात् '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धि च सस्य लोपः''' |
Line 392 ⟶ 406:
तास् + महि → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्महे
=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः =====
प्रश्नः भवति यत् '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्, '''हलन्त्यम्''' (१.३.३) इत्यनेन तास् इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्—
Line 420 ⟶ 438:

=====  '''परस्मैपदे सिद्धतिङ्प्रत्ययाः''' =====
{| class="wikitable"

Line 442 ⟶ 460:
|तास्मः

===== '''आत्मनेपदे सिद्धतिङ्प्रत्ययाः''' =====▼
▲=== आत्मनेपदे सिद्धतिङ्प्रत्ययाः ===
{| class="wikitable"

Line 473 ⟶ 490:

===== '''परस्मैपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्''' =====
{| class="wikitable"

Line 498 ⟶ 515:

===== '''आत्मनेपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्''' =====
{| class="wikitable"

Line 521 ⟶ 538:

=====  '''उदाहरणार्थं दा-धातुः''' =====

====== '''परस्मैपदे''' ======
{| class="wikitable"

Line 549 ⟶ 566:

====== '''आत्मनेपदे''' ======
{| class="wikitable"

Line 578 ⟶ 595:

==== '''२) धात्वादेशः''' ====

Line 637 ⟶ 654:
भ्रस्ज् + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज् + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष् + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा
=====  '''मीञ्, दीङ्''' =====
====== '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) ======
Line 646 ⟶ 663:
'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन '''अशिति''' इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम् आत् ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |
=====  '''लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)''' =====
====== '''विभाषा लीयतेः''' (६.१.५१) ======
'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |
=====  '''गुहू (संवरणे)''' =====
====== '''ऊदुपधाया गोहः''' (६.४.८९) ======
Line 680 ⟶ 699:
'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |
===== '''कृपेश्च अवकल्कने''' =====
Line 702 ⟶ 721:

==== '''३) इडागमः''' ====

Line 739 ⟶ 758:

==== '''४) अतिदेशः''' ====

Line 787 ⟶ 806:
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
======  '''कुटादयः धातवः''' ======
कुटादयः धातवः तेषां लुट्-लकाररूपाणि च अत्र प्रदर्श्यन्ते—
Line 910 ⟶ 929:
'''गाङ् लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
=====  '''विज इट्
'''विज इट्''' (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''विजः इट् ङित्''' ''''''|
Line 919 ⟶ 939:
उद् + विज् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
=====  '''विभाषोर्णोः
'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''विज इट्''' (१.२.२) इत्यस्मात् '''इट्''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''ऊर्णोः इट् ङित् विभाषा''' |
Line 962 ⟶ 982:
=== '''सामान्यम् अङ्गकार्यम्''' ===

Line 969 ⟶ 989:

नी + लुट् → नी + तास् + तिप् → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता
Line 998 ⟶ 1,018:

==== '''लघूपधधातवः''' ====
लिख् → लिख् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) → लेख् + इता → लेखिता
Line 1,013 ⟶ 1,033:

===== '''मृज्-धातोः वृद्धिः''' =====

Line 1,090 ⟶ 1,110:
उद्विज् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणप्रसक्तिः → '''विज इट्''' (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तास्-प्रत्ययः अत्र इडादिः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
=== '''इदं वर्गीकरणम् अनुसृत्य''' '''लुट्-लकारस्य रूपसिद्धिः
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्-लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
Line 1,117 ⟶ 1,137:

==== '''१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः''' ====
===== '''आकारान्ताः च एजन्ताः च धातवः''' =====
====== '''सामान्याः आकारान्तधातवः''' ======

Line 1,187 ⟶ 1,206:

====== '''दरिद्रा-धातुः''' ======

Line 1,202 ⟶ 1,221:

====== '''एजन्तधातवः''' ======

Line 1,219 ⟶ 1,238:

===== '''इकारान्तधातवः''' =====

====== '''सामान्याः इकारान्तधातवः''' ======

Line 1,237 ⟶ 1,256:

====== '''श्रि, श्वि

Line 1,250 ⟶ 1,269:

====== '''डुमिञ् प्रेक्षणे''' ======

Line 1,263 ⟶ 1,282:

===== '''ईकारान्तधातवः''' =====

====== '''सामान्याः ईकारान्तधातवः''' ======

Line 1,281 ⟶ 1,300:

====== '''डीङ्, शीङ् इति धातू''' ======

Line 1,294 ⟶ 1,313:

====== '''दीधी, वेवी''' ======

Line 1,313 ⟶ 1,332:

====== '''मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू''' ======

Line 1,328 ⟶ 1,347:

====== '''लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू''' ======

Line 1,337 ⟶ 1,356:
ली → ले → ला → विलाता | आत्वाभावे विलेता |
===== '''उकारान्तधातवः''' =====

====== '''सामान्याः उकारान्तधातवः''' ======

Line 1,355 ⟶ 1,374:

====== '''षट् सेटः उकारान्तधातवः''' ======

Line 1,370 ⟶ 1,389:

====== '''उकारान्ताः कुटादिधातवः''' ======

Line 1,403 ⟶ 1,422:

====== '''ऊर्णु-धातुः''' ======

Line 1,424 ⟶ 1,443:

===== '''ऊकारान्तधातवः''' =====

====== '''सामान्याः ऊकारान्तधातवः''' ======

Line 1,464 ⟶ 1,483:

====== '''कुटादिधातवः''' ======

Line 1,491 ⟶ 1,510:

====== '''ब्रू-धातोः वच् इति धात्वादेशः''' ======

Line 1,502 ⟶ 1,521:

===== '''ऋकारान्तधातवः''' =====

====== '''सामान्याः ऋकारान्तधातवः''' ======

Line 1,520 ⟶ 1,539:

====== '''वृङ्,वृञ् इति द्वौ धातू सेटौ''' ======
======  '''वॄतो वा
'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
Line 1,535 ⟶ 1,554:

====== '''स्वृ-धातुः वेट्''' ======

Line 1,550 ⟶ 1,569:

===== '''ॠकारान्तधातवः''' =====

Line 1,567 ⟶ 1,586:

इति सर्वेषाम् अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः

==== '''२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः''' ====

Line 1,612 ⟶ 1,631:

===== '''सेट् इदुपधधातवः''' =====

Line 1,623 ⟶ 1,642:

====== '''कुटादिगणीयः सेट् इदुपधधातुः एकः एव— डिप्-धातुः''' ======

Line 1,642 ⟶ 1,661:

====== '''विज्-धातुः''' ======

Line 1,655 ⟶ 1,674:

===== '''सेट् उदुपधधातवः''' =====

Line 1,668 ⟶ 1,687:

====== '''कुटादिगणीयाः सेट्-उदुपधधातवः''' ======

Line 1,751 ⟶ 1,770:

=====  '''सेट् ऋदुपधधातवः''' =====

Line 1,764 ⟶ 1,783:

====== '''कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्, भृड्''' ======

Line 1,775 ⟶ 1,794:
भृड् + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता
====== '''कृप्-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः''' ======

Line 1,792 ⟶ 1,811:

====== '''ग्रह्-धातुः''' ======

'''ग्रहोऽलिटि दीर्घः''' (७.२.३७) = एकाच्-ग्रहेः विहितस्य इटः दीर्घः स्यात् न तु लिटि ।

Line 1,807 ⟶ 1,826:

====== '''चक्ष्-धातुः''' ======

Line 1,836 ⟶ 1,855:

====== '''अज्-धातुः''' ======

Line 1,855 ⟶ 1,874:

इति भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः

==== '''३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः''' ====

हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां लुट्-लकारान्तरूपं साधयिष्यामः | धेयं यत् तास्-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |
===== '''कवर्गान्तधातवः''' =====

धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्, '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |
======  '''एक एव एकाच् कवर्गान्तधातुः शक्''' ======

एक एव एकाच् कवर्गान्तधातुः अनिट् अस्ति—
Line 1,885 ⟶ 1,903:

===== '''चवर्गान्तधातवः''' =====

====== '''एकाच्-चकारान्तधातवः - षड् धातवः अनिटः''' ======

Line 1,917 ⟶ 1,935:

====== '''वेट्-चकारान्तधातवः—तञ्चू, व्रश्च्''' ======

Line 1,950 ⟶ 1,968:

====== '''व्रश्च-धातुः''' ======
इडादिपक्षे—
Line 1,965 ⟶ 1,983:

प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात् ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः

Line 1,983 ⟶ 2,001:

====== '''व्यच्-धातुः''' ======

व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् '''व्यचेः कुटादित्वमनसीति वक्तव्यम्''' इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | परन्तु तिङ्-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति | तिङ्-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत् न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच् + इता → व्यचिता |

एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
Line 1,995 ⟶ 2,013:
'''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्

प्रच्छ् + ता → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → प्रश् + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → प्रष् + ता → '''ष्टुना ष्टुः''' (८.४.४१) → प्रष्टा
Line 2,005 ⟶ 2,022:

===== '''जकारान्तधातवः''' =====

====== '''एकाच्-जकारान्तधातवः - १५ धातवः अनिटः''' ======

एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति '''चोः कुः''' (८.२.३०) च '''खरि च''' (८.४.५५) चेति सूत्राभ्याम् |
Line 2,039 ⟶ 2,055:

Line 2,050 ⟶ 2,067:

====== '''मस्ज्-धातुः''' ======

Line 2,081 ⟶ 2,098:

====== '''सृज्-धातुः''' ======

Line 2,106 ⟶ 2,123:

====== '''भ्रस्ज्-धातुः''' ======

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्''' (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
Line 2,124 ⟶ 2,141:
भ्रस्ज् + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज् + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष् + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा

अज् + लुट् → वेता |
'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |
======  '''तुदादिगणीय-विज्-धातुः''' ======
'''विज इट्''' (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''विजः इट् ङित्''' |
Line 2,140 ⟶ 2,158:

====== '''यज्-धातुः - सन्धिविशेषः''' ======

Line 2,150 ⟶ 2,168:

====== '''वेट्-धातवः - अञ्जू, मृजू''' ======

Line 2,169 ⟶ 2,187:

====== '''मृज्-धातुः''' ======

'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
Line 2,191 ⟶ 2,209:

==== '''तवर्गान्तधातवः''' ====

=====  '''तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः''' =====
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |
=====  '''एकाच्-दकारान्तधातवः - १५ धातवः अनिटः''' =====

एकाच्-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''खरि च''' (८.४.५५) इति सूत्रेण |
Line 2,232 ⟶ 2,249:

====== '''दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द्''' ======
क्लिद्-धातुः
Line 2,257 ⟶ 2,274:
स्यन्द् + ता →
=====  '''एकाच्-धकारान्तधातवः - १० धातवः''' =====
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश् झशि''' (८.४.५३) इति सूत्राभ्याम् |
Line 2,300 ⟶ 2,317:

====== '''द्वौ धकारान्तौ वेटौ धातू - सिध्, रध्''' ======
सिध्-धातुः
Line 2,332 ⟶ 2,348:
रध् + ता →
=====  '''एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्''' =====
एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्, हन् |