7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary

(13 intermediate revisions by 2 users not shown)
Line 38:

|१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/336_luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15.mp3 luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15]

|१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/337_luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_%2B_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22.mp3 luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_+_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22]

|'''2019 वर्गः'''
Line 108 ⟶ 110:

'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम्‌ | सूत्रे नोक्तं, किन्तु  '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम्‌ इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्‌-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन्‌ अस्ति तदानीं तस्मिन्‌ कर्तरि गम्‌-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम्‌ इति उच्यते | अत्र वक्तव्यं यत्‌ '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम्‌ 'अद्य विरामः' इत्युक्तम्‌ | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम्‌ उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्‌, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम्‌ अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम्‌ | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम्‌ उद्युक्तः |

Line 140 ⟶ 142:

अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |

[[File:Future and past tenses of Samskrtam.png|left|thumb|800x800px|संस्कुतभाषायां भूतकालः भविष्यत्कालः च]]

सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—

[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]

=== '''पञ्च उपाङ्गानि''' ===

=== '''पञ्च उपाङ्गानि''' ===

Line 1,613 ⟶ 1,586:

इति सर्वेषाम्‌ अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |

Line 1,901 ⟶ 1,874:

इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |

Line 2,010 ⟶ 1,983:

प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | व्रस्च्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → व्रच्‌ + ता |