7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 110:
 
 
<big>'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम्‌ | सूत्रे नोक्तं, किन्तु  '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम्‌ इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्‌-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन्‌ अस्ति तदानीं तस्मिन्‌ कर्तरि गम्‌-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम्‌ इति उच्यते | अत्र वक्तव्यं यत्‌ '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम्‌ 'अद्य विरामः' इत्युक्तम्‌ | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम्‌ उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्‌, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम्‌ अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम्‌ | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम्‌ उद्युक्तः |</big>
 
 
Line 146:
<big>सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—</big>
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]
 
[[File:Future and past tenses of Samskrtam.png|859x859px|संस्कुतभाषायां भूतकालः भविष्यत्कालः च|center|frameless]]
 
Line 1,986 ⟶ 1,983:
<big><br /></big>
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | व्रस्च्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → व्रच्‌ + ता |</big>
 
<big><br /></big>