7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 43:
 
<big>एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रत्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌ |</big>
 
 
 
<big>'''अनद्यतने लुट्‌''' (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्‌-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''भविष्यति गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः; भविष्यत्‌-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनद्यतने भविष्यति धातोः लुट्‌''' '''प्रत्ययः परश्च''' |</big>
 
<big><br /></big>
 
<big>'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) = दुःखार्थे लुट्‌-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |</big>
Line 60 ⟶ 58:
 
<big>अनेन "श्वः आगमिष्यामि" इति व्यवहारः दोषाय | नाम अद्यतनकालं त्यक्त्वा भविष्यत्कालप्रसङ्गे यत्किमपि वदामः तत्‌ लुटि एव भवेत्‌ न तु लृटि | शुद्ध-अनद्यतन-भविष्यत्काले लुट्‌-लकारः एव इति कथनस्य तात्पर्यम्‌ |</big>
 
 
<big>पञ्च उपाङ्गानि</big>
 
 
<big>यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात्‌ प्राक्‌ पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गनि सन्ति—</big>
Line 85:
 
<big>लुट्‌ → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्‌-संज्ञा; हलन्त्यम्‌ (१.३.३) इत्यनेन टकारस्य इत्‌-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोः लोपः → ल्‌ → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इति द्वाभ्यां सूत्राभ्याम्‌ अष्टादश मूलतिङ्‌प्रत्ययाः विधीयन्ते |</big>
 
 
<big>'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट्‌ च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः |  अनुवृत्ति-सहितसूत्रम्‌— धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः |</big>
 
 
<big>प्रथमपुरुषे लुटः प्रथमस्य डारौरसः (२.४.८५) इत्यनेन परस्मैपदे तिप्‌ → डा, आताम्‌ → रौ, झि → रस्‌; आत्मनेपदे त → डा, आताम्‌ → रौ, झ → रस्‌ |</big>
 
 
<big>'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्‌-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस्‌ इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस्‌ | आत्मनेपदे त-स्थाने डा, आताम्‌-स्थाने रौ, झ-स्थाने रस्‌ | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' | ‌</big>
 
 
<big>अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल्‌ अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत्‌ डकारः इत्संज्ञकः इत्यतः 'डा' इति कथम्‌ अनेकाल्‌ उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति नानुबन्धकृतमनेकाल्त्वम्‌ (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात्‌ डा इति अनेकाल्‌ न स्यात्‌ | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत्‌ डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम्‌ | डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेन—तात्पर्यम्‌ एवं यत्‌ यावत्‌ तिपः स्थाने 'डा' नागच्छेत्‌ तावत्‌ तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्‌, चुटू (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप्‌ → लुटः प्रथमस्य डारौरसः (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात्‌ अनुबन्धत्वं नास्ति, तस्माच्च नानुबन्धकृतमनेकाल्त्वम्‌ (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन अलोऽन्त्यस्य (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |</big>
page_and_link_managers, Administrators
5,162

edits