7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 794:
<big><br /></big>
 
<big>लुटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्‌-णित्‌-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत्‌ भवन्ति | ततः सर्वत्र '''क्क्ङिति च''' (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम्‌ उच्यते यत्‌ '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) केवलम्‌ आर्धधातुकप्रक्रियायाम्‌ ? किमर्थं न सार्वधातुकप्रक्रियायाम्‌ अस्य कार्यं स्यात्‌ ? अस्य उत्तरमिदं यत्‌ कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात्‌ सर्वत्र तुदादिगणे धातौ गुणनिषेधः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इति सूत्रं निष्प्रयोजनम्‌ | अपि च यथा अग्रे उच्यते, गाङ्‌-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ्‌ इङ्‌-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, कवलम्‌केवलम्‌ आर्धधातुकप्रक्रियायाम्‌ |</big>
 
<big><br /></big>