page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

Line 73:
एकस्मिन् तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत्, प्रातःकालस्य षड्वादनात् सयङ्कालपर्यन्तम् दिनस्य प्रहराः | उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्वादनात् नववादनपर्यन्तम् | अतः अद्यतनकालः इत्यस्मिन् आहत्य षड्प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रेः नववादनपर्यनम् |
=== '''अनद्यतने लुट्''' (३.३.१५) ===
'''अनद्यतने लुट्''' (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''भविष्यति गम्यादयः''' (३.३.३) इत्यस्मात् '''भविष्यति''' इत्यस्य अनुवृत्तिः; भविष्यत्-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम् | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनद्यतने भविष्यति धातोः लुट्''' '''प्रत्ययः परश्च''' |
=== '''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्) ===
Line 83 ⟶ 85:
=== लुटः व्यवहारः कुत्र ===
'''अनद्यतने लुट्''' (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—
Line 117 ⟶ 118:
आहत्य 'अनद्यतन' इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा | परञ्च लोके तद्विहायोपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् | अनेन च लङि मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते,यत्र "ह्यः एव पठितवान्" इति अनुभूयते | एवमेव लुटि भविष्यत्कालेऽपि |
=== लृटः व्यवहारः कुत्र ? ===
Line 142:
=== पञ्च उपाङ्गानि ===

Line 167 ⟶ 165:

==== १) प्रत्ययादेशः ====

Line 181 ⟶ 178:
लुट् → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्-संज्ञा; '''हलन्त्यम्''' (१.३.३) इत्यनेन टकारस्य इत्-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोः लोपः → ल् → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते |
=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) =====
'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट् च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः''' |
Line 189 ⟶ 185:
प्रथमपुरुषे '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) इत्यनेन परस्मैपदे तिप् → डा, तस् → रौ, झि → रस्; आत्मनेपदे त → डा, आताम् → रौ, झ → रस् |
=====  '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) =====
'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस् | आत्मनेपदे त-स्थाने डा, आताम्-स्थाने रौ, झ-स्थाने रस् | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' |
======  '''अनेकाल्शित् सर्वस्य''' (१.१.५५) ======
'''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः 'डा' इति कथम् अनेकाल् उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति '''नानुबन्धकृतमनेकाल्त्वम्''' (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात् डा इति अनेकाल् न स्यात् | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम्''' | '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेन'''—तात्पर्यम् एवं यत् यावत् तिपः स्थाने 'डा' नागच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्, '''चुटू''' (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप् → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात् अनुबन्धत्वं नास्ति, तस्माच्च '''नानुबन्धकृतमनेकाल्त्वम्''' (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |
Line 299 ⟶ 293:

===== परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः =====

तास् + ति → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), ति-स्थाने डा-आदेशः → तास् + डा → '''चुटू''' (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
======  '''टेः''' (६.४.१४३) ======
'''टेः''' (६.४.१४३) = भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति ।
Line 318 ⟶ 310:
तास् + तस् → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) → तास् + रौ → '''रि च''' (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → तारौ
======  '''रि च''' (७.४.५१) ======
'''रि च''' (७.४.५१) = तास्-प्रत्ययस्य सकारास्य लोपो भवति रेफादौ प्रत्यये परे | रि सप्तम्यन्तं, च अव्ययदं, द्विपदमिदं सूत्रम् | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात् '''तासः''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''तासः अङ्गस्य रि लोपः''' |
Line 330 ⟶ 321:
तास् + सि → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन सकारलोपः → तासि
======  '''तासस्त्योर्लोपः''' (७.४.५०) ======
'''तासस्त्योर्लोपः''' (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सः स्यार्द्धधातुके''' (७.४.४९) इत्यस्मात् '''सि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''तास्-अस्त्योः अङ्गस्य लोपः सि''' |
Line 354 ⟶ 344:

===== आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः =====

Line 372 ⟶ 361:
तास् + थास् → '''थासः से''' (३.४.८०) इत्यनेन टित्-लकारस्य थास्-स्थाने से-आदेशः → तास् + से → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन तास्-प्रत्ययस्य सकारलोपः सकारे परे → तासे
====== '''थासः से''' (३.४.८०) ======
'''थासः से''' (३.४.८०) = टित्-लकारस्य थास्-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यस्मात् '''टितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''टितः लस्य थासः से''' |
Line 380 ⟶ 368:
तास् + आथाम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे
======  '''टित आत्मनेपदानां टेरे''' (३.४.७९) ======
'''टित आत्मनेपदानां टेरे''' (३.४.७९) = टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्, ए लुप्तप्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''टितः लस्य आत्मनेपदानां टेः ए''' |
Line 388 ⟶ 375:
तास् + ध्वम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास् + ध्वे → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → ताध्वे
======  '''धि च''' (८.२.२५) ======
'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रात्सस्य''' (८.२.२४) इत्यस्मात् '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धि च सस्य लोपः''' |
Line 396 ⟶ 382:
तास् + इ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास् + ए → '''ह एति''' (७.४.५२) इत्यनेन सकारस्थाने हकारादेशः → ताहे
======  '''ह एति''' (७.४.५२) ======
'''ह एति''' (७.४.५२) = तासस्त्योः सकारस्य हकारादशो भवति एति परे | हः प्रथमान्तम्, एति सप्तमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |
Line 408 ⟶ 393:
तास् + महि → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्महे
=====  '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः =====
प्रश्नः भवति यत् '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्, '''हलन्त्यम्''' (१.३.३) इत्यनेन तास् इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्—
Line 436 ⟶ 420:

===  परस्मैपदे सिद्धतिङ्प्रत्ययाः ===
{| class="wikitable"

Line 460 ⟶ 443:

=== आत्मनेपदे सिद्धतिङ्प्रत्ययाः ===
{| class="wikitable"

Line 490 ⟶ 473:

=== परस्मैपदे सिद्धतिङ्प्रत्ययाः ===
{| class="wikitable"

Line 515 ⟶ 498:

=== आत्मनेपदे सिद्धतिङ्प्रत्ययाः ===
{| class="wikitable"

Line 538 ⟶ 521:

====  उदाहरणार्थं दा-धातुः ====

===== परस्मैपदे =====
{| class="wikitable"

Line 568 ⟶ 549:

===== आत्मनेपदे =====
{| class="wikitable"

Line 597 ⟶ 578:

==== २) धात्वादेशः ====

'''अस्तेर्भूः''' (२.४.५२) | भविता |
===== '''अस्तेर्भूः''' (२.४.५२) =====
'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम् अदादौ स्थितस्य अस-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अस्तेः भूः आर्धधातुके''' |
=====  '''ब्रुवो वचिः''' (२.४.५३) =====
'''ब्रुवो वचिः''' (२.४.५३) | वक्ता |
Line 616 ⟶ 594:

===== '''चक्षिङ्-धातुः'''
'''चक्षिङः ख्याञ्''' (२.४.५४) | ख्याता | क्शाता |
Line 626 ⟶ 603:
'''चक्षिङः ख्याञ्''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''चक्षिङः ख्याञ्''' '''आर्धधातुके''' |
=====  '''अजेर्व्यघञपोः''' (२.४.५६) =====
'''अजेर्व्यघञपोः''' (२.४.५६) | अज् → वेता |
Line 634 ⟶ 610:
'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |

'''आदेच उपदेशेऽशिति''' (६.१.४५) | ध्यै → ध्याता
Line 646 ⟶ 621:
यथा— ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे - वा, छो → छा |

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्''' (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
======  '''भ्रस्जो रोपधयोः रमन्यतरस्याम्''' (६.४.४७) ======
'''भ्रस्जो रोपधयोः रमन्यतरस्याम्''' (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः; अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— '''भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके''' |
Line 664 ⟶ 637:
भ्रस्ज् + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज् + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष् + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा

====== '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) ======
'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) | मीञ् → मा → प्रमाता | मिञ् → मा → माता | दीङ् → दा → उपदाता |
Line 672 ⟶ 646:
'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन '''अशिति''' इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम् आत् ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |
=====  लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) =====
====== '''विभाषा लीयतेः''' (६.१.५१) ======
'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |
=====  गुहू (संवरणे) =====
====== '''ऊदुपधाया गोहः''' (६.४.८९) ======
'''ऊदुपधाया गोहः''' (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''गोहः अङ्गस्य उपधायाः ऊत् अचि''' |
Line 704 ⟶ 680:
'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |

===== '''कृपेश्च अवकल्कने'''
'''कृपेश्च अवकल्कने''' (विचारं करोति, चिन्तनं करोति) |
======  '''कृपो रो लः''' (८.२.१८) ======
'''कृपो रो लः''' (८.२.१८) | कृप् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → कर्प् → कल्प् → कल्पिता आत्मनेपदे / परस्मैपदे '''तासि च क्लृपः''' (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |
Line 726 ⟶ 702:

==== ३) इडागमः ====

Line 736 ⟶ 711:
अग्रे प्रत्येकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत्प्रत्यये सम्बद्धाः | तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते—
=====  '''तासि च क्लृपः''' (७.२.६०) =====
'''तासि च क्लृपः''' (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां '''लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात्''' | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | '''गमेरिट् परस्मैपदेषु''' (७.२.५८) इत्यस्मात् '''परस्मैपदेषु''' इत्यस्य अनुवृत्तिः | '''न वृद्भ्यश्चतुर्भ्यः''' (७.२.५९) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन '''सेऽसिचि कृतचृतच्छृदतृदनृतः''' (७.२.५७) इत्यस्मात् '''से''' इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् | अनुवृत्ति-सहितसूर्त्रं— '''क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च''' |
Line 744 ⟶ 718:
अत्र प्रश्नः उदेति अस्मिन् '''तासि च क्लृपः''' (७.२.६०) इति सूत्रे '''तासि''' इति पदस्य का आवश्यकता ? अपि च अनुवृत्तिसहितसूत्रे '''से''' इत्यस्य का आवश्यकता ? '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति, इत्युक्तम्; अन्यत्र कृप्-धातुः आत्मनेपदी | अतः पुनः 'तासि से' इति वदनस्य का आवश्याता ? उत्तरमेवं यत् '''तासि च क्लृपः''' (७.२.६०) इति सूत्रं सप्तमाध्याये; तस्य च अर्थपूर्तिः न भवितुम् अर्हति '''लुटि च क्लृपः''' (१.३.९३) इति प्रथमाध्यस्थसूत्रेण | अष्टाध्याय्याम् अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण च | अत्र तादृशः अवसरः नास्ति अतः साक्षात् वदनस्यावश्यकता |
=====  '''तीषसहलुभरुषरिषः''' (७.२.४८) =====
'''तीषसहलुभरुषरिषः''' (७.२.४८) = दिवादिगणे इष्-धातुः, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् |
Line 766 ⟶ 739:

==== ४) अतिदेशः ====

Line 796 ⟶ 768:
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि एषां त्रयाणामपि कार्यं भवति | ततः अग्रे अस्मिन् लकारे विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्’ इत्युक्तौ प्रतययम् अवलम्ब्य न तु धातुमवलम्ब्य |)
=====  '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) =====
'''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— '''गाङ्कुटादिभ्यः अञ्णित् ङित्''' |
Line 816 ⟶ 787:
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
======  कुटादयः धातवः ======
कुटादयः धातवः तेषां लुट्-लकाररूपाणि च अत्र प्रदर्श्यन्ते—
Line 940 ⟶ 910:
'''गाङ् लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
=====  '''विज इट्''' (१.२.२) =====
'''विज इट्''' (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''विजः इट् ङित्''' ''''''|
Line 950 ⟶ 919:
उद् + विज् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
=====  '''विभाषोर्णोः''' (१.२.३) =====
'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''विज इट्''' (१.२.२) इत्यस्मात् '''इट्''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''ऊर्णोः इट् ङित् विभाषा''' |
Line 994 ⟶ 962:
=== सामान्यम् अङ्गकार्यम् ===

Line 1,002 ⟶ 969:

==== इगन्तधावः ====
नी + लुट् → नी + तास् + तिप् → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता
Line 1,032 ⟶ 998:

==== लघूपधधातवः ====
लिख् → लिख् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) → लेख् + इता → लेखिता
Line 1,048 ⟶ 1,013:

===== मृज्-धातोः वृद्धिः =====

Line 1,126 ⟶ 1,090:
उद्विज् + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणप्रसक्तिः → '''विज इट्''' (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तास्-प्रत्ययः अत्र इडादिः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
===  लुट्-लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम् ===
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्-लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
Line 1,154 ⟶ 1,117:

==== १) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ====

===== आकारान्ताः च एजन्ताः च धातवः =====
====== सामान्याः आकारान्तधातवः ======

Line 1,225 ⟶ 1,187:

====== दरिद्रा-धातुः ======

Line 1,241 ⟶ 1,202:

====== एजन्तधातवः ======

Line 1,259 ⟶ 1,219:

===== इकारान्तधातवः =====

====== सामान्याः इकारान्तधातवः ======

Line 1,279 ⟶ 1,237:

====== श्रि, श्वि इति धातू ======

Line 1,293 ⟶ 1,250:

====== डुमिञ् प्रेक्षणे ======

Line 1,307 ⟶ 1,263:

===== ईकारान्तधातवः =====

====== सामान्याः ईकारान्तधातवः ======

Line 1,327 ⟶ 1,281:

====== डीङ्, शीङ् इति धातू ======

Line 1,341 ⟶ 1,294:

====== दीधी, वेवी ======

Line 1,361 ⟶ 1,313:

====== मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू ======

Line 1,377 ⟶ 1,328:

====== लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू ======

Line 1,387 ⟶ 1,337:
ली → ले → ला → विलाता | आत्वाभावे विलेता |

===== उकारान्तधातवः =====

====== सामान्याः उकारान्तधातवः ======

Line 1,407 ⟶ 1,355:

====== षट् सेटः उकारान्तधातवः ======

Line 1,423 ⟶ 1,370:

====== उकारान्ताः कुटादिधातवः ======

Line 1,457 ⟶ 1,403:

====== ऊर्णु-धातुः ======

Line 1,479 ⟶ 1,424:

===== ऊकारान्तधातवः =====

====== सामान्याः ऊकारान्तधातवः ======

Line 1,521 ⟶ 1,464:

====== कुटादिधातवः ======

Line 1,549 ⟶ 1,491:

====== ब्रू-धातोः वच् इति धात्वादेशः ======

Line 1,561 ⟶ 1,502:

===== ऋकारान्तधातवः =====

====== सामान्याः ऋकारान्तधातवः ======

Line 1,581 ⟶ 1,520:

====== वृङ्,वृञ् इति द्वौ धातू सेटौ ======
======  '''वॄतो वा''' (७.२.३८) ======
'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
Line 1,597 ⟶ 1,535:

====== स्वृ-धातुः वेट् ======

Line 1,613 ⟶ 1,550:

===== ॠकारान्तधातवः =====

Line 1,635 ⟶ 1,571:

==== २) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ====

Line 1,677 ⟶ 1,612:

===== सेट् इदुपधधातवः =====

Line 1,689 ⟶ 1,623:

====== कुटादिगणीयः सेट् इदुपधधातुः एकः एव— डिप्-धातुः ======

Line 1,709 ⟶ 1,642:

====== विज्-धातुः ======

Line 1,723 ⟶ 1,655:

===== सेट् उदुपधधातवः =====

Line 1,737 ⟶ 1,668:

====== कुटादिगणीयाः सेट्-उदुपधधातवः ======

Line 1,821 ⟶ 1,751:

=====  सेट् ऋदुपधधातवः =====

Line 1,836 ⟶ 1,764:

====== कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्, भृड् ======

Line 1,848 ⟶ 1,775:
भृड् + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता

====== कृप्-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः ======

Line 1,866 ⟶ 1,792:

====== ग्रह्-धातुः ======

Line 1,882 ⟶ 1,807:

====== चक्ष्-धातुः ======

Line 1,912 ⟶ 1,836:

====== अज्-धातुः ======

Line 1,936 ⟶ 1,859:

==== ३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ====

हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां लुट्-लकारान्तरूपं साधयिष्यामः | धेयं यत् तास्-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |

===== कवर्गान्तधातवः =====

Line 1,964 ⟶ 1,885:

===== चवर्गान्तधातवः =====

====== एकाच्-चकारान्तधातवः - षड् धातवः अनिटः ======

Line 1,998 ⟶ 1,917:

====== वेट्-चकारान्तधातवः—तञ्चू, व्रश्च् ======

Line 2,032 ⟶ 1,950:

====== व्रश्च-धातुः ======

इडादिपक्षे—
Line 2,066 ⟶ 1,983:

====== व्यच्-धातुः ======

व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् '''व्यचेः कुटादित्वमनसीति वक्तव्यम्''' इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | परन्तु तिङ्-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति | तिङ्-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत् न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच् + इता → व्यचिता |
==== एकाच्-छकारान्तधातुः - प्रच्छ् ====
एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
Line 2,090 ⟶ 2,005:

===== जकारान्तधातवः =====

Line 2,125 ⟶ 2,039:

====== विशिष्ट-अनिट्-जकारान्तधातवः ======

Line 2,137 ⟶ 2,050:

====== मस्ज्-धातुः ======

Line 2,169 ⟶ 2,081:

====== सृज्-धातुः ======

Line 2,195 ⟶ 2,106:

====== भ्रस्ज्-धातुः ======

'''भ्रस्जो रोपधयोः रमन्यतरस्याम्''' (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
Line 2,214 ⟶ 2,124:
भ्रस्ज् + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज् + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष् + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा

अज् + लुट् → वेता |
'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |
======  तुदादिगणीय-विज्-धातुः ======
'''विज इट्''' (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''विजः इट् ङित्''' |
Line 2,232 ⟶ 2,140:

====== यज्-धातुः - सन्धिविशेषः ======

Line 2,243 ⟶ 2,150:

===== वेट्-धातवः - अञ्जू, मृजू =====

Line 2,263 ⟶ 2,169:

====== मृज्-धातुः ======

'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
Line 2,286 ⟶ 2,191:

==== तवर्गान्तधातवः ====

Line 2,328 ⟶ 2,232:

===== दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द् =====
क्लिद्-धातुः
Line 2,354 ⟶ 2,257:
स्यन्द् + ता →
=====  एकाच्-धकारान्तधातवः - १० धातवः =====
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश् झशि''' (८.४.५३) इति सूत्राभ्याम् |
Line 2,430 ⟶ 2,332:
रध् + ता →
=====  एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन् =====
एकाच्-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्, हन् |