page_and_link_managers, Administrators
5,152
edits
No edit summary |
No edit summary |
||
Line 74:
<big>एकस्मिन् तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत्, प्रातःकालस्य षड्वादनात् सयङ्कालपर्यन्तम् दिनस्य प्रहराः | उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्वादनात् नववादनपर्यन्तम् | अतः अद्यतनकालः इत्यस्मिन् आहत्य षड्प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रेः नववादनपर्यनम् |</big>
=== <big>'''अनद्यतने लुट्''' (३.३.१५)</big> ===
Line 177 ⟶ 178:
<big>लुट् → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्-संज्ञा; '''हलन्त्यम्''' (१.३.३) इत्यनेन टकारस्य इत्-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोः लोपः → ल् → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते |</big>
===== <big> '''स्यतासी लृ-लुटोः''' (३.१.३३)</big> =====
Line 184 ⟶ 186:
<big>प्रथमपुरुषे '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) इत्यनेन परस्मैपदे तिप् → डा, तस् → रौ, झि → रस्; आत्मनेपदे त → डा, आताम् → रौ, झ → रस् |</big>
===== <big> '''लुटः प्रथमस्य डारौरसः''' (२.४.८५)</big> =====
<big>'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस् | आत्मनेपदे त-स्थाने डा, आताम्-स्थाने रौ, झ-स्थाने रस् | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' |</big>
====== <big> '''अनेकाल्शित् सर्वस्य''' (१.१.५५)</big> ======
Line 297 ⟶ 301:
<big>तास् + ति → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), ति-स्थाने डा-आदेशः → तास् + डा → '''चुटू''' (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् '''टेः''' (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता</big>
====== <big> '''टेः''' (६.४.१४३)</big> ======
Line 367 ⟶ 372:
<big>तास् + आथाम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे</big>
====== <big> '''टित आत्मनेपदानां टेरे''' (३.४.७९)</big> ======
Line 375 ⟶ 381:
<big>तास् + ध्वम् → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास् + ध्वे → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → ताध्वे</big>
====== <big>
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रात्सस्य''' (८.२.२४) इत्यस्मात् '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धि च सस्य लोपः''' |</big>
Line 392 ⟶ 398:
<big>तास् + महि → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्महे</big>
===== <big> '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः</big> =====
<big>प्रश्नः भवति यत् '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्, '''हलन्त्यम्''' (१.३.३) इत्यनेन तास् इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्—</big>
Line 442 ⟶ 452:
|<big>तास्मः</big>
|}
▲=== <big> </big> ===
=== <big>आत्मनेपदे सिद्धतिङ्प्रत्ययाः</big> ===
|